०३७ रामादिभिः चीरपरिधानम्

अमात्यराज्ञोर्वचनश्रवणानन्तरकालिकं रामवृत्तमाह– महेति । महामात्रवचः महान् अमात्रः अमात्यो यस्य सुतस्य वचो वचनम् । किञ्च महामात्रस्य वचो यस्मिन् तदुभयवचनमित्यर्थः । किञ्च महान् सर्वपूज्यो राजा च अमात्रश्च तयोर्वचः श्रुत्वा विनयज्ञो रामः विनीतवद्विशेषनीतिविशिष्टं वाक्यमभ्यभाषत ॥ २।३७।१ ॥

तद्वाक्यमेवाह– त्यक्तेति । राजन् हे मद्विषयकपरमानुरागविशिष्ट त्यक्तभोगस्य अस्वीकृतराज्यपालनस्य अत एव त्यक्तसङ्गस्य परित्यक्तराज्यभोगासक्तेः अत एव सर्वतः मुन्युपभोग्यकृत्स्नेन वने वन्येन जीवतो मे अनुयात्रेण सेनाद्यनुव्रजनेन किं कार्यं प्रयोजनं न किमपीत्यर्थः ॥ २।३७।२ ॥

नन्वनुयात्रमात्रसाहाय्येन किञ्चित्सुखं भवितेत्यत आह– य इति । द्विपश्रेष्ठं कुञ्जरवरं दत्त्वा कक्ष्यायां गजमध्यबन्धनरज्जौ मनः स्थापयितुं स्नेहं कुरुते कुञ्जरोत्तमं त्यजतस्तस्य पुरुषस्य रज्जुस्नेहेन किं न किञ्चिदित्यर्थः । “कक्ष्या प्रकोष्ठे हर्म्यादौ काञ्च्यां मध्येभबन्धने” इत्यमरः ॥ २।३७।३ ॥

तथेति । तथा ध्वजिन्या सेनया किं न किञ्चित्प्रयोजनमित्यर्थः । अतः सर्वाणि सैन्यादीनि अनुजानामि ददामि भरतायेति शेषः । अतः मे मह्यं चीराणि वनवासिधारणयोग्यवस्त्राणि आनयन्तु वस्त्रानयनाधिकारिण इति शेषः ॥ २।३७।४ ॥

खनित्रेति । चतुर्दशवर्षाणि वने वासं वसतः कर्तुमिच्छोः मम उभे खनित्रपिटके खनित्रं वनस्थोपभोग्यमूलादिखननयोग्यकुद्दालविशेषः, पिटका आहृतफलमूलादिस्थापनयोग्यमञ्जूषाविशेषः, तच्च सा च ते समानयत समानाययत यूयमधिकारिजनेनेति शेषः । अत एव गच्छत गमयत यूयमधिकारिजनमिति शेषः ॥ २।३७।५ ॥

अथेति । अथ रामवचनश्रवणानन्तरकाले निरपत्रपा निर्निरन्तरमपः पालनाभावो येषु तान् त्रपते धिक्कारादिना लज्जयति सा किञ्च निर्गतः अपः पालनाभावो येषां ते निरन्तरं पालनकर्तार इत्यर्थः । तान् त्रपते लज्जयति सा विलक्षणपालनकर्त्रीत्यर्थः । कैकेयी जनौघे जनसमूहे पश्यति सति चीराणि स्वयमाहृत्य परिधत्स्वेति राघवमुवाच । एतेन तस्याः पत्यभिप्रायाभिज्ञात्वं ध्वनितम् ॥ २।३७।६ ॥

स इति । स रामः ते वनस्थधारणयोग्य चीरे कैकेय्याः प्रतिगृह्य सूक्ष्मवस्त्रं दुर्ज्ञेयमूल्यकमहावस्त्राणि अवक्षिप्य कैकेयीदत्तचीराणि अवस्त अधारयत् । चीरे द्विवचनम् अधोधार्यत्वोर्ध्वधार्यत्वधर्मद्वयाक्रान्तत्वविवक्षया तद्गतद्वित्वारोपात् उत्तरत्र बहुवचनं तु उद्भूतावयवविवक्षया प्रक्षेपणकर्मीभूतवस्त्रे एकत्वं तु जात्यभिप्रायेण ॥ २।३७।७ ॥

