०३१ मिथिला-प्रस्थानम्

विश्वामित्रवचनानन्तरकालिकं वृत्तमाह अथेति । अथ विश्वामित्रोक्त्यनन्तरं कृतार्थौ साधितमुनिप्रयोजनौ मुदितौ प्रमोदस्य दातारौ प्रहृष्टेन अन्तरात्मनोपलक्षितौ वीरौ रामलक्ष्मणौ तत्र सिद्धाश्रमे ऊषतुः । मुदितावित्यत्रान्तर्भावितणिजर्थः । कर्मणो ऽविवक्षया कर्तरि निष्ठा ॥ १।३१।१ ॥

प्रभातायामिति । शर्वर्यां रात्रौ प्रभातायां प्रभातत्वं प्राप्तायामेव कृतपौर्वाह्णिकक्रियौ निर्वर्तितप्रातःक्रियाकलापौ सहितौ रामलक्ष्मणौ विश्वामित्रमन्यांश्च मुनीनभिजग्मतुः तत्सम्मुखं प्रापतुः ॥ १।३१।२ ॥

अभिवाद्येति । ज्वलन्तं पावकमिव मुनिश्रेष्ठं विश्वामित्रप्रभृतिमभिवाद्य प्रणम्य मधुरोदारं मधुरत्वसमानाधिकरणोदारत्वविशिष्टं वाक्यं मधुरभाषिणौ नित्यं मधुरभाषणशीलौ रामलक्ष्मणौ ऊचतुः ॥ १।३१।३ ॥

तद्वचनमेवाह इमाविति हे मुनिशार्दूल समुपस्थितौ त्वां प्राप्तौ इमौ आवां द्वौ किङ्करौ त्वं यथेष्टं यथेच्छमेव किमपि आज्ञापय । तव शासनमावां करवाव । स्मशब्द एवार्थे । वैशब्दो ऽप्यर्थे ॥ १।३१।४ ॥

रामप्रार्थनोत्तरकालिकं वृत्तमाह एवमिति । तयोः रामलक्ष्मणयोः एवमनेन प्रकारेण वाक्ये उक्ते सति सर्वे महर्षयः विश्वामित्रं पुरस्कृत्यैव रामं वचनमब्रुवन् । सम्बन्धसामान्यविवक्षया षष्ठी ॥ १।३१।५ ॥

तद्वचनमेवाह मैथिलस्येत्यादिभिः । नरश्रेष्ठ हे राम मैथिलस्य मिथिलाधिपतेः जनकस्य परमधर्मिष्ठः अतिशयधर्मोत्पादक इत्यर्थः । यज्ञः भविष्यति तत्र वयं यास्यामहे यास्यामः ॥ १।३१।६ ॥

अतः हे नरशार्दूल । अस्माभिः सह त्वमपि तत्र गमिष्यसि । तत्र हेतुः तत्र यागे अद्भुतं विलक्षणं तत्प्रसिद्धं धनूरत्नं त्वं द्रष्टुमर्हसि । चशब्दो हेतौ । एवो ऽप्यर्थे ॥ १।३१।७ ॥

धनुषो ऽद्भुतत्वं दर्शयन्नाह तदिति । हे नरश्रेष्ठ अप्रमेयबलमियत्तारहितबलविशिष्टमतिगुर्वित्यर्थः । परमभास्वरमतिदीप्तियुक्तमत एव घोरं भयङ्करं तत्प्रसिद्धं धनुः मखे सदसि देवरातनामकजनकमखसभायां दैवतैः दक्षप्रजापतियागध्वंसे प्रसादितशिवाल्लब्धधनुष्कदेवैः किञ्च देवतैः देवतास्वामिशिवेन । बहुत्वमादरार्थम् । पूर्वं दत्तं देवरातनामकपूर्वजनकायेति शेषः । हिर्हेतौ ॥ १।३१।८ ॥

नास्येति । अस्य धनुषः आरोपणं बाणप्रक्षेपयोग्यज्यासंयोगं कर्तुं देवाः कथञ्चन न शक्ताः,

गन्धर्वाः कथञ्चन न शक्ताः, असुराः कथञ्चन न शक्ताः, राक्षसाः कथञ्चन न शक्ताः, मानुषाश्च कथञ्चन न शक्ताः । मनुष्येष्वपि नहुषादिषु अधिकपराक्रमश्रुतेः न पतत्प्रकर्षदोषाशङ्का ॥ १।३१।९ ॥

धनुष इति । तस्य देवैर्दत्तस्य धनुषः वीर्यं जिज्ञासन्तः महाबला महीक्षितो राजानः राजपुत्राश्च आरोपयितुं बाणप्रक्षेपयोग्यज्यासंयोगं कर्तुं न शेकुः । हिशब्दश्चार्थे ॥ १।३१।१० ॥

उपसंहरन्नाह तदिति । हे नरशार्दूल हे काकुत्स्थ अद्भुतदर्शनं तत्प्रसिद्धं मैथिलस्य धनुर्यज्ञं च तत्र मिथिलायां द्रक्ष्यसि ॥ १।३१।११ ॥

