०६४ दशरथमृतिः

उपरतऋषिपुत्रदशर्नकथनानन्तरकालिकं राजवृत्तमाह– वधमिति । अप्रतिरूपमयोग्यं तस्य महर्षेर्वधं विलपन्कथयन्राघवो दशरथः इदमब्रवीत् ॥ २।६४।१ ॥

वचनाकारमाह– तदिति । अज्ञानान्महत्पापं कृत्वा सङ्कुलितेन्द्रियः व्याकुलकरणो ऽहं तत्पापं सुकृतं सुविनष्टमित्यर्थः । कथं भवेदिति बुद्ध्या मनसाहमचिन्तयम् ॥ २।६४।२ ॥

तत इति । ततः चिन्तानन्तरं परमवारिणा अत्युत्कृष्टसरयूजलेन पूर्णं तं घटमादाय आख्यातपथम् ऋषिबालोपदिष्टमार्गं गतः प्राप्तो ऽहं तं मुनिपित्रधिष्ठितमाश्रमं यथावत्प्राप्य तत्र तस्मिन्नाश्रमे दुर्बलौ पङ्गुत्वेन चलनसामर्थ्यरहितौ अन्धौ अपरिणायकौ रक्षकान्तररहितौ तन्निमित्ताभिः पुत्रसम्बन्धिनीभिः कथाभिः अपरिश्रमौ श्रमाभाववन्तौ तां मत्पुत्रो जलमानेष्यतीत्याकारिकामाशामिच्छाविशेषमुपासीनौ प्राप्तौ मत्कृते मत्कर्तृकवधे सति हीनौ पुत्ररहितौ अत एव लूनौ छिन्नौ पक्षौ ययोः तौ द्विजौ पक्षिणाविव आसीनौ तस्य पितरौ अनाथवन्नाथत्वाभाववानिवाहमपश्यम् । श्लोकत्रयमेकान्वयि ॥ २।६४।३५ ॥

शोकेति । भयेन वधजनितदोषेण सन्त्रस्तं चेतः यस्य सः अहं तदाश्रमं श्रमनिवर्तकं पदं स्थानं गत्वा भूयः तद्दुःखदर्शनेनाधिकं शोकं गतः प्राप्त आसमिति शेषः ॥ २।६४।६ ॥

पदेति । पदशब्दं पादक्रमजनितस्वनं श्रुत्वा अभाषत । भाषणाकारमाह– किं किमर्थं चिरयसि विलम्बं करोषि ॥ २।६४।७ ॥

यदिति । यन्निमित्तं येन कारणेन इदमतिविलम्बं त्वया सलिले क्रीडितं तेन कारणेन ते माता उत्कण्ठिता शोकसहितं सस्मार अतः क्षिप्रं प्रविश ॥ २।६४।८ ॥

यदिति । व्यलीकमप्रियं तत्त्वया मनसि न कर्तव्यं स्मर्तव्यमेतेन मातापितृकर्तकापकृतिरपि पुत्राणां कल्याणप्रदेति व्यञ्जितम् ॥ २।६४।९ ॥

त्वमिति । अगतीनां रक्षकरहितानां हीनचक्षुषामस्माकं त्वमेव गतिः रक्षकः अत एव चक्षुश्च अत एव त्वयि प्राणाः अस्माकमिन्द्रियाणि समासक्ता संलग्नाः त्वं कथं किमर्थं न अभिभाषसे ॥ २।६४।१० ॥

मुनिमिति । सज्जमानया पुत्रासक्तिसहितया अव्यक्तया अतिवृद्धत्वाद्व्यक्ताक्षररहितया वाचा उपलक्षितं तं हतपुत्रं मुनिं प्रेक्ष्य भीतचित्त इवाहं हीनव्यञ्जनया भीत्या व्यक्तिरहितयेत्यर्थः । वाचा अब्रुवम् । इव एवार्थे ॥ २।६४।११ ॥

भङ्ग्यन्तरेण तदेवाह– मनस इति । वाग्बलं वाच आच्छादकं मनसः कर्म भीतिमित्यर्थः । चेष्टाभिः अवचनेन न निर्वाह इत्यादिविचाररूपव्यापारैरभिसंस्तभ्य आछाद्य पुत्रव्यसनजं पुत्रमरणजनितं भयमहमाचचक्षे ॥ २।६४।१२ ॥

