०३७ अङ्गुलीयकं दृष्ट्वा सीतामोदनम्

वचनं हनूमत इत्यादि ॥ ५।३७।१ ॥

यच्चानन्यमना इति वाक्यमाख्यायते तदमृतम् । यच्च शोकपरायण इति वाक्यमाख्यायते तद्विषम् ॥ ५।३७।२ ॥

ऐश्वर्ये व्यसने इति च विषयसप्तमी ॥ ५।३७।३ ॥

विधिर्दैवम् । असंहार्यो ऽशक्यप्रतिक्रियः । अत्र स्वीयमेव दुःखं दृष्टान्तयति ॥ ५।३७।४ ॥

हतनौः पुरुषः परिक्रान्तः कृतपराक्रमो बाहुभ्यां प्लवमानो यथा सागरे पारमतिक्लेशेनाधिगच्छति तथा राघवो ऽपि कथञ्चित्तमधिगमिष्यति ॥ ५।३७।५,६ ॥

स रामः ॥ ५।३७।७,८ ॥

निर्यातनं पुनः समर्पणम्, न च तत् तस्मिन्नित्यर्थः ॥ ५।३७।९,१० ॥

कन्या ऽजातपुरुषसंबन्धा । एतद्विभीषणानुनयनम्, इदमेवाग्रे रामश्रुतं विभीषणस्य निःशङ्कपरिग्रहाभिषेकयोर्बीजम् ॥ ५।३७।११,१२ ॥

रामक्षयम् रक्षसां रामात्क्षयं प्राप्तमित्यर्थः ॥ ५।३७।१३ ॥

पतिः प्राप्स्यत इत्यत्र हेतुः– अन्तरात्मेति । तस्मिन्रामे ॥ ५।३७।१४ ॥

उत्साहः कार्येषु स्थिरप्रयत्नरूप उद्योगः पौरुषं तज्जन्यं पुरुषव्यापारः सत्त्वं बलम् आनृशंस्यमक्रूरता श्रितजनदाक्षिण्यमिति यावत् । विक्रमः शौर्यम् प्रभावो दिव्यास्त्रसंपज्जन्यो महिमा ॥ ५।३७।१५ ॥

तत्सत्तानुमापककार्यमाह– चतुर्दशेति ॥ ५।३७।१६ ॥

व्यसनैर्व्यसनदातृभी राक्षसैस्तुलयितुमुपमितुम् । तस्य तत्त्वं च मम प्रत्यक्षमेवेत्याह– अहं तस्येति । तद्रूपत्वादिति गूढम् ॥ ५।३७।१७ ॥

शरजालेत्यादि परम्परितरूपकमिदम् ॥ ५।३७।१८,१९ ॥

मह्यं मम मत्तो वा ॥ ५।३७।२० ॥

तव रामसङ्गमे रामस्येहानयनं व्यर्थमेव प्रकारन्तरेणैव तस्य संभवादित्याह– अथवेति । सो ऽहं राक्षसाद्राक्षसकृतादस्माद्दुःखान्मोचयिष्यामीत्यन्वयः ॥ ५।३७।२१२३ ॥

दैत्यवधे व्यवसाययुक्तं विष्णुमिव स्थितम् ॥ ५।३७।२४ ॥

नगराजस्य श्रेष्ठस्य प्रस्रवणगिरेरित्यर्थः ॥ ५।३७।२५ ॥

मा विकाह्क्षस्व मोपेक्षां कुर्वित्यर्थः ॥ ५।३७।२६ ॥

कथयन्तीव सङ्गन्तव्यो राम इति वचनं कथयन्तीव । शशिना रोहिणीव सङ्गमिष्यसीत्यन्वयः । एतद्वचनसमकालमेव रामसमीपं प्रापयिष्यामीत्यर्थः । यथा तद्वचने न प्रयासः, एवमनायासेन त्वां नयामीत्यर्थो वा । आकाशं तन्मार्गमवलम्ब्य महार्णवं तरेत्यन्वयः ॥ ५।३७।२७,२८ ॥

त्वामुद्यम्य पृष्ठे कृत्वा विहायसं यास्यामि पश्य ॥ ५।३७।२९ ॥

हर्षविस्मितसर्वाङ्गी हर्षपुलकितसर्वाङ्गी ॥ ५।३७।३० ॥

तदेव दृश्यमानमेव ॥ ५।३७।३१,३२ ॥

नवं परिभवमल्पशरीरो ऽशक्त इत्येवंरूपम् ॥ ५।३७।३३ ॥

कामत इच्चाकृतम् ॥ ५।३७।३४,३५ ॥

तस्मात्पादपाच्छिंशपातः । शरीरवृद्धौ तद्भारजातशाखाभङ्गध्वनिना राक्षस्यो ज्ञास्यन्तीति तत आप्लुतिः ॥ ५।३७।३६ ॥

