०२८ वनवासदुःखवर्णनम्

रामवचनमेव सप्रसङ्गं निरूपयन्नाह– स इति । धर्मवत्सलः स रामः वने दुःखानि चिन्तयन्विचारयन् सन् सीतां नेतुं बुद्धिं निश्चयं न कुरुते ॥ २।२८।१ ॥

सान्त्वयित्वेति । बाष्पदूषितलोचनामश्रुव्याप्तनेत्रां तां सीतां सान्त्वयित्वा निवर्तनार्थे निवृत्तिरूपप्रयोजनार्थमेतद्वाक्यमुवाच ॥ २।२८।२ ॥

तद्वाक्यमेवाह– सीते इति । इह अयोध्यायामेव धर्मं मदाज्ञप्तमत्पित्रादिसेवनं कुरु यथा येन सेवनेन मे मनसः सुखं स्यादिति शेषः ॥ २।२८।३ ॥

सीते यथेति । वने वसतः पुरुषस्य बहवो दोषाः सन्तीति शेषः । तान्दोषान्मे मत्तः निबोध जानीहि अहं वच्मील्यर्थः ॥ २।२८।४ ॥

सीते विमुच्यतामिति । एषा मत्सन्निधौ बोधिता मतिः वनगमननिश्चयः विमुच्यताम् । तत्र हेतुः कान्तारं निबिडं वनं बहुदोषमनेकदोषविशिष्टमिति अभिधीयते कथ्यते अभिज्ञैरिति शेषः ॥ २।२८।५ ॥

हितेति । सदा नित्यममुखं सुखविरोधि वनं सदा दुःखं दुःखहेतुमेव जानामि एतद्वचः हितबुद्ध्या त्वद्विषयकातिप्रीत्येत्यर्थः । मया अभिधीयते कथ्यते ॥ २।२८।६ ॥

दुःखान्येवाह– गिरीत्यादिभिः । निगिनिर्झरसम्भूताः पर्वतनदीशब्दप्रवृद्धाः गिरिनिर्दरिवासिनां गिरिदरीनिवसनशीलानां सिंहानां निनदाः शब्दाः श्रोतुं दुःखाः दुःखप्रदाः अतो वनं श्रोतुं प्रवृत्तजनस्येति दुःखं भवतीति शेषः । “गिरिकन्दरवासिनाम्” इति भूषणटीकाङ्कितपुस्तकपाठः ॥ २।२८।७ ॥

क्रीडमाना इति । विस्रब्धाः शङ्कारहिता इत्यर्थः । महामृगाः वनजन्तुविशेषाः दृष्ट्वा मनुष्यमिति शेषः । समनुवर्तन्ते हन्तुं सम्मुखमायान्तीत्यर्थः ॥ २।२८।८ ॥

सग्राहा इति । सग्राहाः ग्राहसहिताः पङ्कवत्यः अतिकर्दमविशिष्टाः सरितो नद्यः मत्तैरपि गजैः सुदुस्तराः तरितुमशक्याः ॥ २।२८।९ ॥

लतेति । मार्गाः पन्थानः लताकण्टकसङ्कीर्णाः लताकण्टकैर्व्याप्ताः कृकवाकूपनादिताः कृकवाकुभिः मयूरसरटचरणायुधैः उपनादिताः निरपाः जलरहिताश्च सन्तीति शेषः । “ऋक्पूः–” इत्यप् । अत एव सुदुःखाः अतिदुःखहेतवः ॥ २।२८।१० ॥

सुप्यते इति । स्वयं भग्नासु स्वतः पतितासु पर्णशय्यासु पर्णमयतल्पेषु श्रमखिन्नेन फलाद्याहरणादिजनितश्रमजनितखेदविशिष्टेन पुरुषेण रात्रिषु सुप्यते तस्माद्वनमतो वनपर्यटनशीलस्य दुःखम् ॥ २।२८।११ ॥

अहोरात्रमिति । नियतात्मना यतचित्तेन वृक्षावपतितैः वृक्षेभ्यः पृथिव्यामागतैः ॥ २।२८।१२ ॥

उपवास इति । यथाप्राणेन यथासामर्थ्यमित्यर्थः । जटाभारः जटायाः भारो धारणम् अभार इति छेदो वा केशसंस्कारस्य निषिद्धत्वेन पोषणाभाव इति तदर्थः ॥ २८।१३ ॥

