०१२ कैकेय्युपलम्भः

तत इति । ततः केकय्युक्त्यनन्तरं दारुणं रामवियोगप्रारब्धमङ्गलकार्याभावोभयबोधकत्वेन श्रवणानर्हं कैकेय्या वचः श्रुत्वा चिन्तामभिसमापेदे प्राप अत एव प्रतताप । ननु संतापबोधकवचनश्राविकात्वेन कैकेय्या पातिव्रत्यभङ्ग इति तु न भ्रमितव्यं रामणादिवधद्वारा एतद्यशःप्रख्यानहेतुभूतत्वेनास्य निम्बाद्यौषधतुल्यत्वेनादोषात् ॥ २।१२।१ ॥

चिन्तास्वरूपमाह– किमिति । केकय्या अपि रामविषयकातिप्रीतिमतीत्वादियमुक्तिर्न सम्भवतीति स्वप्नो ऽयमित्युक्तं तस्यापि जाग्रत्यसम्भवेन चित्तमोह इत्युक्तम् । चित्तमोहो नामोष्मादिजनितचित्तभ्रमः मोहकारणीभूतस्योष्मादेरभावादुक्तम् अनुभूतोपसर्ग इति । अनुभूतानां जन्मान्तरे साक्षात्कृतानामुपसर्गः प्रारब्धवशात्स्मरणमिति तदर्थः । रामनित्यपरिकरत्वेन प्रारब्धादेरभावादुक्तं मनस उपद्रव इति, स्वभावसिद्धमनसो ऽनुधावनमित्यर्थः ॥ २।१२।२ ॥

इतीति । ततः चिन्तनात् संज्ञां तादृशानां मनसामनवस्थितत्वाभावेन तात्त्विक्येषा केकय्युक्तिरिति विचारेण वियोगनिश्चयं प्रतिलभ्य केकयीवाक्यतापितः प्राप्तमनोव्यथः अत एव व्यथितः दुःखहेतुकचालितहस्तादिः राजा उच्छ्वसन् सन् सुखं नाध्यगच्छत् प्राप्नोत् । द्वयोरेकत्रान्वयः ॥ २।१२।३,४ ॥

मण्डल इति । मण्डले अभिमन्त्रितदेशविशेषे पन्नगः सर्पः भूयो ऽधिको यः शोकः तेन उपहता चेतना बुद्धिर्यस्य सः मोहं कर्तव्यविवेकराहित्यं आपेदिवान् प्राप । सार्धश्लोक एकान्वयी ॥ २।१२।५ ॥

चिरेणेति । संज्ञां केकयीबोधनयुक्तिम् । क्रुद्धः संभावितरामवियोगहेतुककोपविशिष्टः तेजसा शरीरप्रभाविशेषेण । अर्धद्वयमेकान्वयि । एवमुत्तरत्रापि ॥ २।१२।६ ॥

तद्वचनाकारमाह– नृशंसे इति । नृशंसे क्रूरात्वेन प्रतीयमाने पापे पापविशिष्टस्त्रीकर्मसदृशकर्मकारिणि आचारक्विबन्तः । अत एव अस्य मम कुलस्य विनाशिनि विनाशनशीले कुलविनाशनमभिषेकोत्साहविनाशनद्वारा बोध्यम् । किं कृतमकार्यमिति शेषः ॥ २।१२।७ ॥

यदेति । यदा यस्मिन्काले जननीतुल्यां मातृसेवासदृशीं ते वृत्तिं सेवां राघवो रामो वहति करोति तस्मिन्नेव काले तस्य रामस्य अनर्थाय त्वमुद्यता कृतप्रयत्ना इह अस्मिन्विषये किं निमित्तम् ॥ २।१२।८ ॥

त्वमिति । आत्मविनाशाय स्वविध्वंसाय स चाभिषेकप्रतिज्ञाविध्वंसद्वारा बोध्यः । व्याली सर्पस्त्री ॥ २।१२।९ ॥

रामाभिषेको दुर्निवार इति बोधयन्नाह– जीवेति । इष्टं इच्छाविषयीभूतं सर्वपूज्यं वा ॥ २।१२।१० ॥

कौशल्यामिति । जीवितं जीवनं पितृवत्सलं पितृभक्तम् । एतेन रामानुरागस्य परा काष्ठा सूचिता ॥ २।१२।११ ॥

परेति । परा अत्युत्कृष्टा अग्रजं रामं राममपश्यतो मे तु चेतनं चैतन्यं नष्टं भवति ॥ २।१२।१२ ॥

तिष्ठेदिति । लोको भुवनं सस्यमारोपितशाल्यादि ॥ २।१२।१३ ॥

तदिति । तत्तस्मात् मम जीवनहेतोः एषः रामाभिषेकनिवारणविषयको निश्चयो बुद्धिः एषः प्रणयसुचकबद्धयुगलकरः ॥ २।१२।१४ ॥

किमिति । परमदारुणमतिक्रूरम् । अर्धं पृथक् ॥ २।१२।१५ ॥

पक्षान्तरं प्रकल्प्याह– अथेति । भरतस्य प्रियाप्रिये भरतकर्मकमन्निष्ठे प्रीत्यप्रीती भरतः राज्ञः प्रियः अप्रियो वेत्यर्थः । जिज्ञाससे ज्ञातुमिच्छसि चेत्तर्हि राघवं भरतं प्रति यत् पूर्वं त्वया व्याहृतं भरतो ऽभिषिच्यतामित्यनेनोक्तं तदस्तु भरत एवाभिषिच्यतामित्यर्थः । एतेन रामविवासनमनुचितमनर्थकं चेति बोधितम् ॥ २।१२।१६ ॥