अग्रतो व्यवतस्थे योग्यपुरोदेशे स्थितः ॥ ५।३७।३७,३८ ॥

सनाथां सरावणाम् । नयितुं नेतुम् ॥ ५।३७।३९ ॥

अवस्थाप्यतां समर्थो ऽयमिति निश्चीयताम् । विकाङ्क्षया सन्देहेनालम् । विशोकं कुरु मत्पृष्ठेन तत्र गत्वेति शेषः ॥ ५।३७।४०,४१ ॥

विजानामि एवंविधत्वद्रूपदर्शनात्प्रागप्यनुमानादिति भावः ॥ ५।३७।४२ ॥

तदेवानुमानं दर्शयति– प्राकृत इति ॥ ५।३७।४३ ॥

तवेव ममाप्यात्मनः कार्यसिद्धिरवश्यं संप्रधार्या विचार्या, त्वया तु स्वबलवैभवेन विचारिता कार्यसिद्धिः ॥ ५।३७।४४ ॥

भवत्यास्तर्हि को विचारस्तत्राह अयुक्तं त्विति ॥ ५।३७।४५ ॥

उपर्युपरि सागरं सागरस्योपरीत्यर्थः ॥ ५।३७।४६,४७ ॥

इतो ऽपि गमनमयुक्तं त्वया सहेत्याह– न चेति । कलत्रवति स्त्रिया सह गन्तरि सन्देहः राक्षसानामिति शेषः ॥ ५।३७।४८,४९ ॥

संशयं प्राणसंशयम्, तैस्त्वं परिवृतो भवेः । ततस्त्वं संशयं प्राप्तो भवेरिति त्वंशब्दद्वयनिर्वाहः ॥ ५।३७।५० ॥

तत्र हेतूनाह– सायुधा इति । व्योम्नि निरालम्बप्रदेश इत्यर्थः ॥ ५।३७।५१,५२ ॥

कथञ्चिन्महता यत्नेन । सांपराये युद्धे जयेयुः तस्याव्यवस्थितत्वादिति भावः ॥ ५।३७।५३ ॥

अथ त्वं जेष्यसि एवमपि पतने महाननर्थ इत्याह– अथवेति । पतेयम् तव पृष्ठादिति शेषः । तत्र हेतुः– विमुखस्येति । युद्धपारवश्यान्मद्रक्षणविमुखस्येत्यर्थः ॥ ५।३७।५४ ॥

विशसेयू रामविषयकद्वेषवशात् । तत्सन्तोषमाशार्थमित्यर्थः ॥ ५।३७।५५,५६ ॥

यशो हीयेत्स्वयं प्रत्याहर्तुमशक्त इत्यपयशोवृद्धिः स्यादिति भावः । शस्तैहिंसितैः ॥ ५।३७।५७ ॥

राक्षसैः स्वग्रहणपक्षे दोषान्तरमाह अथवेति । संवृते गुप्ते ॥ ५।३७।५८ ॥

आरम्भः समुद्रतरणादिरूपः एवं स्वगमनपक्षे दोषमुक्त्वा राघवानयनपक्ष एव गुणवानित्याह– त्वया हीति ॥ ५।३७।५९ ॥

रामेण मदप्राप्तौ सर्वनाशप्रसङ्ग इत्याह मयि जीवितमिति । भ्रातृ़णां लक्ष्मणादीनाम् । राजकुलस्य सुग्रीवकुलस्य ॥ ५।३७।६० ॥

प्राणसङ्ग्रहं प्राणसंबन्धम् ॥ ५।३७।६१ ॥

हनूमता सह गमनाभावे कारणान्तरमाह– भर्तुरिति । रावणगात्रस्पर्शस्तु न स्वत इत्याह यदहमिति ॥ ५।३७।६२ ॥

अनीशा स्रीत्वात्स्वयमसमर्था, विवशा विचेष्टा, विनाथा ऽसंनिहितरामलक्ष्मणा । हा सीते लक्ष्मणेति मारीचवाक्यं श्रुत्वा रामानर्थशङ्कया लक्ष्मणस्यापि प्रस्थापनादिति भावः ॥ ५।३७।६३ ॥

तत्तस्य सदृशं स्वमहिम्ना सगणं शत्रुं हत्वा मन्नयनम् सगणरावणवधार्थमेवावतारात् तस्य च मद्गमने ऽसंभवात्, एवं च स्वकार्यानिष्पत्त्या गतायामपि क्रुद्ध्येदिति गूढम् ॥ ५।३७।६४ ॥

तादृशबलं च तस्य मया सुविहितमित्याह– श्रुताश्चेति । विश्वामित्रयज्ञादौ कृता वालिवधादयश्च श्रुताः अन्ये दृष्टाः ॥ ५।३७।६५६७ ॥

अथ निश्चितं कर्तव्यमाह– स मे इति । सयूथपं ससुग्रीवमुपपादयानय । चिरकालं शोककर्शितां रामस्यान्नागमनेन हर्षितां कुरुष्व । समूलसकलनाशेनेति भावः ॥ ५।३७।६८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ ५।३७ ॥