०५४ भूषणप्रक्षेपणम्-लङ्काप्रवेशं च

सीतावृत्तान्तमेवाह–ह्रियमाणेत्यादिभिः । ह्रियमाणा रावणेनेति शेषः, कञ्चिन्नाथं रक्षकमपश्यती अपश्यन्ती वैदेही गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ददर्श ॥ ३।५४।१ ॥

तेषामिति । विशालाक्षी सीता यदि कदाचित् रामाय शंसेयुः इति हेतोः कनकप्रभं स्वर्णप्रभासदृशप्रभाविशिष्टं कौशेयमुत्तरीयम् आभरणानि च तेषां वानरपुङ्गवानां मध्ये मुमोच । सार्धश्लोक एकान्वयी ॥ ३।५४।२ ॥

वस्त्रमिति । सहभूषणं वस्त्रमुत्सृज्य विद्यमानायाः सीतायाः संभ्रमात् तदुक्तिहेतुकोद्वेगात्, हेतोः निःक्षिप्तं निःक्षेपणरूपं तत्कर्म दशग्रीवो न बुद्धवान् ॥ ३।५४।३ ॥

पिङ्गाक्षा इति । तदा वस्त्रादिप्रक्षेपणसमये विक्रोशन्तीं विशालाक्षीं सीतां पिङ्गाक्षाः वानरोत्तमाः अनिमिषैः निमिषरहितैरिव नेत्रैः ददृशुः ॥ ३।५४।४ ॥

स इति । स रावणः रुदन्तीं रुदतीं मैथिलीं गृह्य गृहीत्वा पम्पामतिक्रम्य लङ्कां पुरीमभिमुखः सन् जगाम ॥ ३।५४।५ ॥

तामिति । तां सीतां सुसंहृष्टो रावणः तीक्ष्णदंष्ट्रा महाविषाम् आत्मनो मृत्युं भुजङ्गीमिव उत्सङ्गेन जहार ॥ ३।५४।६ ॥

वनानीति । स रावणः चापात् च्युतः शर इव वनादीनि क्षिप्रं विहायसा समतीयाय ॥ ३।५४।७ ॥

तिमीति । तिमयो नक्रविशेषाः नक्राः मकरास्तेषां निकेतं निवासस्थानं वरुणालयं वरुणनिकेतम् अक्षयं यावदधिकारं विनाशरहितं सरितां शरणम् आश्रयं सागरं गत्वा समतीयाय ॥ ३।५४।८ ॥

संभ्रमादिति । वैदेह्यां ह्रियमाणायां सत्यां वरुणालयः संभ्रमात् सीतापहरणहेतुकभीतेः परिवृत्ताः निवृत्ताः ऊर्मयः स्वभावसिद्धतरङ्गाः यस्य अत एव रुद्धा मीनमहोरगा यस्य स बभूव द्वयोः कर्मधारयः ॥ ३।५४।९ ॥

अन्तरिक्ष इति । अन्तरिक्षं गता चारणाः दशग्रीव एतदन्त एतदपहरणमेव अन्तो विध्वंसो यस्य स इति वाचं ससृजुः । सिद्धा अपि तथैव अब्रुवन् ॥ ३।५४।१० ॥

स इति । अङ्केन शीध्रगत्योपलक्षितः स रावणस्तु आत्मनो मृत्युरूपिणीं याथार्थ्यनिरूपिकां सीतामादाय लङ्कां प्रविवेश ॥ ३।५४।११ ॥

स इति । स रावणः सुविभक्ताः महापथा राजमार्गा यस्यां संरूढाः राक्षसैराकीर्णाः कक्ष्या द्वारो यस्यास्तां, बहुलामतिविस्तृतां लङ्कां पुरीमभिगम्य स्वम् अन्तः पुरमविशत् ऽसंरुद्धकक्ष्याबहुलंऽ इति पाठे तादृशबहुलतरद्वारवदित्यन्तःपुरविशेषणमिति भट्टाः ॥ ३।५४।१२ ॥

तत्रेति । तत्रान्तःपुरैकदेशे शोकमोहसमन्विताम् असितापाङ्गीं सीतां रावणः आसुरीं मायां मय इव निदधे ॥ ३।५४।१३ ॥

अब्रवीदिति । दशग्रीवः घोरदर्शनाः पिशाचीः अब्रवीत् । तद्वचनाकारमाह–यथा येन प्रकारेण असंमतः मदनाज्ञप्तः पुमान् स्त्री वा न पश्यति तथा रक्षतेति शेषः ॥ ३।५४।१४ ॥

मुक्तेति । मुक्तादीनि अन्यच्च यद्यदिच्छेत्तत् मच्छन्दतो मदाज्ञातः यथा यथावत् देयम् ॥ ३।५४।१५ ॥

या चेति । या काचित् किंचिदप्रियं वैदेहीं वक्ष्यति तस्याः प्रियं जीवितं जीवनं नङ्क्ष्यतीति शेषः ॥ ३।५४।१६ ॥