ननु अभिषेकोचितज्येष्ठपुत्ररामस्येह सत्त्वे कथमभिषेकानुचितकनिष्ठभरतस्याभिषेकः स्यादित्यत आह– स इति । मे ज्येष्ठसुतो रामः यस्माद्धर्मज्येष्ठः सर्वधर्मवच्छ्रेष्ठः तत्तस्माद्धेतोः प्रियवादिन्या त्वया सेवार्थं स्वसेवाकारणार्थमेव कथितं कथितो भवेत् तवायत्त एव तिष्ठेदित्यर्थः । एतेन रामस्याभिषिक्तत्वे ऽपि तस्य त्वदायत्ततया तवेप्सितसिद्धिर्भविष्यत्येवेति ध्वनितम् । कथितमिति सामान्ये नपुंसकम् ॥ २।१२।१७ ॥

तदिति । तत् रामाभिषेकप्रयतनं श्रुत्वा भृशमत्यन्तं शोकसंतप्ता त्वं मां संतापयसि तत्र हेतुमाह– परेषां प्रार्थनाकर्तृदेवादीनां वशं गता प्राप्ता त्वं शून्ये गृहे आविष्टा प्रविष्ठासि ॥ २।१२।१८ ॥

इक्ष्वाकूणामिति । नयसम्पन्ने नीतियुक्ते विकृता त्यक्तस्वभावा अकर्तव्यं कर्तव्यत्वेन स्वीचकारेत्यर्थः ॥ २।१२।१९ ॥

ननु देवापराधः किमर्थं कल्प्यत इत्यत आह–नेति । अयुक्तं युक्तिविरुद्धं विप्रियं प्रीतिविषयीभूतभिन्नं कर्मेति शेषः एतेनैतद्विरुद्धाचरणे तव स्वातन्त्र्यं नास्तीति ध्वनितम् ॥ २।१२।२० ॥

तत्रैव हेत्वन्तरमाह– नन्विति । राघवो रामः भरतेन ते तव बुद्धौ तुल्यः । ननु ध्रुवमेतत्, किंच भरतेन महात्मना भरतेन पूज्यो भरतेन स एव महात्मेति कर्मधारयः तेन रामेणेत्यर्थः । राघवो भरतः भरतादप्यधिका त्वत्प्रीतिः रामे आसीदित्यर्थः । तत्र हेतुः कथाः रामप्रीतिसंबन्धिनीर्वार्ताः कथयसे स्म ॥ २।१२।२१ ॥

इयं तवोक्तिर्न संभवतीत्याह– तस्येति । धर्मात्मनः निखिलधर्मप्रवर्तकस्य रामस्य ॥ २।१२।२२ ॥

तदेव भङ्ग्यन्तरेणाह– अत्यन्तेत्यादिश्लोकद्वयेन ॥ २।१२।२३२४ ॥

रामे तव प्रीतिः सहेतुकेति बोधयन्नाह– राम इति । भूयो ऽधिकं शुश्रूषते सेवते तस्मात् रामकर्तृकाधिकशुश्रूषणात् त्वयि त्वद्बुद्धावित्यर्थः । भरतस्य विशेषमधिकत्वं रामादिति शेषः ॥ २।१२।२५ ॥

रामकर्तृकाधिकशुश्रूषणं द्रढयन्नाह– शुश्रूषामिति । शुश्रूषां सेवां गौरवं महत्त्वं प्रमाणमाप्तत्वं वचनक्रियामाज्ञापितसम्पादनं पुरुषर्षभात् रामात् ॥ २।१२।२६ ॥

रामविवासने कारणाभावं विशदयन्नाह– बहूनामित्यादिचतुभिः । अयं भावः प्रायः स्त्रियः उपजीविनश्च परिवादापवादौ कुर्वन्ति । तत्कर्तृकौ तौ राघवे रामे नोपपद्येते न प्राप्नुतः क्वापि न श्रुताविति यावत् । उपजीविनो नाम तत्पोष्यत्वसमानाधिकरणतत्समीपवासकर्तारः । समूलका ऽकीर्तिः परिवादः निर्मूलका ऽकीर्तिरपवादः ॥ २।१२।२७ ॥

सान्त्वयन्निति । शुद्धेन कपटरहितेन विषयवासिनो देशवासकर्तृ़न् ॥ २।१२।२८ ॥

सत्येनेति । सत्येन मृषासंसर्गशून्यवचनेन लोकान्निःशेषजनान् जयति न्यूनीकरोति । एतादृशः सत्यवक्ता को ऽपि नास्तीत्यर्थः । दानेन द्विजान् जयति वयं न गृह्णीम इति द्विजकर्तृकोक्तिमन्तरा दानप्रवाहं न निवर्तयतीत्यर्थः । शुश्रूषया सेवया गुरून् जयति अतितृप्ता वयमित्युक्तिमन्तरा

पादपीडनादेर्न निवर्तते इत्यर्थः । शात्रवान् शत्रुसंबन्धियुद्धोत्साहादीन् धनुषा धनुष्प्रदर्शनमात्रेण जयति निवर्तयति ॥ २।१२।२९ ॥

रामगुणा न कादाचित्का इति बोधयन्नाह– सत्यमिति । सत्यादयो राघवे रामे ध्रुवाणि नित्यानि ॥ २।१२।३० ॥

तस्मिन्निति । देवोपमे देवानुयोगिकसादृश्यप्रतियोगिनि रामे पापमभिषेकध्वंसकारणीभूतादृष्टमांशसे वाचयसि अदृष्टवशादभिषेकनिवृत्तिर्जातेति प्रकल्प्य जना वदिष्यन्तीति तात्पर्यम् । एतेन रामस्य नादृष्टतन्त्रत्वमिति बोधितम् ॥ २।१२।३१ ॥

