०१९ वनवासप्रतिज्ञा

तदिति । अप्रियं पितुरिति शेषः । अत एव मरणोपमं वचनं श्रुत्वा अभित्रघ्नः देवशत्रुसूदनः रामः कैकेयामिदमब्रवीत् ॥ २।१९।१ ॥

तद्वचनमेवाह– एवमिति । वस्तुं वासं कर्तुमितः भवत्याः अभिप्रेतत्वात् ॥ २।१९।२ ॥

इदमिति । अभिनन्दति अभिनन्दयति वचनाद्यैरिति शेषः । अन्तर्भावितणिजर्थः ॥ २।१९।३ ॥

मन्युरिति । अग्रतः अग्रे यतो ब्रूमि ब्रवीमि ततः मन्युः मदुक्तमनङ्गीकृत्यैवान्यत्पृच्छतीत्येवंबुद्ध्या कोपो न कार्यः । तत्र हेतुः वनं यास्यामि आगमशास्त्रस्य संज्ञापूर्वकविधेश्चानित्यत्वादीड्गुणयोरभावः ॥ २।१९।४ ॥

हितेनेति । हितेन प्रियोपदेशकर्त्रा गुरुणा कृतज्ञेन पित्रा च नियुज्यमानः विस्रब्धः त्वद्वचने कृतविश्वासो ऽहं त्वत्प्रीतिविषयीभूतं किमहं न कुर्यां सर्वं करिष्यामीत्यर्थः ॥ २।१९।५ ॥

नन्वेवं चेत्तत्प्रियं कुर्वित्यत आह– अलीकमिति । अलीकं दुःखम् ॥ २।१९।६ ॥

ननु कार्यस्य दुष्करत्वेन करणसंशयात्साक्षान्नोक्तमित्यत आह– अहमिति । प्रचोदितः प्रेरितः त्वयेति शेषः । उत्तरोक्तिस्वारस्यात् । तर्हि प्रियकामार्थं प्रीतिकामनया पित्रा प्रचोदितः प्रेरितो ऽहं प्रतिज्ञां ब्रह्मादिप्रार्थनया स्वकृतनियोगमनुपालयन्सन् भरताय राज्यं किं न दद्याम् । श्लोकद्वयमेकान्वयि । राज्यमात्रं कर्मावर्तते ॥ २।१९।७,८ ॥

तथेति । यद्यो महीपतिः वसुधासक्तनयनः अधोदृष्टिरित्यर्थः । अश्रूणि विमुञ्चति त्यजति तं ह्रीमन्तम् अनाज्ञाप्याज्ञापकत्वेन लज्जावन्तं महीपतिमिदं भवदाज्ञप्तं किंतु नाशक्यमित्यर्थः । इति आश्वासय । तथाशब्दः इत्यर्थे ॥ २।१९।९ ॥

स्वगमनाभावशङ्कां निवर्तयन्नाह– गच्छन्त्विति । नृपशासनाद्राजाज्ञां संप्राप्य शीघ्रजवैः अतिवेगविशिष्टैः हयैः भरतमानयितुमानेतुं दूता गच्छन्तु । “ल्यब्लोपे कर्मण्यधिकरणे च” इत्यनुशासनविहितात्र पञ्चमी ॥ २।१९।१० ॥

दण्डकेति । एषः त्वद्दृष्टिपथं प्राप्तो ऽहं पितुर्वाक्यमविचार्य किमर्थमिदमुच्यत इति विचारमकृत्वैव चतुर्दश समाः वर्षाणि वस्तुं वासं कर्तुं सत्वरः सन् दण्डकारण्यं गच्छामि ॥ २।१९।११ ॥

सेति । तस्य रामस्य तद्वनप्रस्थानबोधकं वाक्यं श्रुत्वा हृष्टा स्वेप्सितरघुनाथप्रतिज्ञातार्थसिद्धिहेतुकहर्षं प्राप्ता सा कैकेयी प्रस्थानं श्रद्दधाना प्रस्थानविषयकश्रद्धावती सती राघवं त्वरयामास शीघ्रं कथयामासेत्यर्थः । कथनरूपधात्वर्थे णिच् ॥ २।१९।१२ ॥

तत्कथनमेवाह– एवमिति । आवर्तयितुमानेतुं नराः नीतिज्ञाः दूताः यास्यन्ति ॥ २।१९।१३ ॥

भरतागमने एतस्य यात्रा न स्यादिति मन्यमाना आह– तवेति । हे राम उत्सुकस्य गमनोत्सवविशिष्टस्य तव विलम्बनं क्षममुचितं न मन्ये तस्माद्धेतोः इतः शीघ्रं गन्तुमर्हसि ॥ २।१९।१४ ॥