कथनप्रकारमाह– क्षत्रिय इत्यादिभिः । येन मया सज्जनैः अवमतं तिरस्कृतं स्वकर्मजमिदं दुःखं प्राप्तं प्रापितं स दशरथो ऽहं महात्मनस्तव पुत्रो नाहम् ॥ २।६४।१३ ॥

ननु किं तत्कर्मेत्यत आह– भगवन्निति । निपाने जलपानदेशे आगतं प्राप्तं किञ्चित्क्रूरमित्यर्थः । श्वापदं व्याघ्रादिगजं च जिघांसुरहं सरयूतीरमागतः ॥ २।६४।१४ ॥

तत इति । ततः सरयूतीरगमनानन्तरं जले पूर्यतः पूर्यमाणस्य कुम्भस्य शब्दो मया श्रुतः अयम् एतच्छब्दकारणीभूतः द्विपः गजः इति मत्वा अहमतिष्ठमिति शेषः । अत एव मया बाणेन अभिहतः ॥ २।६४।१५ ॥

गत्वेति । तस्याः सरय्वास्तीरं गत्वा अमुना मत्प्रयुक्तबाणेन विनिर्भिन्नमत एव गता गमनानुकूलव्यापारविशिष्टाः प्राणा यस्य तं तापसमपश्यम् ॥ २।६४।१६ ॥

तत इति । ततस्तद्दर्शनानन्तरं परितप्यतः विद्धबाणेन खेदं प्राप्नुवतस्तस्य तपस्विनो वचनादेव उपेत्य तत्समीपं प्राप्य मर्मतः मर्मस्थलात्स बाणो मयोद्धृतः ॥ २।६४।१७ ॥

स इति । उद्धृतेन बाणेन हेतुभूतेन भगवन्तावुभौ मातापितरौ शोचन् विलप्य स तापसः स्वर्गमास्थितः ॥ २।६४।१८ ॥

अज्ञानादिति । एवमनेन प्रकारेण भवतः पुत्रः अज्ञानान्मयाभिहतः अतः शेषं शिष्यते प्रलये ऽपि न विध्वस्यते सः नित्यलोकस्तं गते प्राप्ते सति यत्कर्तव्यं स्यात्तद्यथा भवति तथा मुनिर्भवान्प्रसीदतु अनुग्रहं निग्रहं वा कुर्वित्यर्थः ॥ २।६४।१९ ॥

स इति । अघशंसिना मया कथितमिति शेषः । क्रूरं वचः श्रुत्वा तीव्रमायासं विध्वंसकशापं कर्तुं दातुं भगवान्समर्थो ऽपि स ऋषिर्नाशकत् । एतेन पुत्रवधस्याज्ञानजातत्वान्न विध्वंसनयोग्यत्वं राज्ञ इति तन्निश्चितो हेतुः सूचितः तेन ऋषेः परमधर्मज्ञत्वं व्यञ्जितम् । “अकर्तुम्” इति भूषणपाठः ॥ २।६४।२० ॥

स इति । महातेजाः स ऋषिः उपस्थितं समीपे प्राप्तं मामुवाच ॥ २।६४।२१ ॥

वचनाकारमाह– यदीति । एतदज्ञानात्स्वकृतमशुभं कर्म मे मह्यं यदि न कथयेः तर्हि ते मूर्धा शतसहस्रधा फलेत् भिद्येत ॥ २।६४।२२ ॥

तत्र हेतुं वदन्नाह– क्षत्रियेणेति । हे राजन् वानप्रस्थे क्षत्रियेण ज्ञानपूर्वकृतो वधस्ताडनं वज्रिणमिन्द्रमपि स्थानात्स्वर्गाच्च्यावयेत्पातयेदेतेन यदिन्द्रं पातयेत्तर्हि तदितरं पातयेदिति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः ॥ २।६४।२३ ॥