नेति । यो ऽहं प्रियवादिनो रामस्य अप्रियं प्रीतिविषयीभूतवचनविरुद्धं लोकस्य वाक्यं लोककर्तृकवचनं न स्मरामि न श्रुतमित्यर्थः । सो ऽहमप्रियं कथं वक्ष्यामि ॥ २।१२।३२ ॥

इदानीं रामवियोगे मत्प्रवृत्तिर्न संभवतीति बोधयन्नाह– क्षमेति । गतिः प्रवृत्तिः का न काचिदित्यर्थः ॥ २।१२।३३ ॥

ममेति । वृद्धस्य वृतं रामसम्बन्ध्यतिरिक्तवृत्तिं जहाति त्यजति इति वृद्धस्तस्य अत एव गतान्तस्य निवृत्तकालस्य कालभीतेरपि रहितस्येत्यर्थः । तपस्विनः रामविषयकविचारशीलस्य अत एव दीनं रामवियोगभीतिहेतुकदीनताविशिष्टवचनं लालप्यमानस्य पुनः पुनः कथयतो मम कारुण्यं दयां कर्तुं त्वमर्हसि रामवियोगोद्योगं न कुर्विति तात्पर्यम् ॥ २।१२।३४ ॥

तदतिरिक्तमन्यत्सर्वं तवेप्िसतं दास्यामीति बोधयन्नाह– पृथिव्यामिति । मृत्युं शोकं त्वं मा आविश भरतादिभिर्निन्दितायास्तवापि अतिशोको भविष्यतीति तात्पर्यम् ॥ २।१२।३५ ॥

अञ्जलिमिति । कुर्मि करोमि शरणं रक्षित्री अधर्मः रामाभिषेकप्रतिज्ञानिवृत्तिजनितो ऽदृष्टविशेषः ॥ २।१२।३६ ॥

इतीति । दुःखाभिसंतप्तं राजवियोगशङ्काजनितक्लेशविशिष्टं घूर्णमानं किं कर्तव्यमिति मनसा भ्रमन्तं शोकार्णवस्य पारमुत्तरणं प्रलपन्तं याचमानं महाराजं रौद्रा भयङ्करवचनोच्चारणकर्त्रीत्वेन भयङ्करा कैकेयी रौद्रतरं रामवियोगसूचकत्वेन भयङ्करं वचः प्रत्युवाच । द्वयोरेकत्रान्वयः ॥ २।१२।३७,३८ ॥

तद्वचनमेवाह– यदीति । धार्मिकत्वं धर्मं कथयिष्यसि उपदेक्ष्यसि धर्मरहितपुरुषकर्तृकोपदेशस्य हास्यास्पदत्वादिति भावः ॥ २।१२।३९ ॥

यदेति । त्वया सह समेतां राजर्षयः यदा कथयिष्यन्ति प्रतिज्ञातौ वरौ केकय्यै त्वया किं न दत्तौ इति प्रक्ष्यन्ति तत्र तदा किं प्रतिवक्ष्यसि किमुत्तरं दास्यसीत्यर्थः ॥ २।१२।४० ॥

उचितोत्तरस्याभावादनुचितमेवोत्तरं दास्यसीत्याह– यस्या इति । यस्याः प्रयत्ने ऽहं जीवामि या सदैव मां प्रसादयतीत्यर्थः । या अभ्यपालयत् सारथ्यकरणेन शत्रुभ्यः अरक्षत्तस्याः केकय्याः न्यासभूतवरदानाय कृता प्रतिज्ञा मिथ्या कृत मयेति वक्ष्यसि । एवं सद्भिर्न वक्तव्यमिति तात्पर्यं तेन त्वया वरौ दातव्यविवेति व्यञ्जितम् ॥ २।१२।४१ ॥

त्वत्कर्तृकाधर्माचरणे लोकानां महदनुवर्तित्वाद्राजान्तराण्यपि तथैव करिष्यन्तीति बोधयन्ती आह– किल्बिषमिति । अन्यानि वरदानवचनविरुद्धानि ॥ २।१२।४२ ॥

प्रतिज्ञापालने श्रद्धोत्पत्त्यै शिष्टाचारं प्रमाणयन्ती आह– शैब्य इत्यादिश्लोकद्वयेन । श्येनकपोतीये श्येनकपोतयोर्विवादे पक्षिणे श्येनाय स्वमांसं शैब्यो राजा ददौ । दत्त्वा उत्तमां गतिं जगाम । अलर्कश्चक्षुषी ददौ ब्राह्मणायेति शेषः । उत्तमां गतिं जगाम । इत्थं पुराणप्रसिद्धिः शैब्यौदार्यपरीक्षणाय इन्द्राग्नीश्येनकपोतौ भूत्वा भक्ष्यभक्षकभावं प्राप्तौ शैब्यसमीपमागतौ

तत्रा ऽभयकामः कपोतः शैब्याङ्कमाविवेश । स च तस्मै अभयमददात् । ततो देवविहितं मद्भक्ष्यं देहीति श्येनेनोक्तः शैव्यो ऽहमेनं न दास्यामि मांसान्तरं भक्ष्यं मत्तो गृहाणेत्युवाच । तत्रैतत्प्रतिनिधीभूतं स्वशरीरमांसमेव मह्यं देहीति श्येनेनोक्तः शैब्यः सकलं स्वशरीरमांसं ददौ । तेन सो ऽतुलां कीर्तिं लेभे इति । राजर्षिरलर्कश्चान्धब्राह्मणाय वरं दास्यामीति प्रतिज्ञाय स्वचक्षुर्मह्यं देहीति तेन याचिते स्वचक्षुर्दत्तवानिति ॥ २।१२।४३ ॥