ननु राजा कुतो नाज्ञापयतीत्यत आह– व्रीडेति । यद्यतः नृपो व्रीडान्वितः अतिप्रियपुत्रं प्रवासार्थं कथमाज्ञापयिष्यामीति लज्जायुक्तः अतस्त्वां नाभिभाषते हे नरश्रेष्ठ एतदनभिभाषणं किंचिन्न भवेद्गमनप्रतिबन्धकं नेत्यर्थः । अतः एष उपस्थितः मन्युः राक्षसविषयकः ऋषीणां कोपः अपनीयतां निवर्त्यताम् द्रुतं वनगमनेन राक्षसा हन्यन्तामिति तात्पर्यम् ॥ २।१९।१५ ॥

शीघ्रं वनगमने हेत्वन्तरमाह– यावदिति । न स्नास्यते न भोक्ष्यते वनगमनसंशयादिति भावः । नकार उभयान्वयी ॥ २।१९।१६ ॥

स्नानाद्यभावे हेतुमाह– धिगिति । शोकपरिप्लुतः संभावितवियोगजनितशोकव्याकुलचित्तः न्यपतत् ॥ २।१९।१७ ॥

राम इति । कशया कस्य स्वर्गवासिनः शं मङ्गलं यया तया केकय्या अभिप्रचोदितः प्रेरितः हतः स्वाश्रितारिहननकर्ता रामः राजानमुत्थाप्य अवाजी वाज्युपलक्षितयानरहितःसन् एव वनं गन्तुं कृतत्वरः आसीदिति शेषः । हत इत्यत्र कर्माविवक्षया अकर्मकत्वेन कर्तरि निष्ठा । इव एवार्थे ॥ २।१९।१८ ॥

तदिति । दारुणोदयं दारुणानां राक्षसानामुत्कर्षेण अयः प्रक्षेपः यस्मिन् तत् राक्षसत्वप्रक्षेपणबोधकमित्यर्थः । अत एव तदप्रियं तपां राक्षसानां न प्रियं यस्मिंस्तत् अनार्यायाः सर्वश्रेष्ठाया कनिष्ठाया वा केकय्या वचनं श्रुत्वा गतव्यथः नित्यनिवृत्तदुःखः रामः इदमब्रवीत् । उदयमित्यत्र असनार्थकाद्वीत्यत्र प्रश्लिष्टादीधातारेच् ॥ २।१९।१९ ॥

तद्वचनमेवाह– नेति । हे देवि अहमर्थपरः इदानीं राज्याभिलाषी न किंतु, लोकमावस्तुमावासयितुमुत्सहे इच्छामि । तत्र हेतुः ऋषिभिः तुल्यं तोलितं निर्णीतमिति यावत् । विमलं प्रजामलनिवर्तकं धर्ममास्थितं कुर्वन्तमित्यर्थः । मां विद्धि जानीहि अन्तर्भावितणिजर्थो वसतिः ॥ २।१९।२० ॥

यदिति । तत्रभवतः पूज्यस्य पितुः यत्किंचित्प्रियं कर्तुं मया शक्यं तत्प्राणान् पितृप्रियप्रतिबन्धकीभूतप्राणप्रियानपि परित्यज्य सर्वथा सर्वप्रकारेण कृतमेव विद्धीति पूर्वेणान्वय ॥ २।१९।२१ ॥

पितृप्रियस्य अवश्यं कर्तव्यत्वे हेतुमाह– नेति । अतः पितृप्रियाचरणाद्वचनक्रिया आज्ञापिताचरणम् ॥ २।१९।२२ ॥

अनुक्त इति । अत्रभवता पूज्येन पित्रा अनुक्तः साक्षादनाज्ञप्तो ऽपि भवत्याः वचनाद्वने वत्स्यामि ॥ २।१९।२३ ॥

नेति । हे कैकेयि मयि विद्यमानान्मुख्यान्सत्यप्रतिज्ञत्वादीन्गुणान्न आशंससे अचकथः वर्तमानसामीप्य इति भूते लट् । एतेन तत्कथने एवं दुःखं न स्यादिति सूचितम् । अर्धं पृथक्– यदिति । यतः त्वं ईश्वरतरा अतिपूज्या ततः त्वं यद्राजानमवोचः अचकथः तद्दण्डकानां दण्डकनामकेक्ष्वाकुसुतानां महद्वनं शुक्रशापेन वनत्वं प्राप्तं राष्ट्रमद्यैव गमिष्यामि परंतु यावन्मातरमापृच्छे तदाज्ञां गृह्णामीत्यर्थः, तावदेव विलम्बनमिति शेषः । सार्धंश्लोक एकान्वयी ॥ २।१९।२४,२५ ॥

स्वगमनानन्तरकालिकं केकयीकर्तव्यमाह– भरत इति । पितुः पितरं संबन्धसामान्यविवक्षया षष्ठी ॥ २।१९।२६ ॥

रामस्येति । शोकान्निश्चितवियोगजनितदुःखात् ॥ २।१९।२७ ॥

वन्दित्वेति । अनार्यायाः कनिष्ठायाः महाद्युतिः समातिशयरहितप्रकाशविशिष्टः ॥ २।१९।२८ ॥

