०२६ अङ्गदयौवराज्याभिषेकः

सुग्रीवकर्तृकागमनानन्तरकालिकं वृत्तान्तमाह तत इत्यादिभिः । क्लिन्नवाससम् आर्द्रवस्त्रयुक्तं सुग्रीवं शाखामृगमहामात्राः शाखामृगमहस्य सकलवानरपूज्यस्य सुग्रीवस्य अमात्राः मन्त्रिणः परिवार्य उपतस्थिरे सुग्रीवेण सह जग्मुः ॥ ४।२६।१ ॥

अभिगम्येति । अक्लिष्टकारिणं क्लेशाभावेन सकलकर्मप्रवर्तनशीलं रामम् अभिगम्य प्राप्य सर्वे सुग्रीवप्रभृतयः पितामहं ब्रह्माणम् ऋषय इव प्राञ्जलयः प्रणयसूचकबद्धयुगलकराः सन्तः स्थिताः ॥ ४।२६।२ ॥

तत इति । ततः रामसमीपप्राप्त्यनन्तरं काञ्चनशैलाभः सुमेरुसदृशः तरुणार्कनिभाननः तरुणसूर्यसदृशमुखः हनूमान् अब्रीत् ॥ ४।२६।३ ॥

तद्वचनाकारमह भवदिति । सुदंष्ट्राणां तीक्ष्णदंष्ट्राविशिष्टानां संपन्नबलशालिनाम् अतिबलवतां महात्मनां वानराणां सुदुष्प्रापं प्राप्तुमशक्यं पितृपैतामहं महदिदं राज्यं भवत्प्रसादात् प्राप्तं सुग्रीवेणेति शेषः । सार्धश्लोक एकान्वयी ॥ ४।२६।४ ॥

भवतेति । भवता समनुज्ञातः ससुहृद्गणः सुग्रीवः नगरं किष्किन्धां प्रविश्य सर्वाणि कार्याणि राज्ञा कर्तव्यानि संविधास्यति ॥ ४।२६।५ ॥

स्नात इति । गन्धैरौषधैश्च स्नातो ऽयं सुग्रीवः माल्यैः रत्नैश्च त्वां विशेषतो ऽर्चयिष्यति अतः गिरिगुहां किष्किन्धामितो गन्तुमर्हसि । सार्धश्लोक एकान्वयी ॥ ४।२६।६,७ ॥

कुरुष्वेति । स्वामिसंबन्धं सुग्रीवे वानरनिरूपितस्वामित्वसंसर्गं कुरुष्व सुग्रीवं राज्ये स्थापयेत्यर्थः, अत एव वानरान् संप्रहर्षय । अर्धं पृथक् एवमिति । हनुमता एवमुक्तो राघवः हनूमन्तं प्रत्युवाच । अर्धद्वयमेकान्वयि ॥ ४।२६।८ ॥

तद्वचनाकारमाह– चतुर्दशेति । हे हनुमन् पितुः निर्देशपारगः आज्ञानिर्वाहको ऽहं चतुर्दश समाः वर्षाणि ग्रामं पुरं च न प्रवेक्ष्यामि ॥ ४।२६।९ ॥

ननु तर्हि सुग्रीवो ऽपि इहैव तिष्ठतु इत्यत आह सुसमृद्धामिति । गुहां किष्किन्धां प्रविष्टः मदाज्ञया संप्राप्तः सुग्रीवः क्षिप्रं राज्ये राज्यासने अभिषिच्यतामभिषेकेण प्राप्यताम् ॥ ४।२६।१० ॥

एवमिति । हनुमन्तमेवमेवमुक्त्वा रामः सुग्रीवमब्रवीत् ॥ ४।२६।११ ॥

तद्वचनाकारमाह वृत्तज्ञ इति । वृत्तज्ञः लोकशास्त्रवृत्तान्ताभिज्ञस्त्वमुदारबलविक्रमम् उदारौ अधिकावित्यर्थः बलविक्रमौ पराक्रमप्रतापौ यस्य तमङ्गदं यौवराज्ये अभिषेचय ॥ ४।२६।१२ ॥