सागर इति । सागरः समुद्रः समयं देवप्रार्थनया वेलानतिवर्तनाय प्रतिज्ञां कृत्वा वेलां नातिवर्तते अधिकं न गच्छतीत्यर्थः । अतः पूर्ववृत्तं पूर्वेषां वृतान्तमनुस्मरन् सन् अनृतं मा कार्षीः ॥ २।१२।४४ ॥

स इति । दुर्मते दुःस्थिता भाविवियोगजशोकेन विवेकरहिता मतिर्यस्य तत्संबोधनम् । स त्वं रन्तुमिच्छसि किमिति शेषः । एतेन त्यक्तधर्मणां विहारादिर्न सिद्ध्यतीति सूचितम् ॥ २।१२।४५ ॥

ननु रामाभिषेकप्रतिज्ञात्यागे ऽपि अधर्मः स्यादित्यत आह– भवत्विति । तस्य मदर्थं प्रतिज्ञातस्य व्यतिक्रमः अन्यथाभावो नास्ति न कार्य इत्यर्थः ॥ २।१२।४६ ॥

व्यतिक्रमे दोषमाह– अहमिति । बहु अधिकम् ॥ २।१२।४७ ॥

एकेति । एकाहं एकदिनमपि अञ्जलिं पुत्राभिषेकहेतुकबद्धयुगलकरसूचितप्रजाप्रणतिं प्रतिगृह्णन्तीं राममातरं कौशल्याम् ॥ २।१२।४८ ॥

भरतेनेति । ते तवाग्रे भरतेन आत्मना स्वेन यथावत् शपे भरतस्य स्वस्य च शपथं करोमीत्यर्थः । अन्येन धनादिना न तुष्येयम् ॥ २।१२।४९ ॥

एतावदिति । विरराम निववृते अत एव विलपन्तं विविधवचनमुच्चारयन्तं राजानं न प्रतिव्याजहार प्रत्युत्तरयाञ्चकार ॥ २।१२।५० ॥

श्रुत्वेति । राजा तु रामस्य धने वासं वनवासबोधकमित्यर्थः । भरतस्य ऐश्वर्यसम्बन्धीत्यर्थः । अशोभनमभिषेकनिवृत्तिहेतुत्वेन शोभारहितं केकय्या वाक्यं श्रुत्वा परमन्यत् किंचिन्नाभ्यभाषत । भाषणरहितत्वे ऽपि किमकरोदित्यत आह– अनिमिषः सन् प्रैक्षत अपश्यत् । श्लोकद्वयमेकान्वयि ॥ २।१२।५१,५२ ॥

तामिति । हृदये न प्रीयते इति हृदयाप्रियाम् । तत्र हेतुः दुःखशोकमयीं सम्भावितवियोगहेतुकदुःखजनकशोकप्रचुरां सुखितः सुखविशिष्टो नाभवत् ॥ २।१२।५३ ॥

स इति । देव्या केकय्याः व्यवसायं विवासनविषयकनिश्चयं घोरं कृतं शपथं च ध्यात्वा स्मृत्वा ॥ २।१२।५४ ॥

राज्ञो वृत्तान्तरमाह– नष्टेति । नष्टचित्तः त्यक्तपूर्वचैतन्यवद्विद्यमानः अत एव आतुरो व्याध्यादिग्रस्त इव विपरीतः परिणतक्रियः ॥ २।१२।५५ ॥

दीनयेति । राजा दशरथः दीनया वाचा इत्युवाच । तद्वचनमेवाह– अर्थाभम् अर्थत्वेन प्रतीयमानम् ॥ २।१२।५६ ॥

भूतेति । भूतैर्दुग्रहादिहेतुकप्रेतादिभिरुपहननमन्यथाकृतं चित्तं यस्याः सा ते तव शीलव्यसनं कुलाङ्गनोचितशीलत्यागं पुरा नाभिजानामि अभ्यजानाम् यावत्पुरेति लट् ॥ २।१२।५७ ॥

बालाया इति । तत्पूर्ववृत्तकुलाङ्गनोचितशीलं विपरीतवत् अन्यथेव लक्षये इवेन वस्तुतो नान्यथाभाव इति बोधितम् तेनैवं कथने ते भीतिः कारणमिति ध्वनितम् । अर्धं पृथक् । भीतौ निमित्तं पृच्छति– कुत इति । ते तव कुतः स्वतः परबोधनाद्वेति भावः । भयध्रौव्यमाह– राष्ट्रे आसीनं भरतं राघवं रामं वने चरन्तमिति शेषः । एवं विधं वरं वृणीषे अर्धद्वयमेकान्वयि ॥ २।१२।५८ ॥

विरमेति । यदि भर्त्रादीनां प्रियं कार्यं तदा एतेन भावेन रामविवासनभरताभिषेकाभिप्रायेण

अभिप्रायात् । एतेन स्वतः परतो वा जातेन अनृतने मिथ्याभूतरामहेतुकभयेन तादृशभयात् विरम निवर्तस्व ॥ २।१२।५९ ॥

नृशंसे इति । नृशंसे क्रूरचेष्टिते पापसङ्कल्पे पापहेतुभूताभिषेकप्रतिज्ञाहापनहेतुभूतसङ्कल्पविशिष्टे क्षुद्रे विचाररहिते दुष्कृतकारिणि दुष्कृतमस्मिन् समये अस्माभिरकर्तव्यं शोकादिकमित्यर्थः । तत्कारिणि दुखं दुःखकारणीभूतमलीकमपराधं मयि रामे वा किं किमर्थं पश्यसि आरोपयसीत्यर्थः ॥ २।१२।६० ॥

