०३२ हनुमन्तं वीक्ष्य सीतायाः भयम्

लीनं दृष्ट्वा ऽस्फुरन्तं दृष्ट्वा चलितमानसा ऽदृष्टरूपो ऽयमपि मायामृगो वेति चलितचित्ता । पुनः सम्यङ्निरीक्ष्योच्यमानविशेषणं कपिं ददर्श । वेष्टितं परिहितमर्जुनवर्णं वस्त्रं येन तम् ॥ ५।३२।१३ ॥

वानरस्य निर्धारणे षष्ठी जातावेकवचनम् वानराणां मध्ये इदं सत्वं जीवः, भीमं प्राकृतप्राणिभयावहम्, अत एव तैर्दुरासदं दुर्निरीक्ष्यं चेति मत्वा पुनरपि मायैवेयमिति भयान्मुमोह ॥ ५।३२।४ ॥

अथ भयमोहिता सती भृशं करुणं दीनं विललाप । विलापप्रकारः– रामेत्यादि ॥ ५।३२।५ ॥

मन्दमन्दस्वरा । अस्य दैवगत्या वास्तवत्वे राक्षस्यो मा जानन्त्वित्यतिमन्दस्वररोदनम् । विनीतवद्विनीततयोपस्थितम् । स्वप्नः जाग्रत्कल्पः स्वप्न इत्यर्थः ॥ ५।३२।६ ॥

स्वप्नत्वचिन्तापूर्वकमेव पुनर्दर्शनमुपन्यस्यति सेति । किमिदं वाक्यं राक्षस्यः श्रुतवत्य इति परितो वीक्षमाणा सा पृथुभग्नं वज्रप्रहाराद्वक्त्रं यस्य तम् । शाखामृगेन्द्रस्य यथोक्तकारमाज्ञाकरम् । यद्वा यथोक्तवेष्टितार्जुनवस्त्राद्याकारम् छान्दसो ह्रस्वः पिङ्गप्रवरं कपिश्रेष्ठमिति निश्चयेन ददर्श ॥ ५।३२।७ ॥

सा तं कपिरूपं रावणमित्येव समीक्ष्य भृशं विसञ्ज्ञा चित्तक्षोभाद्गतासुकल्पेव ॥ ५।३२।८ ॥

एवं चिन्तयामासेत्यत्रैवंशब्दार्थः– स्वप्न इत्यादि । दृश्यमानो ऽयं स्वप्नो मया विकृत एव दृष्टः । कुतस्तत्राह शाखामृग इत्यादि । एवं दुःस्वप्नं मत्वा स्वस्ति प्रार्थयते । जनकस्य तद्वंश्यस्य ॥ ५।३२।९ ॥

अथ स्वप्नहेत्वभावान्नायं स्वप्न इत्याह स्वप्नो हीति । स्वप्नस्य निद्रामूलत्वान्निद्रायाश्च सुखमूलत्वाद्रामवियोगेन च मे सुखाभावादिति भावः ॥ ५।३२।१० ॥

सदा रामेति विचिन्त्य वाचा तमेव ब्रुवन्त्यहं तस्य चिन्तनादेरनुरूपं यथा तथा शृणोमि । श्रूयमाणां च कथं तथा तेन प्रकारेण तदर्थामेव चिन्ताद्यनुरूपार्थामेव पश्यामि ॥ ५।३२।११ ॥

उक्तमेवार्थं विवृणोति– अहं हीति ॥ ५।३२।१२ ॥

अथ मनोरथमात्रमेतदिति संभाव्य तदपि नेति निश्चिनोति मनोरथ इति । मनोराज्यमित्यर्थः । स नेत्याह तथापीति । तथैवेत्यर्थः । यथा मनोरथोन्नीतो ऽर्थस्तं तथैव बुद्ध्यापि निश्चयात्मकान्तःकरणवृत्त्यापि विषयीकृतं तर्कयामि । मनोराज्यं सङ्कल्पविकल्पपरं चञ्चलवृत्तिरूपम्, बुद्धिस्तु निश्चयात्मिका स्थिरा चेति विरुद्धमित्यर्थः । ननु तर्हि मनोराज्यत्वमेवास्त्वितरदेवारोपितं तत्राह किं कारणमिति । मनोराज्यत्वाभाव इति शेषः । उत्तरं तस्य हि मनोराज्यभूतार्थस्य नास्ति रूपमनुभवार्हं रूपं नास्तीति हि प्रसिद्धम् । प्रकृते तु दृश्यं रूपमस्तीत्याह सुव्यक्तेति । यो मां वदति सुव्यक्तरूपो दृश्यते सुव्यक्तरूपं च वदति यत इत्यर्थः । मनोराज्यार्थो दृष्टनष्टो बाह्येन्द्रियजस्थिरानुभवानर्हः । अतो वास्तव एवायमिति भावः ॥ ५।३२।१३ ॥

एवं हनुमद्वचसो वास्तवत्वं निर्णीया नाप्तप्रणीतत्वेन मिथ्यार्थकत्वस्यापि संभवात्तद्व्यावृत्तये देवान्प्रणमति नमो ऽस्त्विति । वाचस्पतित्वेन वाचः सत्यत्वसंपादनयोग्यता । वज्रिणो ऽपि बृहस्पतितः सत्यवाग्रूपशब्दपारायणग्रन्थरूपमन्त्रलाभात्तदुपासकत्वेन वाचः सत्यत्वसंपादनयोग्यता । स्वयंभूवे सत्यादिरूपब्रह्मणे । वागधिष्ठातृदेवतात्वाच्चाग्नये नतिः ॥ ५।३२।१४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ५।३२ ॥