०४९ रामादिभिः गोमत्यादिनदीतरणम्

अथ रामवृत्तान्तमाह रामो ऽपीति । तेनैव यत्र रात्रिशेषे द्विजा वञ्चितास्तेनैव महदन्तरं बहुदूरम् ॥ २।४९।१ ॥

व्यपायाद्गता विषयो देशः ॥ २।४९।२ ॥

विशेषेण कृष्टाः सीमान्ता येषु अनेन सौराज्यं ध्वनितम् तान्यतिक्रामञ्छनैरिव शीघ्रं ययौ । रमणीयदेशादिदर्शनपारवश्यादतिशीघ्रमपि गमनं शनैरिव प्रत्यभादित्यर्थः इति तीर्थः । “शरैरिव” इति पाठे शरसदृशवेगवद्भिरश्वोत्तमैरित्यर्थः इति कतकः ॥ २।४९।३ ॥

ग्रामा महान्तः संवासाः स्वल्पग्रामाः शृण्वन्ययावित्यन्वयः । ता वाच आह राजानं धिगित्यादि । आस्थितं प्राप्तम् ॥ २।४९।४ ॥

पापा पापकर्मारब्धशरीरा पापानुबन्धिनी पापकर्मनिरता तीक्ष्णा क्रूरदर्शना संभिन्नमर्यादा त्यक्तमर्यादा ॥ २।४९।५ ॥

ईदृशमनेककल्याणगुणवन्तं, सानुक्रोशं सदयम् ॥ २।४९।६ ॥

प्रजानां प्रियमिति शेषः । यद्वा प्रजाविषये ऽनघं पापरिहतम् ॥ २।४९।७ ॥

कोसलानति अतिक्रम्य ययौ ॥ २।४९।८ ॥

शिववारिवहां शिवानि वारीणि वहन्तीम् ॥ २।४९।९ ॥

गोभिर्युतान्यनूपानि जलप्रायदेशा यस्याम् सागरंगमामित्यनेन यमुनावत्तस्या अपि पृथक्सागरप्रवेशं सूचयति ॥ २।४९।१० ॥

स्यन्दिकां तदाख्याम् ॥ २।४९।११ ॥

सो ऽतीतस्यन्दिकः महीं स्यन्दिकासीमां कोसलदेशरूपां राष्ट्रवृतामवान्तरजनपदावृतां वैदेहीमन्वदर्शयत् इक्ष्वाकवे मनुना दत्तकोसलदेशस्य दक्षिणसीमां कथयामासेत्यर्थः । यद्यपीक्ष्वाक्वादयः सार्वभौमास्तथापि तेषां स्वराजधानीत्वात्स्यन्दः कोसलदेश एव सार्वभौमत्वं तु तद्देशसिंहासनाधिष्ठातृसकलराजपालनीयाज्ञत्वमेवेत्यलम् ॥ २।४९।१२ ॥

सूत ३ प्लुतः शृण्वित्यादि आभाष्य संबोध्य हंसमत्तस्वरो मत्तहंसस्वरः ॥ २।४९।१३ ॥

अथ परिगृहीतमनुष्यदेहस्य तद्देहग्रहणानुरूपो ऽभिनयः कदेति । आगम्य अतिक्रान्तं स्वदेशमिति शेषः ॥ २।४९।१४ ॥

ननु मृगयायाः “स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम्” इत्युक्तेर्व्यसनानां निषेधाच्च कथं तदिच्छेत्यत आह नात्यर्थमिति । प्रजान्यायचिन्तादिवैमुख्यापादकतयात्यन्तरतेरेव तस्यां निषेधात् नतु सर्वथैव निषेधो ऽस्त्यत आह एषा

रतिः क्रीडा लोके राजर्षिगणसंसता, अतो ऽतुला न सर्वथा निषिद्धेत्यर्थः । “गजादयो न हन्तव्या मृगयायां महेषुभिः” इत्यादिनास्या अप्यनुमतत्वमिति भावः ॥ २।४९।१५ ॥

“राजर्षीणां हि” इति श्लोकः पुनरुक्तार्थक इव कतकासंमतश्चेति बोध्यम् । एवं हि तद्व्याख्या हि यतोस्मिंल्लोके राजर्षिणां वने मृगया रत्यर्थमासीत् । अतो ऽहमपि काले श्राद्धादिकाले मनुजैर्मनुपुत्रैः सदाचारपरैरपि कृतां स्वीकृतां धन्विनां चञ्चललक्ष्येष्विषुसिद्ध्यर्थमभिकाङ्क्षितां नात्यर्थमभिकाङ्क्षामीति संबन्धः ॥ २।४९।१६ ॥

तं तमर्थमभिप्रेत्य विषयीकृत्य मधुरया गिरा सूतं प्रति वाक्यमुदीरयन्स एक्ष्वाको रामस्तमध्वानं ययाविति संबन्धः ॥ २।४९।१७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ २।४९ ॥