तत्र हेतुमाह जेष्ठस्येति । जेष्ठस्य भ्रातुः ज्येष्ठः सुतः अत एव विक्रमेण सदृशः अत एव अदीनात्मा अयमङ्गदः यौवराज्यस्य भाजनं पात्रम् ॥ ४।२६।१३ ॥

ननु भवत्कार्यसाधनमन्तरा सुग्रीवाभिषेको नोचित इत्यत आह पूर्व इति । वार्षिकसंज्ञकाः वार्षिकवृष्टिकर्तृत्वं तस्य संज्ञा ज्ञानं ज्ञाता येषु ते ये चत्वारो मासाः प्रवृत्ताः संप्राप्ताः । किंच प्रकृष्टवृत्तान्तवन्तः राजादियात्रानिवर्तका इत्यर्थः, तेषां मध्ये सलिलागमः अतिवृष्टिप्रवर्तकः वार्षिकः वर्षर्तुसंबन्धी पूर्वो ऽयं श्रावणो मासः वर्तते इति शेषः, अतः अयमुद्योगसमयः सीतान्वेषणोद्योगकालो न अतस्त्वं पुरीं किष्किन्धां प्रविश सलक्ष्मणो ऽहं तु अस्मिन्पर्वते वत्स्यामि । श्लोकद्वयमेकान्वयि ॥ ४।२६।१४,१५ ॥

इयमिति । विशाला विस्तीर्णा युक्तमारुता नित्यं मारुतयुक्ता प्रभूतसलिला बहुनिर्झरवतीत्वे बहुसलिलविशिष्टा प्रभूतानि अत्यन्तं सञ्जातानि कमलोत्पलानि यस्यां सा अत एव रम्या रन्तुं योग्या इयं गिरिगुहा, अस्तीति शेषः । एतेन तस्याः स्थितियोग्यता सूचिता ॥ ४।२६।१६ ॥

कार्तिके इति । कार्तिके समनुप्राप्ते सति रावणवधे यत प्रयत्नं कुरु, एष नः समयः अस्मत्कृतः संकेतः बोद्धव्य इति शेषः, अतस्त्वं स्वमालयं प्रविश स्वराज्ये प्रविश्य सुहृदः संप्रहर्षय । सार्धश्लोक एकान्वयी ॥ ४।२६।१७ ॥

इतीति । इति रामाभ्यनुज्ञातः सुग्रीवः किष्किन्धां प्रविवेश ॥ ४।२६।१८ ॥

तमिति । प्रविष्टं प्रवेशाय गच्छन्तं वानरेश्वरं सुग्रीवं प्रहृष्टानि वानरसहस्राणि अभिवाद्य सर्वतः पर्यवारयन् ॥ ४।२६।१९ ॥

तत इति । ततः सुग्रीवप्रवेशानन्तरं हरिगणेश्वरं सुग्रीवं दृष्ट्वा सर्वाः प्रकृतयः मूर्ध्ना प्रणम्य वसुधायां समाहिताः संस्थिताः ॥ ४।२६।२० ॥

सुग्रीव इति । सुग्रीवः प्रकृतीः प्रजाः संभाष्य संबोध्य उत्थाप्य च भ्रातुः सौम्यमन्तःपुरं प्रविवेश ॥ ४।२६।२१ ॥

प्रविष्टमिति । भीमविक्रान्तं भीमो रिपुभयंकरो विक्रान्तो विक्रमो यस्य तं सुग्रीवं सहस्राक्षममराः इव सुहृदः अभ्यषिञ्चन्त ॥ ४।२६।२२ ॥

तत्प्रकारमाह तस्येत्यादिभिः । हेमपरिष्कृतं पाण्डुरं छत्रं हेमदण्डे वालव्यजने केशमयव्यजने चामरे चेत्यर्थः, तस्य समीपमाजहुः ॥ ४।२६।२३ ॥