ननु तद्धनुः कथं प्राप्तमित्यत आह तदिति । हे नरशार्दूल सुनाभं रमणीयमुष्टिबन्धनस्थानकमिदमेव यज्ञफलमिति मैथिलेन मिथिलाधिपतिना याचितमुत्तमं श्रेष्ठं तत्प्रसिद्धं धनुः सर्वदैवतैः सर्वदेवदेवैः शिवेन दत्तमिति शेषः । चशब्द इदमित्यर्थे । हिशब्द एवार्थे । अत एव ऽचापं शम्भोर्दयादत्तम्ऽ इति पाद्मवचनं ऽप्रीतश्च भगवानीशस्त्रिशूली नीललोहितः । प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुःऽ इति कौर्मवचनं च सङ्गच्छते ॥ १।३१।१२ ॥

आयागेति । हे राघव तस्य प्रसिद्धस्य नृपतेर्जनकस्य वेश्मनि विविधैः अनेकप्रकारैः गन्धैश्चन्दनेः माल्यैः पुष्पैः अगरुगन्धिभिश्च अर्चितं पूजितमायागभूतमासमन्तात् यागो यजनं यत्र तत्र भूतं प्राप्तं धनुरस्तीति शेषः ॥ १।३१।१३ ॥

एवमिति । सर्षिसङ्घः ऋषिसङ्घसहितः सकाकुत्स्थः काकुत्स्थो रामस्तत्सहितः मुनिवरो विश्वामित्रः एवमनेन प्रकारेणोक्त्वा तदैव वनदेवता आमन्त्र्य च प्रस्थानमकरोत् । विनापि चं समुच्चयः । सर्वं वाक्यं सावधारणं भवतीति न्यायेनैवकारलाभः ॥ १।३१।१४ ॥

आमन्त्रणप्रकारं वदन्नाह स्वस्तीति । सिद्धः साधितयागादिक्रियो ऽहमुत्तरे जाह्नवीतीरे भिद्यमानं शिलोच्चयं हिमवन्तं सिद्धाश्रमाद्गमिष्यामि वो युष्मभ्यं स्वस्त्यस्तु ॥ १।३१।१५ ॥

प्रदक्षिणमिति । ततः वनदेवतामन्त्रणानन्तरमनुत्तमं परमोत्कृष्टं सिद्धाश्रमं प्रदक्षिणं कृत्वा उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १।३१।१६ ॥

तमिति । व्रजन्तं तं प्रसिद्धं मुनिवरमनुसारिणां ब्रह्मवादिनां प्रयाणे एव शकटीशतमात्रं शकटीशतेन शतसङ्ख्याकशकटीभिः मीयते परिच्छिद्यते तत् यागोपस्करणं यागसामग्रीपूरितशकटीशतमित्यर्थः । अन्वयात् अभ्यगच्छत् । चशब्द एवार्थे ॥ १।३१।१७ ॥

मृगेति । सिद्धाश्रमनिवासिनो मृगपक्षिगणा अपि महात्मानं पूज्यस्वरूपं महामुनिं विश्वामित्रमेवानुजग्मुः । चकारो ऽप्यर्थकः ॥ १।३१।१८ ॥

निवर्तयामासेति । ततः मृगाद्यनुगमनानन्तरं बहून् पक्षिसङ्घान् अपिशब्देन मृगसङ्घान् बहून्निवर्तयामास ॥ १।३१।१९ ॥

ते इति । समागता मुनिवरा दूरमध्वानं गत्वा दिवाकरे लम्बमाने अस्तं प्राप्ते सति शोणकूले वासं चक्रुः ॥ १।३१।२० ॥

तदेव विशदयन्नाह ते इति । हुतहुताशना अमितौजसस्ते मुनयः दिनकरे सूर्ये ऽस्तं गते सति विश्वामित्रं पुरस्कृत्य निषेदुः ॥ १।३१।२१ ॥

राम इति । अथ मुनिनिषादानन्तरं सहसौमित्रिः सौमित्रिसहितः रामो ऽपि तान्समागतान्मुनीनभिपूज्य चकारेण प्रणामादिकं विधाय धीमतो विश्वामित्रस्याग्रतो निषसाद ॥ १।३१।२२ ॥

अथेति । अथ सर्वनिषादानन्तरं महातेजाः नरशार्दूलो रामः कौतूहलसमन्वितः सन् महामुनिं

विश्वामित्रं पप्रच्छ ॥ १।३१।२३ ॥

प्रश्नमेवाह भगवन्निति । हे भगवन् सकलसामर्थ्यविशिष्ट समृद्धवनशोभितः अयं देशः कस्य इति अहं श्रोतुमिच्छामि । अतस्त्वं तत्त्वतो वक्तुमर्हसि । ते तुभ्यं भद्रमस्तु ॥ १।३१।२४ ॥

चोदित इति । रामवाक्येन चोदितः प्रेरितः सुव्रतः महातपाः विश्वामित्रः तस्य देशस्य निखिलं सम्पूर्णं वृत्तान्तमृषिमध्ये कथयामास ॥ १।३१।१५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