तदेव भङ्ग्यन्तरेणाह– सप्तधेति । तपसि कृच्छ्रचान्द्रायणादौ तिष्ठति कुर्वति मुनौ ब्रह्मवादिनि ब्रह्मवेत्तरि वा ज्ञानाच्छस्त्रं विसृजतः पुरुषस्य मूर्धा सप्तधा उपलक्षणविधया अनेकधेत्यर्थः । भवेत् किञ्च तपसि ब्रह्मविचारे तिष्ठति अत एव ब्रह्मवादिनि ब्रह्मप्राप्ते तादृशे मत्पुत्रसदृशे मुनौ शस्त्रं विसृजतः पुरुषस्य मूर्धा सप्तधा अनेकधा भवेत् “ब्रह्मचारिणि” इति पाठान्तरं तस्यापि ब्रह्मप्राप्ते इत्येवार्थः । तत्र पक्षे तपसीत्यस्य पूर्व एवार्थः ॥ २।६४।२४ ॥

अज्ञानादिति । हि यस्मादिदं कर्म त्वया अज्ञानात्कृतं तेन हेतुना जीवसि अपि अन्यथा ज्ञानपूर्वकवधे कुलं न स्यात् नश्येदित्यर्थः । भवानेव कुतः एतेन काव्यार्थापत्यलङ्कारेण ज्ञानपूर्वकवधः कैश्चिदपि न कर्तव्य इत्युपदेशः सूचितः ॥ २।६४।२५ ॥

नयेति । हे नृप तं पुत्रशरीराधिष्ठितदेशं नौ आवां नय प्रापय । तत्र हेतुः– पश्चिमदर्शनं पश्चिममन्तिमं दर्शनं यस्य तं रुधिरेण अवसिक्तमङ्गं यस्य तं प्रकीर्णानि प्रक्षिप्तानि अजिनवासांसि यस्य तं निःसञ्ज्ञं सञ्ज्ञारहितमत एव भुवि शयानं धर्मराजवशं गतं धर्मराजादुत्तमधर्माचरणाद्वशं कान्तिविशेषं गतं प्राप्तं पुत्रं द्रष्टुमिच्छावः इति मामभ्यभाषत । श्लोकद्वयमेकान्वयि ॥ २।६४।२६,२७ ॥

अथेति । अथ तदाज्ञापनानन्तमेक एवाहं नीत्वा अहं सर्वकालं धर्मत्यागाभावं तमत एव आर्यया भादीप्त्या सह सहितं तं मुनिपुत्रं भृशदुःखितौ मातापितरौ अस्पर्शयं स्पर्शमकारयम् अहमित्यत्र नञ्पूर्वकहाधातोः कर्तरि कः ॥ २।६४।२८ ॥

ताविति । आत्मनः स्वस्य पुत्रमासाद्य प्राप्य स्पृष्ट्वा अस्य शरीरे तौ मातापितरौ निपेततुः अस्य पिता एनमुवाच च ॥ २।६४।२९ ॥

वचनाकारमाह– नेति । मा मामद्य नाभिवादयसे प्रणमसि भाषसे च न किं किमर्थं भूमौ शेषे कुपितः किमसि ॥ २।६४।३० ॥

नन्विति । हे पुत्र ननु यदि अहं ते अप्रियः तदा मातरं पश्य किं किमर्थं नालिङ्गसे हे सुकुमार वद ब्रूहि ॥ २।६४।३१ ॥

कस्येति । पररात्रे अर्धरात्रादूर्ध्वभागे शास्त्रमन्यत्पुराणादिकं वा अधीयानस्य कस्य विशेषतो मधुरं हृदयङ्गमं मनोहरं वचः श्रोष्यामि ॥ २।६४।३२ ॥

क इति । पुत्रशोकभयेन अर्दितं पीडितं मामुपासीनः समीपे स्थितः सन्कः श्लाघयिष्यति स्तोष्यति ॥ २।६४।३३ ॥