ननु स्वसुतराज्यार्थं कल्पयामीत्यत, आह– नेति । रामात् ऋते विना भरतो राज्यं कथञ्चिन्नावसेत् । अर्धं पृथक् ॥ २।१२।६१ ॥

रामादिति । बलवतरम् अतिबलवन्तं भरतं धर्मतः रामोपासनधर्माद्धेतोः रामादपि हितं प्रियं मन्ये इति भाषिते कथिते ऽपि मयेति शेषः । त्वं वनं गच्छ इति रामस्य रामं कथं वक्ष्यसि तवापि रामविषयकप्रीतेराधिक्यान्न वक्ष्यसीति भावः । कर्मणः सम्बन्धसामान्यत्वेन विवक्षणाद् रामस्येति षष्ठी ॥ २।१२।६२ ॥

मुखेति । उपप्लुतं राहुणा ग्रस्तमिन्दुं चन्द्रमसमिव विवर्णं स्वप्रतिज्ञाच्युतिहेतुकविकृतवर्णविशिष्टं मुखवर्णं स्वमुखकान्तिं कथं द्रक्ष्यामि दर्पणादिना कथमालोकयिष्यामीत्यर्थः । सुकृतां स्वातिविचारसम्पन्नां सुहृद्भिः सहापि निश्चितां सुविचारितां परैः शत्रुभिर्हतामभिभूतामत एव अपावृतां पलायितां चमूमिव मे बुद्धिं मां च राजानः किं वक्ष्यन्ति । एतस्य बुद्धिः अयं च नष्टप्रायाविति वदिष्यन्तीत्यर्थः । श्लोकद्वयमेकान्वयि ॥ २।१२।६३,६४ ॥

बाल इति । ऐक्ष्वाकः इक्ष्वाकुकुले प्रादुर्भूतः अयमस्मद्बुद्धिस्थो बालः चिरं बहुकालिकं राज्यमकारयत् । दशरथो राज्याधिकारे स्वबालमस्थापयदित्यर्थः । इति बहु अत्यन्तं श्रुताः श्रुतवन्तः गुणवन्तः बहवो वृद्धाः यदा काकुत्स्थं रामं परिप्रक्ष्यन्ति दूरदेशादागत्य रामः क्वास्तीति प्रश्नं करिष्यन्तीत्यर्थः । तदा केकय्या क्लिश्यमानेन मया पुत्रो रामः प्रव्राजितो वनं प्रेषित इति कथं वक्ष्यामि । हबतशब्दावित्यर्थकौ श्लोकद्वयमेकान्वयि ॥ २।१२।६५,६६ ॥

यदिति । एतमप्रव्राजनं यदि सत्यं ब्रवीमि तर्हि तत् अभिषेकप्रतिज्ञानमसत्यं भविष्यति । एतेन द्वयोरप्यशक्यत्वं बोधितम् । प्रव्राजनपक्षे दोषान्तरमप्याह– कौशल्या मां किं वक्ष्यति ईदृशं कर्तुमनर्हमित्यर्थः । विप्रियं विरुद्धं कर्म कृत्वा एनां कौशल्यां किं प्रतिवक्ष्यामि किमर्थं पुत्रः प्रव्राजित इति तया पृष्टः किमुत्तरं दास्यामीत्यर्थः । सार्धश्लोकः संमिलितान्वयी ॥ २।१२।६७ ॥

कौशल्याया अप्रियं कर्म कर्तुं नोचितमिति बोधयितुं तद्गुणान् वर्णयन्नाह– यदेति । दासीवत् शुश्रूषासमये स्वमहिषीत्वं तिरोभूय दासीसदृशीत्यर्थः । सखीव खेलनादिसमये सखीसदृशीत्यर्थः । भार्यावत् धर्माचरणादिसमये साधारणस्त्रीसदृशी त्यक्तस्वमहिषीत्वाभिमानेत्यर्थः । भगिनीवत् मद्विवाहान्तरसमये भगिन्युत्साहसदृशोत्साहविशिष्टेत्यर्थः । मातृवत् भोजनादिसमये मातृनिष्ठपुत्रकर्तृकभोजनविषयकप्रीतिसदृशप्रीतिमतीत्यर्थः । कौशल्या यदा यदोपतिष्ठति प्राप्नोति तदा तदा तव कृते त्वद्भियेत्यर्थः । सत्कारार्हा देवी मया न सत्कृता तत् सत्काराकरणमिदानीं मां तपति पीडयति । त्वयि त्वद्विषये यन्मया सुकृतं सम्पादितमतिप्रेम तदपि अपथ्यव्यञ्जनोपेतं अपथ्यं पथ्यविरुद्धं यद्व्यञ्जनं दध्यादि तेनोपेतं संस्कृतं भुक्तमन्नमातुरं ज्वरादिग्रस्तमिव मां तपति । अर्धषट्कमेकान्वयि ॥ १२।६८७० ॥

विप्रकारमिति । विप्रकारमभिषेकनिवृत्तिं वनस्य संप्रयाणं वनकर्मकगमनं प्रेक्ष्य अवलोक्य भीता अयं भ्रष्टप्रतिज्ञः किं किं करिष्यतीति भयं प्राप्ता सती मे कथं विश्वसिष्यति कथमपि विश्वासं न

करिष्यतीत्यर्थः । अर्धद्वयमेकान्वयि ॥ २।१२।७१ ॥

कृपणमिति । वनमाश्रितं रामं पञ्चत्वमिहलोकपरित्यागेन पञ्चत्वधर्मसदृशधर्ममापन्नं प्राप्तं मामिति द्वयमप्रियं कृपणं कष्टं यथा स्यात्तथा वैदेही श्रोष्यति ॥ २।१२।७२ ॥