स इति । स्वमात्मीयम् ॥ २।१९।२९ ॥

तमिति । अक्रुद्धः रामाभिप्रेतज्ञत्वेन क्रोधरहितः लक्ष्मणः परं सर्वरक्षकं तं राममनुजगाम ॥ २।१९।३० ॥

आभिषेचनिकमिति । आभिषेचनिकमभिषेकप्रयोजनकं भाण्डं सामग्रीं प्रदक्षिणं कृत्वा सापेक्षः वनगमनापेक्षासहितः रामः तत्र अभिषेकशालास्थे जने दृष्टिमविचालयञ्जगाम दृष्टिं अविचालयन् इत्यनेन रघुनाथस्य सौशील्यातिशयगुणो व्यक्तः ॥ २।१९।३१ ॥

नेति । राज्यनाशः राज्याभिषेकाभावपूर्वकगमनमस्य रामस्य महतीं समाधिकरहितां लक्ष्मीं

शोभां नैवापकर्षति न्यूनयतीत्यर्थः । तत्र हेतुः लोककान्तस्य लोककानां भुवनजनानामन्तस्य कालस्य कान्तत्वात्स्वामित्वात् किंच लोककान्तस्य ब्रह्मादित्रयस्य कान्तत्वान्नियामकत्वात् किंच लोककान्तस्य सकलशोभायाः कान्तत्वाच्छोभात्वेत्सकलशोभाहेतुत्वादित्यर्थः । तत्र दृष्टान्तः शीतरश्मेः चन्द्रमसः क्षयो गमनमिव ॥ २।१९।३२ ॥

न वनमिति । सर्वलोकातिगस्य सकलभुवनातिवर्तिनः सकललोकोर्ध्ववर्तिसाकेतलोकस्थस्येत्यर्थः । रामस्य चित्तविक्रिया पित्रादिवियोगहेतुकचित्तविकारो नैव लक्ष्यते । इवशब्द एवार्थे ॥ २।१९।३३ ॥

प्रतीति । छत्रादिकं प्रतिषिध्य स्वजनादीन् विसर्जयित्वा विसर्ज्य अदुःखं देवदुःखनिवर्तकयत्नं धारयन् चिन्तयन् इन्द्रियाणि द्रष्टृ़णां मनआदीति निगृह्य गृहीत्वेव आत्मवान् जीवादिनियन्ता रामः मातुः कौशल्यायाः वेश्म गृहं प्रविवेश । अप्रियशंसिवान् अप्रियमेतद्गमनमिति परस्परमूचिवान् सर्वो ऽप्यभिजनः श्रीमतो रामस्य आनने मुखे आकारं पित्रादिवियोगहेतुकदुःखाभासहेतुकविकृतं नालक्षयतअपश्यत् विकृतेरभावो ऽस्तीति भावः । अप्रियशंसिवानित्येतद्घटकीभूताप्रियशब्दात्सम्बन्धसामान्यविवक्षया षष्ठी ततः षष्ठीति सूत्रेण समासः श्लोकत्रयं संमिलितान्वयि ॥ २।१९।३४३६ ॥

उचितमिति । उचितं पुत्रविहिताचरणं हर्षं च न जहौ, तत्र दृष्टान्तः आत्मजं स्वभावसिद्धं तेजश्चन्द्र इव । आत्मशब्दः स्वभाववाची ॥ २।१९।३७ ॥

वाचेति । धर्मात्मा सकलधर्मप्रवर्तकः ॥ २।१९।३८ ॥

तमिति । गुणैः अनियतस्नेहसौशील्यादिभिः समतां प्राप्तः अतिस्नेहादिमत्त्वेन रामसदृश इत्यर्थः । आत्मजमन्तःकरणे उत्पन्नं दुःखं स्वोहितवियोगजनिताधिं धारयन् प्राप्नुवन् ॥ २।१९।३९ ॥

प्रविश्येति । मुदा हर्षेणोपलक्षितो रामः युतं सकलसंपत्तिविशिष्टं वेश्म कौशल्यागृहं प्रविश्य अर्थविपत्तिमर्थस्य परमपुरुषार्थस्य रामसंयोगस्येत्यर्थः । विपत्तिमभावमागतां प्राप्तामिव तां कौशल्यामतिभृशमत्यन्तं समीक्ष्य च अत्र अस्मिन्दर्शने ऽपि विक्रियां चित्तविकाराभासं न जगाम । तत्र हेतुः आत्मविपत्तिशङ्कया आत्मनां शरीरसदृशानां मात्रादीनामित्यर्थः । विपत्तिशङ्कया दुःखसंभावनया । एवशब्द इवार्थे चो ऽप्यर्थे ॥ २।१९।४० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनविंशः सर्गः ॥ २।१९ ॥