कन्देति । अकर्मण्यं कर्मानुष्ठानानर्हमप्रग्रहं मुनिभक्ष्यसङ्ग्रहरहितमनायकं रक्षकरहितं मां प्रियमतिथिमिव कन्दादिकं हृत्वा आनीय यो भोजयिष्यति स कः न को ऽपीत्यर्थः । तत्र कन्दं जलजन्यानां कमलादीनां मूलं, मूलं स्थलजन्यानां मृत्तिकातिरोहिताधोभागः “कर्मण्यम्” इति कतकपाठः । अतिथिविशेषणं कर्मणि साधुरिति तदर्थः ॥ २।६४।३४ ॥

इमामिति । पुत्रगर्धिनीं पुत्रविषयकातीच्छावतीमिमामन्धां तव मातरं कथं भरिष्यामि ॥ २।६४।३५ ॥

तिष्ठेति । हे पुत्र मा मां प्रति त्वं तिष्ठ यमस्य सदनं त्वं मा गमं न गच्छ समेधितः वर्धितस्त्वं मया जनन्या च सह गन्तासि समेधनकर्तृत्वं च प्रत्यासत्तिन्यायेन साहित्यान्वयिनोरेव एतेन त्वां विनास्मज्जीवन्नं नैव भविष्यतीति सूचितम् ॥ २।६४।३६ ॥

उभाविति । त्वया हीनौ आवां यमक्षयं धर्मराजगृहं क्षिप्रमेव गमिष्यावः ॥ २।६४।३७ ॥

ननु तत्र गमने भवतोः किं प्रयोजनमित्यत आह– तत इति । वैवस्वतं धर्मराजं दृष्ट्वा भारतीं वचनं प्रवक्ष्यामि । वचनाकारमाह– धर्मराजो भवान्क्षमतामस्मदपराधमिति शेषः । तत्प्रयोजनमाह– मे ममायं पुत्रः पितरौ आवां बिभृयात् ॥ २।६४।३८ ॥

नन्विह गतेन कथं त्वत्सेवेत्यत आह– दातुमिति । ईदृशस्य अन्धत्वादिविशिष्टस्य मम अक्षय्यां क्षेतुमशक्याम् एकामभयदक्षिणां भवान्दातुमर्हति तेन पुनर्मद्गृहं प्रेषयेति सूचितम् ॥ २।६४।३९ ॥

ननु प्रार्थितो ऽपि दुर्लभं मत्वा यदि न दास्यति तर्हि का मद्गतिरित्यत आह– अपाप इति । हे पुत्र पापकर्मणा केनचित्पूर्वादृष्टेन हेतुना निहतो ऽपि त्वं यथा यथावदपापः पापरहितो ऽसि अवशिष्टकिञ्चित्सूक्ष्मपापफलस्यापि भुक्तत्वान्नेदानीं तव पापसम्भावनास्तीति तात्पर्यं तेन हेतुना सत्येन सर्वधर्ममूलभूतसत्यरूपधर्मेणोपलक्षितस्त्वमस्त्रयोधिनां ये लोकाः तानाशु गच्छ एतेनाकालमृत्युभीतिस्त्वया न कर्तव्येति सूचितं तेन ब्रह्मवेत्तृ़णामकालमरणादिकमकिञ्चित्करमिति सूचितम् । नचास्य ब्रह्मवेत्तृत्वेन ब्रह्मलोकप्राप्तियोग्यस्य कथमस्त्रयोधिलोकप्राप्तिप्रेरणेति वाच्यम् ब्रह्मलोकस्यैवास्त्रयोधिनो ऽपि प्राप्यत्वात् । तथा च स्मृतिः “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ " इति ॥

२।६४।४० ॥

तेदव भङ्ग्यन्तरेणाह– यामिति । अनिवर्तिनः सङ्ग्रामेभ्यः पलायनरहिताः सङ्ग्रामेषु हता इत्यर्थः । यां गतिं यान्ति तां व्रज ॥ २।६४।४१ ॥

तदेव महतां गम्यमिति बोधयन्नाह– यामिति । यां सगरादयः प्राप्तास्तां गच्छ ॥ २।६४।४२ ॥

इदानीं तव कामचारगतिर्भवितेति बोधयन्नाह– येति । स्वाध्यायो वेदाध्ययनं देहन्यासकृतः प्रयागादौ बुद्धिपूर्वं तनुत्यागकर्तारः एतेन यामिच्छसि तां गच्छेति सूचितम् । श्लोकद्वयमेकान्वयि ॥ २।६४।४३,४४ ॥

