०२३ राक्षसीकृतसीताभीषणम्

रावणगमनानन्तरकालिकं वृत्तं वर्णयितुमाह इतीति । शत्रुरावणो रावणः मैथिलीमित्युक्त्वा राक्षसीः संदिश्य च निर्जगाम ॥ ५।२३।१ ॥

निष्क्रन्त इति । निष्क्रन्ते अन्तःपुरान्निर्गते रावणे पुनरन्तःपुरं च गते सति भीमरूपा राक्षस्यः सीतां समभिदुद्रुवुः जग्मुः ॥ ५।२३।२ ॥

तत इति । ततो रावणगमनात्पमरनन्तरं क्रोधमूर्च्छिता राक्षस्यः सीतामुपागम्य परुषया वाचा इदमब्रुवन् ॥ ५।२३।३ ॥

तद्वचनाकारमाह पौलस्त्यस्येत्यादिभिः । हे सीते पौलस्त्यस्य दशग्रीवस्य भार्या मन्दोदर्यादिः त्वं बहु न मन्यसे तत्कर्तृकपूजां न स्वीकरोषीत्यर्थः, तत्कुतः, तत्कुत इति शेषः । सुबन्तस्य कर्मतया अन्वयान्न द्वितीया यत्तदोरध्याहारो वा ॥ ५।२३।४ ॥

ननु राक्षसीकर्तृकपूजामहं न ग्रहीष्यामीत्युत्थापितसीताशङ्कां निवर्तयितुं वचनान्तरमुपक्रमते तत इति । ततः तदुक्त्यनन्तरं करतलोदरीं सूक्ष्मोदरविशिष्टामित्यर्थः, सीतामामन्त्र्य संबोध्य क्रोधताम्राक्षी एकजटानाम राक्षसी अब्रवीत् ॥ ५।२३।५ ॥

तद्वचनाकारमाह प्रजापतीनामित्यादिभिः । पुलस्त्य इति नाम्ना विश्रुतो विख्यातः अयमेतद्वंशप्रवर्तकः ब्रह्मणो मानसः पुत्रः षण्णां “मरीचिरत्र्यङ्गिरसः पुलस्त्यः पुलहः क्रतुः” इत्यत्रोक्तानां प्रजापतीनां मध्ये चतुर्थः प्रजापतिः ॥ ५।२३।६ ॥

पुलस्त्यस्येति । पुलस्त्यस्य मानसः सुतो विश्रवा नाम ॥ ५।२३।७ ॥

तस्येति । तस्य विश्रवसः पुत्रो रावणः तस्य रावणस्य भार्याः पत्नीः भवितुं पूज्यात्वेन प्राप्तुं त्वमर्हसि ॥ ५।२३।८ ॥

मयेति । मयोक्तं किं किमर्थं न अनुमन्यसे । अर्धं पृथक् । ततो ऽनन्तरं मार्जारसदृशेक्षणा हरिजटानाम राक्षसी अब्रवीत् । अर्धद्वयमेकान्वयि ॥ ५।२३।९ ॥

तद्वचनाकारमाह येनेत्यादिभिः । येन देवा देवराजश्च निर्जिताः तस्य भार्याः पत्नीः भवितुं पूज्यात्वेन प्राप्तुं त्वमर्हसि ॥ ५।२३।१० ॥

वीर्येति । वीर्योत्सिक्तस्य उद्धतवीर्यस्य रावणस्य भार्या मन्दोदरीप्रभृतिः किं किमर्थं न लिप्स्यसे वाञ्छसि । द्वितीयानुत्पत्तिः पूर्ववत् ॥ ५।२३।११ ॥

तत्र हेतुमाह प्रियामिति । प्रियामतिप्रीतिविषयीभूतां बहुमतां बहुभिराकाङ्क्षितां भार्यामतिदीप्तिहेतुभूतां राजलक्ष्मीमित्यर्थः, त्यक्त्वा सर्वासां लक्ष्म्यादीनां मध्ये महाभागां त्वां रावण उपैष्यति प्रापयिष्यति ॥ ५।२३।१२ ॥

समृद्धमिति । स्त्रीसहस्रेण समृद्धमन्तःपुरमुत्सृज्य स्वाधीनत्वं निवर्त्य त्वामुपैष्यति प्रापयिष्यति ॥ ५।२३।१३ ॥

असकृदिति । येन गन्धर्वदानवा असकृन्निर्जिताः स रावणः ते पार्श्वं चरणसमीपमुपागतः अतिभाग्यं तवेत्यर्थः ॥ ५।२३।१४ ॥

तस्येति । तस्य भार्यात्वं किमर्थं नेच्छसे सेविकात्वेन वाञ्छसि ॥ ५।२३।१५ ॥

यस्येति । यस्य यस्माद्भीतः सूर्यो न तपति मारुतो न वाति च तस्य पूजायामिति शेषः, त्वं किं किमर्थं न तिष्ठसे आस्थां करोषि ॥ ५।२३।१६ ॥

पुष्पेति । यस्य भयात् यदा इच्छति तदैव तरवो पुष्पवृष्टिं मुमुचुः शैलाः गिरयः जलदाश्च पानीयं सुस्रुवुः तस्य भार्यार्थे तद्भार्याणां कल्याणार्थं बुद्धिं निश्चयं त्वं किं कथं न कुरुषे । अर्धचतुष्टयमेकान्वयि ॥ ५।२३।१७,१८ ॥

साध्विति । हे भामिनि तत्त्वतः यथार्थं साधु कथितं वाक्यं मद्वचनं साधु गृहाण स्वीकुरु अन्यथा न भविष्यसि राक्षस्यो हनिष्यन्तीत्यर्थः ॥ ५।२३।१९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे त्रयोविंशः सर्गः ॥ ५।२३ ॥