देवतानामिति । विधिपूर्वकं ब्रह्मचर्यविहितविधिनेत्यर्थः ॥ २।२८।१४ ॥

कार्य इति । काले काले नियमेनैव चरतां वर्तमानानां जनानां नित्यशः त्रिः त्रिवारमभिषेकः स्नानं कार्यः ॥ २।२८।१५ ॥

उपहार इति । स्वयमाहृतैः आनीतैः कुसुमैः पुष्पैः आर्षेण वेदविहितेन विधिना वेद्यां स्वनिर्मितस्थलविशेषे उपहारः पूजा कर्तव्यः ॥ २।२८।१६ ॥

यथेति । यथालब्धेन यथाकालं प्राप्तेन तेन फलादिना यताहारैः नियमिताहारविशिष्टैः वनचरैः सन्तोषः कर्तव्यः ॥ २।२८।१७ ॥

अतीवेति । तिमिरमन्धकारः अत एव महान्ति विपुलानि भयानि सन्तीति शेषः ॥ २।२८।१८ ॥

भयहेतूनाह– सरीसृपा इति । बहुरूपाः अनेकविधाः बहवः अनेके ते प्रसिद्धाः सरीसृपाः स्थलनिवासिसर्पाः दर्पादस्मन्निहन्ता कश्चन नास्तीति गर्वात्पथि मार्गे चरन्ति ॥ २।२८।१९ ॥

नदीति । नदीनिलयनाः नदीनिवासिनः अत एव नदीकुटिलगामिनः नदीकौटिल्यसदृशकौटिल्यविशिष्टगमनशीलाः सर्पाः पन्थानमावृत्य परिवृत्य तिष्ठन्ति ॥ २।२८।२० ॥

पतङ्गा इति । पतङ्गाः शलभादयः कीटाः कृमयः दंशाः वनमक्षिकाः “दंशस्तु वनमक्षिका” इत्यमरः ॥ २।२८।२१ ॥

द्रुमा इति । कण्टकिनः बहुकण्टकविशिष्टाः व्याकुलशाखाग्राः व्याकुलाः व्याप्ताः शाखाग्राः येषां ते कुशादयश्च सन्तीति शेषः । तेन हेतुना अतो वनं प्राप्तस्य जनस्य वनं दुःखं दुःखप्रदम् ॥ २।२८।२२ ॥

कायेति । अरण्यवासे वसतः सविधिवनवासिनः पुरुषस्य विविधानि अनेकहेतुकानि भयानि सन्तीति शेषः । अत एव बहवो ऽनेकविधाः कार्यक्लेशाः सन्ति ॥ २।२८।२३ ॥

क्रोधेति । विमोक्तव्यौ अतिशयेन त्यक्तव्यौ मतिर्निश्चयः भेतव्ये भयहेतुभूतोक्तसर्पादौ तत्समीपे इत्यर्थः न भेतव्यं भयं न कार्यम् ॥ २।२८।२४ ॥

उपसंहरन्नाह– तदिति । तदुक्तहेतोः वनं ते अलं न गन्तव्यं तत्र हेतुः बहुदोषकरं वनमनेकरचनाविषयीभूतं वनं काननं गत्वा प्राप्य तव क्षमं त्वत्कर्तृकवनवासदुःखकर्मकसहनं विमृशन् विचारयन्नपि न पश्यामि । इवो ऽप्यर्थे अलमिति निषेधार्थकम् सम्भक्त्यर्थकवनधातुप्रकृतिककर्मकान्तमेकं वनमिति ॥ २।२८।२५ ॥

वनमिति । महात्मना रामेण वनं नेतुं मतिर्निश्चयः यदा न कृता बभूव तदा तस्य रामस्य वचनं वननयननिषेधकवाक्यं सीता न चकार तत्याज भवतैवं न वक्तव्यमित्यनुक्त्वा मौनीभूय तस्थावित्यर्थः । तद्वचने विश्वासं चकारेति तात्पर्यम् । ततो ऽनन्तरमिदं वचः अब्रवीत् ॥ २।२८।२६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टाविंशः सर्गः ॥ २।२८ ॥