नहीति । अस्मिन् तपसि कुले जातः कश्चिदपि जनः येन हेतुना अकुशलां गतिं न गच्छति तेनैव हेतुना मम बान्धवो निहतो भवान् अकुशलां गतिं नैव यास्यति । एतेन ब्रह्मवित्तपस्विकुलस्य

दोषास्पर्शित्वं सूचितं तेन तत्कुलस्य ब्रह्मवेत्तृत्वं व्यक्तम् ॥ २।६४।४५ ॥

एवमिति । सः तत्पिता कृपणं यथा स्यात्तथा पर्यदेवयत व्यलपत्तथा तेन प्रकारेण उक्त्वा विलप्य उदकं प्रमीतक्रियाङ्गीभूतोदकक्रियां कर्तुं प्रवृत्तः ॥ २।६४।४६ ॥

स इति । दिव्येन रूपेणोपलक्षितः स मुनिपुत्रः शक्रेण सह स्वर्गमध्यारुहत् ॥ २।६४।४७ ॥

आबभाष इति । शक्रेण सह तापसस्तौ मातापितरौ मुहूर्तमाबभाषे आश्वासयामासेत्यर्थः । आश्वास्य पितरमिदमब्रवीत् । शक्रेण सहेत्युक्त्या शक्रो ऽपि तदानयनार्थमागत इति व्यक्तम् ॥ २।६४।४८ ॥

वचनाकारमाह– स्थानमिति । परिचारणात्सेवनान्महत्स्थानं प्राप्तो ऽस्मि भवन्तावपि मम मूलं मत्समीपं क्षिप्रमुपेष्यतः प्राप्स्यतः ॥ २।६४।४९ ॥

एवमिति । वपुष्मता प्रशस्तशरीरविशिष्टेन प्रशस्ताकारेणेत्यर्थः । विमानेन आरुरोह ॥ २।६४।५० ॥

स इति । उपस्थितं समीपे स्थितं मां भार्यया सह तापसः उवाच ॥ २।६४।५१ ॥

वचनाकारमाह– अद्येति । हे राजन् यस्त्वं शरेण एकपुत्रं मामपुत्रकमकार्षीः स त्वं मामद्यैव जहि ॥ २।६४।५२ ॥

त्वयेति । येन हेतुना मे बालस्त्वया निहतस्तेनैव हेतुना त्वामतिदारुणमसह्यं सुदुःखं शप्स्ये बोधयामि । लृडुपात्तभविष्यत्वस्याविवक्षा शपो बोधनार्थकत्वं तु “नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि” इत्यादिना मनोरमादौ स्पष्टम् ॥ २।६४।५३ ॥

पुत्रेति । हे राजन् एतत्त्वन्निमित्तकं पुत्रव्यसनजं दुःखं मम यथास्ति एवं तथा पुत्रशोकेन कालं पुत्रसंयोगजनितसुखसमयं करिष्यसि त्यक्ष्यसि । विक्षेपणार्थककृधातोर्लृट् ॥ २।६४।५४ ॥

अज्ञानादिति । क्षत्रियेण त्वया यतः अज्ञानान्मुनिर्हतस्तस्माद्धेतोः ब्रह्महत्या ब्रह्महत्यासदृशकरणवधजनितपापं त्वां न आविशति ब्रह्महत्याशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः । अत एव ब्राह्मणजातिनिषेधकैतत्पुत्रत्वोक्त्या न विरोधः । यदि चेह ब्रह्मशब्दे न ब्रह्मज्ञानी उच्यते तदा शङ्कोत्तरयोर्निर्दलत्वं बोध्यम् ॥ २।६४।५५ ॥

दोषस्पर्शित्वाभावे ऽपि परमात्मेच्छा न निवार्येति बोधयन्नाह– त्वामिति । जीवितान्तकरः पालनविघातकः अत एव घोरः एतादृशः मत्खेदसदृशखेदस्य भावः सत्ता दक्षिणं सर्वस्वादिरूपं दातारं त्वामप्यागमिष्यति । इवो हेतौ । यदि मकाररहितः पठेस्तदा दक्षः अतिसामर्थ्यमस्ति अस्येति दक्षी तेन परमात्मेच्छारूपकालेन हेतुना आगमिष्यतीत्यर्थः ॥ २।६४।५६ ॥

