०४६ तपस्वीरूपेण रावणागमनम्

न चिरादिव । शीघ्रमेवेत्यर्थः । विकाङ्क्षन्विशेषेण काङ्क्षमाणस्तत्सविधगमनमिच्छन्नित्यर्थः । काङ्क्षिः शङ्कायामपि । तेन रामं विरुद्धं शङ्कमानः शीघ्रमितो ऽनपसरणे कार्यनाशाद्रामो ऽपि विरुद्धः स्यादिति शङ्कमानः शीघ्रं जगामेति व्यङ्ग्यम् । अत एव व्यवहितपूर्वसर्गान्ते मारीचस्य तथाशब्दोत्तरं सीताविषयां महतीं चिन्तामुक्त्वा ततः पुनरपि मांसार्थमितरमृगवधप्रवृत्तिरुक्ता सा विलम्बायैव ॥ ३।४६।१ ॥

तदा लक्ष्मणस्यापगमे ऽन्तरं रामलक्ष्मणयोरपसरणेनावकाशमासाद्य प्राप्य ॥ ३।४६।२ ॥

शिखी उपानहीति व्रीह्यादित्वादिनिः । अनेन त्रिदण्डिसंन्यासिविशेषः सूचितः । तदुक्तं भारते– “रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक्” इति । तत्र मुण्ड इत्यनेन जटित्वव्यावृत्तिः । कुण्डं कमण्डलुः । यष्टिस्त्रिदण्डात्मिका । भ्रातृभ्यां परस्परभ्रातृभ्यां रामलक्ष्मणाभ्याम् ॥ ३।४६।३५ ॥

ग्रहवत्केतुवत् तं सन्दृश्येत्यन्वयः ॥ ३।४६।६ ॥

शीघ्रस्रोता शीघ्रप्रवाहा ऽपि तं वीक्षन्तं वीक्षमाणं दृष्ट्वा तद्भयात्स्तिमितं मन्दं गन्तुमारेभे इत्यन्वयः ॥ ३।४६।७ ॥

अन्तरमपकारयोग्यं छिद्रम् । तदन्तरे उभयरहितदेशकाले ॥ ३।४६।८ ॥

उपतस्थे । अतिसमीपं प्रापेत्यर्थः । अनुशोचतीं तामिव ॥ ३।४६।९ ॥

चित्रां चित्राख्यनक्षत्रम् । भव्यरूपेण परमशान्तयतिरूपेण ॥ ३।४६।१०,११ ॥

बाष्पैः शोकेन चाभिपीडिताम् । स्वयमग्नौ प्रविश्य मां रक्षसे दत्तवतीति शोकबाष्पौ । रामयसनशङ्कयेत्यापाततो ऽर्थः ॥ ३।४६।१२,१३ ॥

ब्रह्मघोषं ब्राह्मणत्वप्रत्यभिज्ञानाय वेदघोषमुदीरयन्कुर्वन् ॥ ३।४६।१४,१५ ॥

रौप्यकाञ्चनमुत्तमकाञ्चनम् ॥ ३।४६।१६ ॥

हीर्गौरी, श्रीरैश्वर्यप्रधाना भगवच्छक्तिः, लक्ष्मीः सौभाग्यप्रधाना, भूतिरणिमादिसिद्धिः, रतिः कामपत्नी । स्वैरचारिणीत्वं वन आगमनात् ॥ ३।४६।१७ ॥

प्रशशंसेत्यस्य प्रपञ्चः समा इत्यादि । समा इति समसंस्थानाः । शिखरिणः कुन्दकुड्मलवत्प्रशस्ताग्राः ॥ ३।४६।१८ ॥

संप्रगल्भितावालिङ्गनादौ सञ्जातप्रागल्भ्यौ । “संप्रवल्गितौ” इति पाठे आलिङ्गनोद्यतावित्यर्थः ॥ ३।४६।१९ ॥

मणिप्रवेको मणिश्रेष्ठः ॥ ३।४६।२० ॥

नदी कर्त्री । कूलं स्वकूलम् ॥ ३।४६।२१ ॥

करान्तेनाङ्गुष्ठप्रदेशिनीचक्रप्रमाणेन मितं मध्यं यस्यास्तथाभूते ॥ ३।४६।२२ ॥

रूपं सुकुमारतावयः कान्तारवास इति चत्त्वारि चित्तमुन्माथयन्ति विकृतं कुर्वन्ति । प्रतिक्राम निर्गच्छ । रामचन्द्राधिष्ठितस्थाने राक्षसपराक्रमासंभवादेवं वचनम् ॥ ३।४६।२३२५ ॥

आचरितुमुपभोक्तम् । त्वद्युक्तं त्वत्संयुक्तमाल्यादि वरम् अन्यत्तु विफलमिति भावः ॥ ३।४६।२६२८ ॥

द्वीपिव्याघ्रौ सबिन्दुनिर्बिन्दू ॥ ३।४६।२९ ॥

तरक्षुर्मृगादनः । बिभ्यसे बिभेषि ॥ ३।४६।३०,३१ ॥

प्रशस्ता कृतप्रशंसा ॥ ३।४६।३२ ॥

द्विजातिवेषेण तमागतं रावणं दृष्ट्वा द्विजातिवेषो ऽयं रावण इति ज्ञात्वापि । अतिथिसत्कारैरतिथियोग्यसत्कारैः ॥ ३।४६।३३ ॥

पाद्येनाभिनिमन्त्र्य सत्कृत्य । तदा पाद्यदानोत्तरकाले सौम्यदर्शनं तं सिद्धं पक्वमन्नमित्यब्रवीत् ॥ ३।४६।३४ ॥

पात्रं कमण्डलुः कुसुम्भं तद्रक्तवस्त्रम् तदुभयधारिणम् । उपायानां ब्राह्मणत्वप्रतिपत्त्यै रावणेन कृतानां काषायवस्त्रब्रह्यघोषदण्डादीनां दर्शनात् । उद्द्वेष्टुमुपेक्षितुमशक्यमिति विचार्येति शेषः । तथागतं ब्राह्मणवेषेणागतं रावणं ब्राह्मणवदेव न्यमन्त्रयत् । पाठान्तरं त्वत्राशक्तकल्पितम् । अयमेव रक्षःसंहारोपाय इति दर्शनादित्यपि गूढमत्र ॥ ३।४६।३५ ॥

निमन्त्रणप्रकारः– इयं बृसीत्यादि । वनजातं वन्यपदार्थजातं त्वदर्थमेव सिद्धं कृतं तदिहोपभुज्यताम् ॥ ३।४६।३६ ॥

एवं निमन्त्र्यमाणो रावण आत्मवधाय स्वनाशाय तस्याः प्रसह्य हरणे मनो दृढं निश्चितं समर्पयामास सम्यग्वधाय कृतवानित्यर्थः ॥ ३।४६।३७ ॥

सुवेषं शोभनाकारम् । मृगयागतं मृगयां प्रति गतम् । हरितं श्यामम् ॥ ३।४६।३८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ३।४६ ॥