लक्ष्मण इति । वसने ऊर्ध्वाधोदेशधारितमहावस्त्राणि विहाय त्यक्त्वा ॥ २।३७।८ ॥

अथेति । आत्मपरिधानार्थं स्वधारणप्रयोजनकं चीरं सम्प्रेक्ष्य आदरादवलोक्य अत एव कैकेय्याः दत्ते ते कुशचीरे प्रगृह्य अगुरां राहूत्साहसम्पत्तिं पृषती चन्द्रस्थमृगीव सन्त्रस्ता राक्षसान्सन्त्रासयन्तीव अव्यपत्रपमाणा लज्जां त्यजन्ती इव शुभलक्षणा दुर्मना जनौदासीन्यदर्शनहेतुकदुर्मनस्त्वेन प्रतीयमाना जानकी जनकप्रादुर्भूता अश्रुसम्पूर्णनेत्रा धर्मज्ञा धर्मदर्शिनी कौशेयवासिनी गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् । श्लोकत्रयमेकान्वयि ॥ २।३७।९११ ॥

तद्वचनमेवाह– कथमिति । बध्नन्ति धारयन्ति इति एवमुक्त्वा अकुशला मुनिवस्त्रधारणविषयककौशल्यरहिता सीता मुहुर्मुहुर्मुमोह ॥ २।३७।१२ ॥

मोहहेतुकवृत्तमाह– कृत्वेति । एकं कण्ठे कण्ठप्रदेशे स्कन्धे इत्यर्थः । एकं पाणिना आदाय तस्थौ एकमित्युभयान्वयि ॥ २।३७।१३ ॥

तस्या इति । आगम्य सीतासमीपं प्राप्य कौशेयस्योपरि चीरं बबन्ध परिधापयामास । एतेन तस्याः कौशेयत्यागस्यौचित्याभावः सूचितः ॥ २।३७।१४ ॥

राममिति । सीतायाः उत्तमं चीरं बध्नन्तं परिधापयन्तं रामं प्रेक्ष्य परमायत्ता नार्यः नेत्रजं वारि मुमुचुः । ज्वलिततेजसं राममूचुश्च तेन तासां प्रीत्यतिशयो ध्वनितः । सीतायाः इति सम्बन्धसामान्ये षष्ठी । सार्धश्लोक एकान्वयी ॥ २।३७।१५ ॥

तद्वचनमेवाह– वत्सेति । इयं मनस्विनी सीता वनवासे वनवासार्थम् एवं भवानिव वियुक्ता न भवत्विति शेषः । एतेन सीतेहैव संस्थापनीयेति सूचितम् । अर्धं पृथक् ॥ २।३७।१६ ॥

इह संस्थापने प्रयोजनं वदन्त्य आहुः– पितुरिति । विजनं वनं तस्य तव पत्न्याः अस्याः सीतायाः सफलं परमफलसहितं दर्शनं नो ऽस्माकं तावत् त्वद्वनवासपर्यन्तं भवतु ॥ २।३७।१७ ॥

अस्या नयनमयुक्तमिति बोधयन्त्य आहुः– लक्ष्मणेनेति । इयं सीता वने वस्तुं नार्हति ॥ २।३७।१८ ॥

कुर्विति । यद्यपि धर्मनित्यः धर्म एव नित्यो निरन्तरं धार्यो यस्य स त्वं स्वयमेकाकी स्थातुं नेच्छसि तथापि नो याचनां कुरु । याचनास्वरूपमाह– भामिनी सीता इदानीमिह तिष्ठतु । हिर्यद्यप्यर्थे । एतेन रामेच्छान्यथा न भवतीत्यंशस्य तासां विस्मृतिः सूचिता तेन प्रीतेरतिशयो ध्वनितः ॥ २।३७।१९ ॥