तथेति । रत्नादीनि षोडश कन्याश्चादाय आजग्मुः, वानरा इति शेषः । तत्र प्ररोहा अधोजटाः, गन्धाः गन्धद्रव्याणि, जातरूपं सुवर्णं, परार्ध्ये बहुमूल्ये समालम्भनमनुलेपनविशेषः । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ४।२६।२४२८ ॥

तत इति । ते हनुमदादयः वानरश्रेष्ठमभिषेक्तुं रत्नाद्यैर्द्विजर्षभान् तोषयित्वा आसन्निति शेषः ॥ ४।२६।२९ ॥

तत इति । ततः प्राप्तसन्तोषानन्तरं मन्त्रविदो जनाः द्विजर्षभाः कुशपरिस्तीर्णं परितः कुशैर्विशिष्टं समिद्धं प्रज्वलितं जातवेदसं वह्निं मन्त्रपूतेन हविषा हत्वा अवर्तन्त इति शेषः ॥ ४।२६।३० ॥

तत इति । रम्ये प्रासादशिखरे प्रासादाकारशृङ्गे विद्यमाने हेमप्रतिष्ठाने हेम्नः प्रतिष्ठानानि पादाः यस्मिन् वरास्तरणसंवृते आसने राजपीठे सुग्रीवं मन्त्रैः विधिवत् प्राङ्मुखं स्थापयित्वा तीर्थेभ्यः पुण्यहेतुभ्यः नद्यादिभ्यः शुभैः ऋषभशृङ्गादिभिराहृत्य संस्थापितानि अपो जलानि कनककुम्भेषु निधाय प्रसन्नेन प्रसादेनोपलक्षिताः वानरर्षभाः गजादयः शास्त्रदृष्टेन शास्त्रोक्तेन विधिना महर्षिविहितेन महर्षीणामाज्ञया च सुग्रीवमभ्यषिञ्चन्त । तत्र दृष्टान्तः सुगन्धिना सलिलेन सहस्राक्षं सहस्रसंख्याकनयनविक्षिष्टं वासवमिन्द्रं वसवो यथा । श्लोकषट्कमेकान्वयि ॥ ४।२६।३१३६ ॥

अभिषिक्त इति । सुग्रीवे अभिषिक्ते सति वानरपुङ्गवाः हृष्टाः सन्तः प्रचुक्रुशुः प्रभूतं स्वजातीयशब्दं चक्रुः ॥ ४।२६।३७ ॥

रामस्येति । सुग्रीवः रामस्य वचः रामकर्तृकाज्ञां कुर्वन् सन् अङ्गदं संपरिष्वज्य यौवराज्ये अभ्यषेचयत् ॥ ४।२६।३८ ॥

अङ्गद इति । अङ्गदे अभिषिक्ते यौवराज्याभिषेकं प्राप्ते सति सानुक्रोशाः दयावन्तः प्लवङ्गमाः साधु साध्विति सुग्रीवमपूजयन् ॥ ४।२६।३९ ॥

राममिति । तादृशे विधिपूर्वके तत्र तस्मिन्नभिषेके वर्तति वर्तमाने सति सर्वे वानराः समं लक्ष्मणं च पुनः पुनस्तुष्टुवुः ॥ ४।२६।४० ॥

हृष्टेति । गिरिगह्वरे विद्यमाना किष्किन्धा हृष्टपुष्टनाकीर्णा अत एव पताकाध्वजशोभिता अत एव रम्या बभूव ॥ ४।२६।४१ ॥

निवेद्येति । कपिवाहिनीपतिः वानरसेनाधीशः सुग्रीवः महाभिषेकं रामाय निवेद्य रुमां भार्यामुपलभ्य प्राप्य त्रिदशाधिप इव राज्यमवाप ॥ ४।२६।४२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षड्विंशः सर्गः ॥ ४।२६ ॥