एवमिति । एवमनेन प्रकारेण मयि शापं भविष्यत्कालिकवस्तुबोधनं न्यस्य उक्त्वेत्यर्थः । चितामारोप्य तन्मिथुनं स्त्रीपुरुषं स्वर्गमभ्ययात् प्राप्नोत् ॥ २।६४।५७ ॥

तदिति । यत् आबाल्यादीषदज्ञानात्पापं कृतं तच्चिन्तयानेन चिन्तयमानेन शब्दवेध्यनुकर्षिणा शब्दवेधिना बाणेन अनुकर्षति प्राणानपहरति तच्छीलेन मया तदेतन्मुनिवचनं स्मृतम् ॥ २।६४।५८ ॥

परमात्मेच्छायत्तस्वदुःखस्य कर्मफलत्वेनोत्प्रेक्ष्याह– तस्येति । हे देवि तस्य मुनिदुःखदानरूपस्य कर्मणः अयं विपाकः फलं समुपस्थितः प्राप्तः । नन्वज्ञानाज्जातकर्मणः कथं फलप्राप्तिरित्यत आह– अपथ्यैः अपक्वहरितालादिभिः सह अन्नरसे सम्भुक्ते अज्ञानतो ऽपि भक्षिते सति व्याधिर्यथा ॥ २।६४।५९ ॥

तस्मादिति । उदारस्य महतः तस्य ऋषेर्वचः वचनबोधितं दुःखमागतं प्राप्तमिति उक्त्वा त्रस्तः वियोगजनितदुःखेनोद्विग्नः भूमिपो दशरथः रुदन्सन्भार्यां कौशल्यामाह “उदारो दातृमहतोः” इत्यमरः ॥ २।६४।६० ॥

वचनाकारमाह– यदिति । यत् यस्माद्धेतोः पुत्रशोकेन जीवितं प्रजापालनम् इह लोके स्थितिमित्यर्थः । संत्यजिष्यामि संत्यक्ष्यामि अतः त्वां न पश्यामि अत एव त्वमपि मा स्पृश मामिति शेषः । “मा” इति पाठः । अत एव मा मामिति भूषणे व्याख्यातम् ॥ २।६४।६१ ॥

ननु कुतो न मां पश्यसीत्यत आह– यमक्षयमिति । यमक्षयं यमस्य कालगतेः क्षयः विध्वंसो यस्मिँस्तं कालागम्यसाकेतलोकमित्यर्थः । येन मानवाः मनुवंशिनः अनुप्राप्ता प्राप्त्यनुकूलव्यापारवन्तः ते न द्रक्ष्यन्ति इहलोकस्थान्न पश्यन्ति । एतेन मनुवंशीयानां स्वाभाविकः सौशील्यगुणो व्यञ्जितः । अर्धं पृथक् । नन्विहस्थितौ उपायं विचार्य स्थीयतामित्यत आह– यदि रामः मां सकृदपि स्पृशेदन्वारभेत पश्चाद्गमनारम्भं कुर्यात्तदा धनं कोशादिकं यौवराज्यं युवराजपाल्यं जीवेयं पालयेयमिति मे मतिः निश्चय । अर्धद्वयमेकान्वयि ॥ २।६४।६२ ॥

रामागमनं विना स्थित्यभावे हेतुं वदन्नाह– नेति । यदकालकप्रव्राजनं मया कृतं तन्मे ऽसदृशमनुचितमित्यर्थः । यदाज्ञापरिपालनमनेन रामेण कृतं तत्तस्य सदृशमुचितमेव । एतेनेह स्थितौ जना उपहसिष्यन्तीति ध्वनितम् ॥ २।६४।६३ ॥

तदेव भङ्ग्यन्तरेण बोधयन्नाह– दुर्वृत्तमिति । दुर्वृत्तमसद्वृत्तिमसूयेन्निन्देत् ॥ २।६४।६४ ॥