तासामिति । तुल्यशीलया रामसमानशीलयुक्तया सीतया प्रार्थित इति शेषः । दशरथात्मजो रामः चीरं बबन्ध बन्धनानुकूलव्यापारं चकार । सीतया प्रार्थित इत्यनेन सह गमने प्रतिबन्धः कैश्चिन्न कार्य इति सीताभिप्रायो व्यक्तः ॥ २।३७।२० ॥

चीरे इति । तया सीतया गृहीते चीरे समीक्ष्य सीतां कैकेयीं च निवार्य मत्कथनसमये भवतीभ्यां किञ्चिन्न वक्तव्यमित्युक्त्वा नृपतेर्गृरुर्वशिष्ठः वाक्यमब्रवीत् ॥ २।३७।२१ ॥

तद्वाक्यमेवाह– अतीति । अतिप्रवृत्ते अति प्रवृत्तिहेतुभूते अत एव दुर्मेधे हे कैकेयि कुलपांसिनि कैकेय्याः केकयराजापत्यानि संत्यस्मिन् इति कैकेयि तदेव कुलमिति कर्मधारयः तस्य पांसिनी तत्सम्बोधनं हे मन्थरे इत्यर्थः । राजानं वञ्चयित्वा अकालकवरयाच्ञानुमत्या संवञ्च्य विद्यमाना त्वं राजानं प्रमाणे प्रामाणिके पथि किं नावतिष्ठसि स्थापयिष्यसि अन्तर्भावितणिजर्थः । तु किमर्थे ॥ २।३७।२२ ॥

ननु कः प्रामाणिकः पन्था इत्यत आह– नेति । हे शीलवर्जिते सीतया वनं न गन्तव्यमिदमेव राजानं बोधयेति तात्पर्यम् । नन्वत्रास्याः किं प्रयोजनमित्यत आह– प्रकृतमुचितकाले राज्ञा प्रापितं रामस्यासनं सीता अनुष्ठास्यति ॥ २।३७।२३ ॥

तत्र हेतुं वदन्नाह– आत्मेति । दारसङ्ग्रहवर्तिनां गृहस्थानामित्यर्थः । दाराः पत्नी आत्मा आर्धाङ्गमित्यर्थः । इति हेतोः रामस्यात्मा इयं सीता मेदिनीं पृथ्वीं पालयिष्यति ॥ २।३७।२४ ॥

सहयाने दोषमाह– अथेति । रामेण सङ्गता संयुक्ता ॥ २।३७।२५ ॥

अन्तपाला इति । अन्तपालाः अन्तःपुररक्षकाः सहोपजीव्य उपजीव्येन धनेन सहितं राष्ट्रं राष्ट्रस्थो जनः पुरमयोध्यां च अत्र पुरशब्दो न भाक्तः पूर्वपद्ये तस्योक्तत्वात् । तेनायोध्यायाः चेतनात्वं व्यक्तम् ॥ २।३७।२६ ॥

भरत इति । काकुत्स्थं रामं भरत इति कौशल्याकेकय्यादीनामप्युपलक्षकम् । अत एव तद्विषये न किञ्चिदुक्तम् । एतेन भरतः पालयितेत्याशा न कर्तव्येति सूचितम् ॥ २।३७।२७ ॥

तत इति । पादपैः वृक्षैः सह एका त्वं शाधि शिक्षय ॥ २।३७।२८ ॥

नेति । यत्र यस्मिन् स्थले ॥ २।३७।२९ ॥

नहीति । पित्रा अदत्तां महीं शास्तुम् त्वयि त्वत्समीपे वस्तुं वा पुत्रवत् पुत्रधर्मज्ञानवान् भरतः नेच्छति तत्र हेतुः यत् यतः महीपतेः निखिलपृथ्वीनियन्तुः जातः अतिधर्मात्मपुत्रत्वादन्याय्यं न कर्तेति भावः । वदो ज्ञानार्थकत्वं तु भासनोपसम्भाषेति सूत्रे प्रसिद्धम् इ इतयव्ययम् ॥ २।३७।३० ॥

