०६९ भरतेन दुःस्वप्नदर्शनम्

मातुलकुलस्थभरतवृत्तान्तमाह– यामित्यादिभिः । यां रात्रिमुपलभ्य दूताः पुरीं प्रविशन्ति स्म तां रात्रिमुपलभ्य भरतेन अयं वक्ष्यमाणः अप्रियः स्वप्नः दृष्टः ॥ २।६९।१ ॥

स्वप्नकालविशेषं बोधयन्नाह– व्युष्टामिति । व्युष्टां व्यतीतप्रायां प्रातरित्यर्थः, रात्रिमुपलभ्य पुत्रो भरतः सुभृश्ामत्यन्तं पर्यतप्यत ॥ २।६९।२ ॥

तप्यमानमिति । तप्यमानं दुष्टस्वप्नदर्शनजनितखेदवन्तमाज्ञाय आयासं खेदं विनयिष्यन्तः विनेष्यन्तः दूरीकुर्वन्तो वयस्याः सभायां कथाः व्यथापनोदकवार्ताः चक्रिरे परस्परं कथयामासुः ॥ २।६९।३ ॥

कथाप्रकारं वर्णयन्नाह– वादयन्तीति । शान्तिं खेदनिवृत्तिमुद्दिश्य वादयन्ति वीणादीति केचिदिति च शेषः । अपरे लासयन्ति नृत्यन्ति अपरे हास्यानि हास्यरसोत्पादकानि भाषासंस्कृतमिश्रवचनादीनि प्राहुः ॥ २।६९।४ ॥

स इति । गोष्ठीहास्यानि गोष्ठ्युचितहास्यसम्पादकवचनोच्चारणानि कुर्वद्भिः प्रियबोधिभिः प्रियबोधनशीलैः सखिभिः सहितो ऽपि भरतः न प्राहृष्यत ॥ २।६९।५ ॥

तमिति । हे सखे सुहृद्भिः पर्युपासीनस्त्वं किं किमर्थं नानुमोदसे इति सखिभिर्वृतं भरतं प्रियसखः भरतस्य प्रियः सखा अब्रवीत् ॥ २।६९।६ ॥

एवमिति । एवं ब्रुवाणं कथयन्तं सुहृदं प्रत्युवाच । तत्प्रतिवचनमेवाह– यन्निमितं यत्कारणकमेतन्मे दैन्यमुपागतं प्राप्तं तत्कारणं श्रृणु ॥ २।६९।७ ॥

स्वप्न इति । मलिनं म्लानं मुक्तमूर्धजमबद्धकेशं गोमये गोमयप्रचुरे कलुषे ह्रदे अद्रिशिखरात्पतन्तं पितरं स्वप्ने ऽद्राक्षम् ॥ २।६९।८ ॥

प्लवमान इति । तस्मिन्ह्रदे प्लवमानः अञ्जलिना तैलं पिबन्मुहुर्मुहुः हसन्निव स पिता दृष्टः ॥ २।६९।९ ॥

तत इति । ततः तैलपानानन्तरं तिलौदनं तिलमिश्रमोदनं भुक्त्वा अधश्शिराः तैलेन अभ्यक्तानि

सर्वाङ्गानि यस्य स राजा तैलमेवान्वगाहत तैले अस्नात् ॥ २।६९।१० ॥

स्वप्नान्तरमाह– स्वप्न इति । शुष्कं सागरं भुवि पतितं चन्द्रं च उपरुद्धां राक्षसादिभिः पीडितामत एव तमसेव समावृतां जगतीं पृथिवीं च औपवाह्यस्य राजवाहनयोग्यस्य नागस्य हस्तिनः शकलीकुतं खण्डीकृतं विषाणं दन्तं च ज्वलिताः पूर्वं प्रज्वलिताः ये जातवेदसो वह्नयस्ते पश्चात्सहसा त्वरितं संशान्ताः गतज्वालास्तांश्च अवदीर्णां विदीर्णताविशिष्टां पृथिवीं च विध्वस्तान्पतितान्सधूमान् धूमसहितान्पर्वतांश्च अहं पश्यामि अपश्यम् “वर्तमानसामीप्ये” इति भूते लट् । श्लोकत्रयमेकान्वयि । “औपवाह्यो राजवाह्यः” इति हलायुधः ॥ २।६९।१११३ ॥

प्रथमस्वप्नसमानं स्वप्नान्तरमाह– पीठे इति । कृष्णपिङ्गलाः कृष्णपिङ्गलवर्णविशिष्टाः प्रमदाः कार्ष्णायसे नीललोहनिर्मिते पीठे निषण्णं संस्थितं कृष्णवाससं धृतनीलवस्त्रं राजनं मत्पितरं प्रहरन्ति स्म ॥ २।६९।१४ ॥

त्वरमाण इति । रक्तमाल्यानुलेपनः अरुणमालाचन्दनधारी खरयुक्तेन रथेन त्वरमाणः धर्मात्मा राजा दक्षिणाभिमुखः सन्प्रयातः ॥ २।६९।१५ ॥

प्रहसन्तीति । रक्तवासिनी धृतरक्तवस्त्रा विकृतानना छिन्ननासिकादिविशिष्टाननविशिष्टा राजानं प्रकर्षन्ती प्रहसन्तीव प्रमदा स्वप्ने मया दृष्टा ॥ २।६९।१६ ॥

एवमिति । वाम हे सुन्दरसखे भयावहां भयप्रापिकामिमां रात्रिमुपलभ्य एवमनेन प्रकारेण एतन्मया दृष्टम् । ननु किमेवंदर्शनेनेत्यत आह– मदाद्यन्यतमः रिष्यति स्वजनागम्यदेशं प्राप्स्यति गत्यर्थकरिधातोर्लृट् ॥ २।६९।१७ ॥

प्राकृतविलक्षणजनविषयकस्वप्नफलमुक्त्वा प्राकृतजनविषयकं फलं वदन्नाह– नर इति । यः प्राकृतो नरः खरयुक्तेन यानेन स्वप्ने याति तस्य जनस्य चितायां धूमाग्रं धूमशिखा अचिरात्सम्प्रदृश्यते ॥ २।६९।१८ ॥

एतदिति । येन अहं दीनः तन्निमित्तमेतदेव अत एव वचः भवद्वचनं न प्रतिपूजये अत एव मे कण्ठः शुष्यत्येव मनः स्वस्थं नैव ॥ २।६९।१९ ॥

नेति । भयस्थानं भयनिमित्तं न पश्यामि भयं तु उपधारये प्राप्नुयामि अत एव मे स्वरयोगः युक्तस्वरः भ्रष्टः विपरिणतः अत एव छाया कान्तिः अपगता विवर्णतां प्राप्ता ॥ २।६९।२० ॥

जुगुप्सन्निति । आत्मानं भयनिवर्तकयत्नं जुगुप्सन्नयुक्तत्वेन निन्दन्नेवाहं कारणं भयन्निवृत्तिहेतुं न पश्यामि । अर्धं पृथक् ॥ २।६९।२१ ॥

इमामिति । पुरा पूर्वमवितर्कितामनेकरूपामिमां स्वप्नगतिं निशम्य राजानमविचिन्त्यं निश्चितत्वेन चिन्तनानर्हं दर्शनं यस्य तं विचिन्त्य हृदयान्महद्भयं न याति ॥ २।६९।२२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥ २।६९ ॥