तेनानर्थान्तरं भविष्यतीत्याह– वैदेहीति । क्षपयिष्यति क्षीणा भविष्यति । तत्र दृष्टान्तः किन्नरेण स्वश्वशुरेण हीना किन्नरी इव । यदि च तत्र पत्युर्वियोगः प्रसिद्धः तदा वियोगांशे क्षीणांशे च दृष्टान्तो बोध्यः ॥ २।१२।७३ ॥

नन्वेतल्लोकत्यागस्तव कथमित्यत आह– नहीति । महावने प्रविशन्तं रामं रुदन्तीं मैथिलीं च दृष्ट्वा चिरं जीवितुमिह लोके स्थातुं नाशंसे (न?) इच्छामि । अतः सा प्रव्राजितमत्पुत्रा अत एव विधवा पतिरहिता त्वं राज्यं कारयिष्यसि पुत्रेणेति शेषः ॥ २।१२।७४,७५ ॥

सतीमिति । असतीं पत्यनिष्टकर्मकर्त्रीत्वेन सतीभिन्नां सतीं स्वसमीपे सर्वदा विद्यमानां रूपिणीं प्रशस्तरूपविशिष्टां त्वामत्यन्तं यथा स्यात्तथा सतीं साध्वीं व्यवस्यामि निरचिनवं वर्तमानसामीप्य इति भूते लट् । तत्र दृष्टान्तः मदिरां पीत्वा विद्यमानो नरः विषसंयुक्तां मदिरामिव मत्ततापगमसमये यथा मदिरामतिमादिकात्वेन जानातीत्यर्थः ॥ २।१२।७६ ॥

अनृतैरिति । अनृतैः मिथ्यात्वेन प्रतीयमानैः सान्त्वैः सान्त्वनवचनैः सान्त्वयन्ती त्वं यत् भाषसे स्म तेन लुब्धो व्याधः गीतशब्देन संरुध्य मृगमिव मामवधीः ॥ २।१२।७७ ॥

अनार्य इति । पुत्रविक्रायकं रत्यादिसुखमूल्येन पुत्रविक्रयकर्तारं मामार्याः श्रेष्ठाः अनार्यः अयं तुच्छः इति विकरिष्यन्ति निन्दिष्यन्तीत्यर्थः ॥ २।१२।७८ ॥

अहो इति । यत्र यस्मिन्काले तव वाचः ईदृशवचनानि क्षमे सहे तदा अहो कृच्छ्रं कृतः प्रकटितान् प्राणादीन् श्राति पचति सन्तापयतीत्यर्थः । तत् अहो आश्चर्यभूतं दुःखं प्राप्तम् । एतेन तव वचनान्यसह्यानीति बोधितम् । एवं विधं व्याप्तदुःखं पुराकृतं पूर्वोपार्जितमशुभं निषिद्धकर्मफलमिव भातीति शेषः । अनिवर्त्यत्वेनाशुभफलकर्मसादृश्यम् नित्यरामानुचराणां पुराकृतकर्माभावेनेवेत्युक्तम् ॥ २।१२।७९ ॥

चिरमिति । पापेन भ्रष्टप्रतिज्ञत्वरूपाधर्मविशिष्टेन मया चिरं बहुकालमभिरक्षिता त्वम् उद्बन्धनी प्राणापहरणफलिका कण्ठे निबद्धा रज्जुरिवोपसन्ना मम कण्ठे लग्ना ॥ २।१२।८० ॥

रममाण इति । अभिलक्षये अभ्यलक्षयम् “वर्तमानसामीप्ये” इति भूते लट् । तत्र दृष्टान्तः रहसि एकान्ते बालः कृष्णसर्पमिव त्वामस्पृशम् अहमिति शेषः ॥ २।१२।८१ ॥

तमिति । येन दुरात्मना मया पुत्रः अपितृकः पितृरहितो भविष्यति तं मामयं जीवलोकः आक्रोष्ठुं निन्दितुमर्हति ॥ २।१२।८२ ॥

निन्दास्वरूपं बोधयन्नाह– बालिश इति । यः स्त्रीकृते स्त्रीसुखाय प्रियं पुत्रं वनं प्रस्थापयिष्यति प्रास्थापयत् । सा कामात्मा दशरथो बालिशः मूर्खः लृडुपात्तभविष्यत्कालस्याविवक्षा “मूर्खवैधेयबालिशाः” इत्यमरः ॥ २।१२।८३ ॥

व्रतैरिति । गुरुभिः बहुभिः ब्रह्मचर्यैः ब्रह्मणो वेदस्य चर्या बोधनं येषु तैर्वेदबोधितैरेवेत्यर्थः । व्रतैः नियमितभोजनादिभिः उपकर्शितः कृशत्वं प्राप्तो रामः भोगकाले एव महत्कृच्छ्रं कष्टं पुनः पुनः प्रपत्स्यते प्राप्स्यते एव । चकारद्वयमेवार्थकम् । तृतीयः पुनः पुनरर्थकः ॥ २।१२।८४ ॥

नेति । द्वितीयं मद्वचनविरोधिवचनान्तरं मां प्रतिभाषितुं पुत्रो रामः नालं धर्मात्मशिरोमणित्वान्न समर्थः । अतो वनं प्रव्रजेत्युक्तो मया ज्ञापितः स रामः बाढमङ्गीकृतमेतदित्येव वक्ष्यति ॥ २।१२।८५ ॥

यदीति । वनं गच्छेति चोदितो मया प्रेरितो राघवो रामः प्रतिकूलं मदुक्तविपरीतं यदि कुर्यान्न गच्छेदित्यर्थः । तदा मे प्रियं स्यात् परंतु वत्सो रामः प्रतिकूलं न करिष्यति प्रतिकूलमित्युभयान्वयि ॥ २।१२।८६ ॥