नन्वतीव बुद्धिमतीत्वात् भरतेन राज्यं कारयितास्म्येवेत्यत आह– यद्यपीति । सः भरतः अन्यथा विधिविरुद्धं न करिष्यति ॥ २।३७।३१ ॥

ननु मया तु हितानुष्ठानमेव कृतं तद्भरतो जानातु न वेत्यत आह– तत्त्वयेति । पुत्रगर्धिन्या पुत्रसदृशभरतहिताभिकाङ्क्षायुक्तया तत्त्वया यथार्थवक्त्र्य त्वया पुत्रस्य पुत्रसदृशस्य भरतस्य अप्रियं कृतम् । तत्र हेतुः यो रामं नानुव्रतः स लोके कस्मिंश्चिद्भुवने नैव विद्यते । एतेन रामसेवामन्तरा भरतो राज्यं नाभिकाङ्क्षतीति सूचितम् । तेन सीतास्थितिप्रयत्नं कुर्विति व्यञ्जितम् ॥ २।३७।३२ ॥

ननु रामेण सह सकलजनगमनं न सम्भवतीत्यत आह– द्रक्ष्यसे इति । हे कैकेयि केकयीसम्बन्धिनि तस्येदमित्यणि ङीप् । रामेण सह गच्छतः पश्वादीन् तदुन्मुखान् रामसहगमनमतीन् पादपांश्चाद्यैव द्रक्ष्यसे पादपांश्चेत्यनेनायोध्यातरूणां चेतनत्वं व्यक्तम् ॥ २।३७।३३ ॥

तात्कालिककर्तव्यमुपदिशन्नाह– अथेति । देवि हे स्वविजयेच्छावति अत उक्तहेतोः चीरं व्यपनीय दूरीकृत्य स्नुषायै सीतायै उत्तमान्याभरणानि देहि । तत्र हेतुः अस्या चीरं न प्रविधीयते इति अनेन प्रकारेण वसनं चीरं वशिष्ठो न्यवारयत् प्रविधीयतेतीत्यत्र सन्धिस्तु “नमुने” इत्यत्र योगविभागेन क्वचित्त्रिपाद्याः असिद्धत्वाभावज्ञापनात् आर्षत्वाद्वा ॥ २।३७।३४ ॥

निवारणे मन्थराया असामर्थ्यं ज्ञात्वा केकयीं प्रत्याह– एकस्येति । हे केकयराजपुत्रि एकस्य रामस्यैव वने निवासः त्वया वृत्तः तेन सीतागमनं निवारयेति सूचितम् । तस्या अपि गमननिवारणे असामर्थ्यं ज्ञात्वा आह– प्रतिकर्म रामसम्बन्धिनी सर्वक्रिया तत्र नित्या नित्यसम्बन्धवती रामक्रियानिर्वाहिकेत्यर्थः । सा इयं सीता

राघवेण सह विभूषिता सती अरण्ये वसतु ॥ २।३७।३५ ॥

यानैरिति । मुख्यैः श्रेष्ठैः यानैः रथादिभिः परिचारकैः भृत्यवर्गैः सर्वैर्वस्त्रैश्च सहितैः हितकारकैः विधानैरुपकरणैश्च संवृता युक्ता राजपुत्री गच्छतु तत्र हेतुः वरसम्प्रदाने वरयाचनसमये इयं चीराद्युपकरणसहिता न वृता याचितवतीत्यर्थः । वनगमनायेति शेषः । एतेनास्याः अलङ्कारविशिष्टात्वे न तव क्षतिरिति ध्वनितम् ॥ २।३७।३६ ॥

तस्मिन्निति । अप्रतिमप्रभावे तस्मिन् नृपस्य गुरौ जल्पति कथयति सति भर्तुः प्रतिकारकामा भर्तृवस्त्रादिसदृशवस्त्रादीच्छावती सीता विनिवृत्तभावा विनिवृत्तचीरधारणाभिप्राया नैवाभवदिति शेषः ॥ २।३७।३७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ २।३७ ॥