तथेति । ताः राक्षसीः तथोक्त्वा अन्तःपुरात् निष्क्रम्य प्रतापवान् राक्षसेन्द्रो रावणः किं कृत्यम् इदानीं मया किं कर्तव्यमिति चिन्तयत् अचिन्तयत् । ददर्शेति–पिशिताशनान् अष्टौ राक्षसान् ददर्श रावण इति शेषः ॥ ३।५४।१७१८ ॥

स इति । वरदानेन मोहितः स रावणः तान् प्रसिद्धान् एतान् अष्टौ राक्षसान् दृष्ट्वा बलवीर्यतः बलवीर्याभ्यां प्रशस्य इदमुवाच ॥ ३।५४।१९ ॥

तद्वचनाकारमाह–नानेति । नानाप्रहरणाः अनेकविधायुधविशिष्टाः सत्वराः वेगवन्तो यूयम् इतो मत्समीपात् क्षिप्रं शीघ्रं भूतपूर्वं खरालयं पौर्वकालिकं खरनिवासस्थानमित्यर्थः, हतस्थानं हतो विध्वंसितः स्थानः राक्षसरूपस्थाता यस्मिंस्तत् जनस्थानं गच्छत ॥ ३।५४।२० ॥

गमनप्रयोजनमाह–तत्रेति । पौरुषं स्वतेजः बलं च आश्रित्य संस्मृत्य त्रासमुद्वेगं दूरतः उत्सृज्य त्यक्त्वा निहतराक्षसे अत एव शून्ये तत्र प्रसिद्धजनस्थाने आस्यताम् ॥ ३।५४।२१ ॥

ननु बलवन्तो राक्षसाः केन निहता इत्यत आह–वह्विति । महावीर्यं सदूषणखरं दूषणखरसहितं जनस्थाने निवेशितं बहु सैन्यं रामसायकैः निहतम् ॥ ३।५४।२२ ॥

तत इति । ततः खरादिविध्वंसाद्धेतोः अपूर्वः पूर्वमेवं न जातः इदानीमेवोत्पन्न इत्यर्थः, क्रोधः धैर्यस्योपरि यथा भवति तथा वर्धते धेर्यस्योपरीत्यनेन तत्क्रोधरोधस्यासत्वं सूचितम् अत एव सुदारुणम् अनिवर्त्यमित्यर्थः, ? द्वैरं रामं प्रति जातम् ॥ ३।५४।२३ ॥

निरिति । रिपोस्तद्वैरं निर्यातयितुं रिपुध्वंसेन दूरीकर्तुमिच्छामि । तदभावे दोषमाह–संयुगे रिपुमहत्वा निद्रां न लप्स्यामि ॥ ३।५४।२४ ॥

तमिति । खरदूषणघातिनं तं राममिदानीमहं हत्वा निर्धनो धनं लब्ध्वेव शर्म सुखमुपलप्स्यामि ॥ ३।५४।२५ ॥

ननु तत्र गत्वा ऽस्माभिः किं कर्तव्यमित्यत आह–जनस्थाने इति । जनस्थाने वसद्भिर्भवद्भिः रामः किं करोतीति राममाश्रिता प्रवृत्तिः तत्त्वत उपनेतव्या मत्समीपं प्रापणीया ॥ ३।५४।२६ ॥

अप्रमादादिति । अप्रमादात् अनवधानताराहित्यादेव सर्वैर्निशाचरैर्गन्तव्यम् जनस्थानमिति शेषः, राघवस्य वधं प्रति यत्नश्च कर्तव्यः ॥ ३।५४।२७ ॥

भवन्तः प्रेषयितुं योग्या इति बोधयन्नाह–युष्माकमिति । बहुशो ऽनेकवारं युष्माकं बलं ज्ञातमत एवास्मिन् जनस्थाने यूयं मया निवेशिताः निवेशयितुं प्रेषिताः ॥ ३।५४।२८ ॥

तत इति । ततः रावणोक्त्यनन्तरं महार्थं प्रियं वाक्यं रावणवचनम् उपेत्य ज्ञात्वा यतः अतिप्रयत्नवन्त अष्टौ राक्षसाः रावणमभिवाद्य लङ्कां विहाय अलक्ष्यदर्शनाः सन्तः जनस्थानं प्रतस्थिरे ॥ ३।५४।२९ ॥

तत इति । ततः राक्षसप्रेषणानन्तरं स प्रसिद्धो राक्षसो रावणः मैथिलीं सीतामुपलभ्य प्राप्य परिगृह्य राक्षसीभिर्ग्राहयित्वा तत्सेवायां राक्षसीर्नियुज्येत्यर्थः, मोहात्स्वस्वामिरामविषयकाज्ञानात् हेतोः रामेण उत्तमं महद्वैरं प्रसज्याश्रित्य मुदितो बभूव ॥ ३।५४।३० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुष्पञ्चाशः सर्गः ॥ ३।५४ ॥