राघव इति । राघवे रामे वनं प्राप्ते सति सर्वलोकस्य धिक्कृतम् अत एव अक्षमणीयं मां मृत्युः मृतेः उः कालः परमात्मा यमक्षयं यमस्य कालस्य क्षयः अभावो यस्मिन् तं साकेतलोकं नयिष्यति नेष्यति प्रापयिष्यति “उर्गौरीपतिरुः कालः सेतुरब्धिः परायणम्” इति मात्रिका । अत एव न च कालवशानुग इत्यनेन न विरोधः । स्मृतौ कालशब्दः प्राकृतकालपरः ॥ २।१२।८७ ॥

मृते इति । मयि मृते मृत इवाचरति मृतति स तस्मिन् लोकान्तरं प्राप्ते सतीत्यर्थः । शेषे ममेष्टे कौसल्यादौ किं पापं पापजनकीभूतं कर्म प्रतिपत्स्यते कौशल्यादयो मन्थरादेर्वधं करिष्यन्तीति तात्पर्यम् ॥ २।१२।८८ ॥

वस्तुतस्तु कौशल्या नेदृशं कर्म करिष्यतीत्याह– कौशल्येति । कौशल्या मां रामं च पुत्रौ पुत्रप्रायौ लक्ष्मणशत्रुघ्नौ च यदि हास्यति इह न द्रक्ष्यतीत्यर्थः । तदा दुःखान्यसहती सती मामेवानुगमिष्यति प्राप्स्यतीत्यर्थः । एतेन लक्ष्मणो रामेण सहैव गन्तेति भरतो रामप्रतिकूलश्चेत् शत्रुघ्नो ऽपि तं त्यक्त्वा राममेव गन्तेति च व्यञ्जितम् ॥ २।१२।८९ ॥

कौशल्यामिति । त्रिभिः पुत्रैः सह कौशल्यादीन् नरके नरकप्रायदुःखे किंच नराणामयोध्याप्रजानां कः अभिषेकनिवृत्तिः कथं जातेति कोलाहलशब्दो यस्मात्तस्मिन् शोके प्रक्षिप्य सुखिता भव ॥ २।१२।९० ॥

मयेति । शाश्वतं बहुकालिकं गुणैर्गुणवद्भिः सत्कृतमिक्ष्वाकुकुलमाकुलं रामादिवियोगेन व्याकुलं यथा स्यात्तथा पालयिष्यसि पालनमपि न भविष्यतीति तात्पर्यम् ॥ २।१२।९१ ॥

प्रियमिति । रामप्रव्राजनं चेत् यदि भरतस्य प्रियं भवेत् तदा गतायुषः गतः वनं प्रस्थितः आयुः परप्रीतिविषयीभूतपुत्रः यस्य तस्य मे प्रेतकृत्यं प्रेतस्य लोकान्तरं प्राप्तस्य यत् कृत्यं शोकादीत्यर्थः । तत् भरतो मा कार्षीत् ॥ २।१२।९२ ॥

मृते इति । मृते मृतवत् लोकान्तरं प्राप्ते मयि सा प्रव्राजितमत्पुत्रा त्वं राज्यं कारयिष्यसि ॥ २।१२।९३ ॥

त्वमिति । दैवेन देवदेवेन अन्तर्यामिणा प्रेरिता त्वं मम वेश्मनि न्यवसः । अत एव अकीर्तिः पापकृतः सर्वभूतेषु अवज्ञा अनादर इव मे परिभवश्च भविष्यति । परमात्मकृत्यस्य दुश्चलत्वमस्तीति तात्पर्यम् । सार्धश्लोक एकान्वयी ॥ २।१२।९४ ॥

कथमिति । विभुः समर्थो रामः रथादिभिः मुहुर्मुहुः प्रतिक्षणं यात्वा गन्तव्यदेशं गत्वा महारण्ये पद्भ्यां कथं विचरिष्यति ॥ २।१२।९५ ॥

यस्येति । यस्य रामस्य आहारसमये भोजनकाले कुण्डलधारिणः सूदाः पाककर्तारः अहं पूर्वं येषां ते त्वत्तः पूर्वमहं पक्ष्यामीत्यन्योन्यं कथयन्तः सन्त इत्यर्थः । पानभोजनं पचन्ति स रामः कषायादीनि फलानि वन्यमाहारं मूलादि च भक्षयन् कथं वर्तयिष्यति वर्तिष्यते । श्लोकद्वयमेकान्वयि ॥ २।१२।९६,९७ ॥

महार्हेति । महार्हवस्त्रैः महैः सर्वपूज्यैः ब्रह्मादिभिः अर्हाणि प्रशंसनीयानि यानि वस्त्राणि तैः संवीतः भूषितः भूत्वा चिरसुखोचितः सार्वकालिकानन्दयोग्यो रामः काषायपरिधानः ब्रह्मचर्योचितवस्त्रधारी कथं भविष्यति ॥ २।१२।९८ ॥

कस्येति । रामस्य अरण्यगमनं भरतस्य अभिषेचनमेवंविधं दारुणं वाक्यं कस्य प्रेरणया हेतोर्वा

ईरितं कथितं तद्वदेति तात्पर्यम् ॥ २।१२।९९ ॥

धिगिति । भरतस्य मातरमेव न ब्रवीमि सर्वाः ब्रवीमि इत्यर्थः । ननु कीदृशीः किं ब्रवीषीत्यत आह– स्वार्थपरायणाः शठाः नाम प्रसिद्धा याः योषितः ताः धिगस्तु ॥ २।१२।१०० ॥