वियोगजदुःखस्य परां काष्ठां बोधयन्नाह– चक्षुषेति । मयि विद्यमाना स्मृतिं रामभिन्नविषयकस्मरणं विलल्यते ॥ २।६४।६५ ॥

स्मृत्यन्तराभावे हेतुं वदन्नाह– दूता इति । स्वतस्य स्वः स्वकीय एव सः रामः तस्य किं च सुशोभनः अतः गुणद्वारा सर्वत्र व्याप्तिर्यस्य तस्य रामस्य एते प्रसिद्धाः गुणाः दूतावदूता इव त्वरयन्ति रामसन्निधिं द्रुतं प्राप्तुमुत्साहयन्तीत्यर्थः । वै निश्चितमेतत् । अर्धं पृथक्– अत इति । जीवितस्य पालनस्य शयः अवसानं यस्मिन् समये तस्मिन्रामं न पश्यामि अतः किं दुःखतरं न किमपीत्यर्थः । अर्धद्वयमेकान्वयि ॥ २।६४।६६ ॥

तस्येति । स्तोकं स्वल्पं वारि आतपो धर्म इव ॥ २।६४।६७ ॥

नन्विह स्थितौ प्रयोजनाभावाद्वयमपि भवता सहैव गमिष्याम इत्यत आह– नेति । ये रामस्य मुखं द्रक्ष्यन्ति ते मनुष्याः प्राकृतनरा न । तत्र हेतुः– यतो देवाः अतिप्रमोदवन्तः अत एव धन्याः चारुः अतिमनोहरा नासिका यस्मिंस्तत्ताराधिपश्चान्द्रस्तत्समं तत्सदृशम् । एतेन तद्दर्शनार्थं भवतीभिः स्थातव्यमिति

ध्वनितम् । अर्धचतुष्टयमेकान्वयि ॥ २।६४।६८,६९ ॥

तदेव भङ्ग्यन्तरेणाह– सदृशमिति । शारदस्य शरत्सम्बन्धिनः शोभनो गन्धो यस्मिंस्तत् ॥ २।६४।७० ॥

निवृत्तेति । शुक्रमतिप्रभावविशिष्टं मार्गः गतो येन तं यथा यथावत् द्रक्ष्यन्ति एतेन तद्दर्शनमतिभाग्यवशेन लभ्यमिति सूचितम् ॥ २।६४।७१ ॥

कौशल्ये इति । चित्तस्य यो मोहः इह स्थितौ कर्तव्यविषयकविवेकाभावस्तेन मे हृदयं सीदतेतराम् । अत एव संयुक्तानिन्द्रियसम्बद्धानपि शब्दादीनहं न वेद जानामि । तत्र हेतुः चित्तनाशात्सर्वाणि विपद्यन्ते परिणतानि भवन्ति । तत्र दृष्टान्तः संरक्ताः अरुणाः । अर्धचतुष्टयमेकान्वयि ॥ २।६४।७२,७३ ॥

अयमिति । आत्मना निष्पादितः शोकः मामचेतनं शिथिलमित्यर्थः । संसाधयति करोति, तत्र दृष्टान्तः नदीरयः गङ्गावेगः कूलमिव ॥ २।६४।७४ ॥

तद्विलापमाह– हेति । आयासनाशन दुःखविध्वंसक ॥ २।६४।७५ ॥

हेति । नाथ मनोरथपूरक ॥ २।६४।७६ ॥

हेति । अनृशंसे क्रूरचेष्टारहिते अत एव आमित्रे अतिप्रिये कुलपांसनि कुलाधिपप्रकाशिके कैकेयि इति अनेन प्रकारेण रामस्य मातुः कौशल्यायाः संन्निधौ शोचन्सञ्जीवितान्तं पालनाभावमप्रकटसाकेतलोकमित्यर्थः । उपागमत् प्राप्नोत् ॥ २।६४।७७ ॥

गमनसमयं बोधयन्नाह– तथेति । प्राणं पालनं जहौ अप्रकटसाकेतं प्रापेत्यर्थः ॥ २।६४।७८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुःषष्टितमः सर्गः ॥ २।६४ ॥