०५७ अङ्गदेन स्वकष्टनिरूपणम्

भ्रष्टस्वरमपि भक्षणवचनस्वरापेक्षया भ्रष्टस्वरमित्यर्थः । तेन स्वरेण यद्यपि स निश्चितशोकः परितुष्टो ऽस्मीति श्रद्धेयवचनो भवति तथापि न श्रद्दधुः, यतस्तस्य कर्मणा शङ्किताः । भक्षणार्थं वञ्चनमेव करोतीति बुद्धयेति भावः ॥ ४।५७।१ ॥

तदेवाह– चक्रुरित्यादि । अस्यार्धस्येतीति शेषः ॥ ४।५७।२ ॥

सिद्धिं मरणरूपाम् ॥ ४।५७।३ ॥

एतां बुद्धिं भक्षणाभीष्टत्वबुद्धिम् ॥ ४।५७।४ ॥

को ऽयं घोषयतीति प्रथमप्रश्नोत्तरमाह– बभूवेति । आर्यः पितामहः । पार्थिवः वानराणामिति शेषः ॥ ४।५७।५ ॥

घनबलौ बहुबलौ । “ओघबलौ” इति पाठान्तरम् ॥ ४।५७।६९ ॥

“रावणेन विहायसि” इति पाठे ह्रियमाणामिति शेषः । स्थापयित्वा भूमाविति शेषः ॥ ४।५७।१०१२ ॥

स्वपितृवधे कारणमाह– ममेति । निरुद्धो निरुद्धराज्यः ॥ ४।५७।१३१८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ४।५७ ॥