अनर्थेति । अनर्थभावे अनर्थः पत्यर्थविरुद्धकारी भावो ऽभिप्रायो यस्यास्तत्सम्बोधनम् अत एव अर्थपरे स्वार्थमात्रसाधिके अत एव नृशंसे क्रूरताविशिष्टे हे हितानुकारिणि मम पत्युः अनुतापाय क्लेशाय त्वं निवेशितासि मया स्वगृहे इति शेषः । मन्निमित्तं मद्धेतुकं किं प्रियं स्वप्रीतिविरुद्धं पश्यसि रामे वा किं पश्यसि तद्वदेत्यर्थः ॥ २।१२।१०१ ॥

परीति । कृता ऽनुरागाः रामविषयकानुरागविशिष्टाः पितरः पुत्रान् भार्याः पतींश्च सर्वमन्यच्च परित्यजेयुः तं रामं व्यसने दुःखे निमग्नं दृष्टैव कृत्स्नं जगत् कुपितं स्यात् ॥ २।१२।१०२ ॥

अहमिति । देवकुमाररूपमाव्रजन्तं मत्समीपे आगच्छन्तं सुतं रामं दर्शनेन चक्षुषा पश्यन् नन्दाम्येव । एतेन इतरस्मृतिव्यवच्छेदः । इव एवार्थे । दृष्ट्वा अवलोक्य तु पुनर्युवा इव भवामि उत्साहस्याधिक्यं भवतीति तात्पर्यम् । इवेन तदवस्थाया नित्यात्वं सूचितम् ॥ २।१२।१०३ ॥

विनेति । सूर्येण विना प्रवृत्तिः लोकस्थितिर्भवेत् । अवर्षता वज्रधरेण प्रवृत्तिर्भवेत् । इतो ऽयोध्यातः गच्छन्तं रामं समीक्ष्य दृष्ट्वा तु कश्चित् अयोध्यावासी न जीवेत् । स्वस्थतया तिष्ठेत् इति मे चेतना निश्चयः ॥ २।१२।१०४ ॥

स्वज्ञानेनैवाहं पराभूत इत्याह– विनाशेति । विनाशकामामिक्ष्वाकुकुलनाशविषयकेच्छावतीमत एवाहितां हिताचरणरहितामत एवामित्रां त्वामात्मनः मृत्युमिव अवासयं स्ववेश्मनीति शेषः । अत एव महाविषा सर्पीव त्वमङ्केन मया धृतासि तेन हेतुना हतो ऽस्मि अहमिति शेषः ॥ २।१२।१०५ ॥

मयेति । मदादिना हीनो भरतः त्वया सह प्रशास्तु लोकमिति शेषः । तेन पुरादिकं निहत्य विध्वस्य ममाहितानां शत्रूणामभिहर्षिणी अतिहर्षणशीला भव ॥ २।१२।१०६ ॥

नृशंसेति । व्यसनप्रहारिणि व्यसनेन पुत्रवियोगजनितदुःखदानेन प्रहरति तच्छीला तत्संबोधनं वाक्यं मद्वचनं प्रसह्य अनादृत्य यदिह अस्मिन् समये भाषसे तेन भाषणेन ते तव मुखात् सहस्रधा विशीर्यमाणाः दशनाः दन्ताः अद्य पृथिव्यां न पतन्ति नाम आश्चर्यमेतत् ॥ २।१२।१०७ ॥

नेति । यो रामः परुषाणि अक्षराणि भाषितुं न वेत्ति जानीते । अतः किंचिदहितमप्रियं च वचो न आह तस्मिन् अभिरामवादिति गुणनित्यसंमते गुणैः गुणविशिष्टैः नित्यं संमते पूजिते रामे दोषान् कथं ब्रवीषि दोषकथनं विना तदनिष्टाचरणं लोके न दृष्टमिति तात्पर्यम् ॥ २।१२।१०८ ॥

प्रताम्येति । प्रताम्य ग्लानिं कुरु प्रज्वल अग्न्यादिना भस्मीभव प्रणश्य उद्बन्धनादिना ध्वंसं प्राप्नुहि स्फुटिता प्रस्तरादिप्रहारैः स्फुटितशिराः महीं व्रज ॥ २।१२।१०९ ॥

क्षुर इति । क्षुरोपमां क्षुरवत् स्वसंबद्धच्छेदनकर्त्रीम् । तत्र हेतुः असत्प्रियंवदामसती एव प्रियंवदेति कर्मधारयः प्रदुष्टभावां निषिद्धाभिप्रायविशिष्टामत एव स्वकुलोपघातिनीं मनोरमां रूपलावण्यमात्रेण रमणशीलां सबन्धनं प्राणसहितं हृदयं दिधक्षमाणां त्वां जीवितुं न विषहे उत्साहं न करोमि ॥ २।१२।११० ॥

नेति । आत्मजेन विना आत्मवतो जानतो मे मम जीवितं नास्ति सुखं कुतः, रतिः तत्कारणीभूतप्रीतिश्च कुतः, अतः मम अहितं कर्तुं त्वं नार्हसि ॥ २।१२।१११ ॥

स इति । अतिमात्रया दृढनिश्चयवत्या स्त्रिया केकय्या हृदये गृहीतः स भूमिपालः अनाथवत् विलपन् सन् प्रसारितौ देव्या उभौ चरणौ असंप्राप्य आतुरो यथा तथा पपात चरणौ ग्रहीतुं प्रचलितो ऽपि मध्ये एव अपतदित्यर्थः । एतेन विह्वलतातिशयः सूचितः ॥ २।१२।११२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्वादशः सर्गः ॥ २।१२ ॥