००७ मन्थरामन्त्रणम्

अथ सीताया लङ्कापुरप्रवेशं विना रावणवधस्याशक्यतया तत्सिद्धये देवैः प्रेरितायाः कृतकुब्जावेषाया मन्थराया रामाभिषेकविघ्नप्रवृत्तिं तद्रात्रिगतं कैकेयीवृत्तान्तं च वक्तुमुपक्रमते ज्ञातीत्यादि । “ज्ञातिदासी यतो नित्यम्” इति पाठे यतः कैकेय्या ज्ञातेर्मातृकुलस्य दासी यतश्च कैकेय्या नित्यं सहोषिता अतो जनकोलाहलं श्रुत्वा कैकेय्यै तदर्थं निवेदयितुं यदृच्छया स्वयमेव न त्वन्यप्रेरणया प्रासादमारुरोहेत्यन्वयः । यत्तु अतः “कुब्जा क्षिप्रममर्षिता” इत्यनेन द्वादशश्लोकस्थपदेनान्वयः, स्वीयाभ्युदयस्य सर्वेष्टत्वाद्रामाभ्युदयजदुःखेन तद्विघटको ऽमर्ष इति कतकः तन्न, रामाभ्युदयस्याग्रे धात्रीमुखेन श्रवणस्य वक्ष्यमाणतया तस्यैव चामर्षहेतुत्वस्य च वक्ष्यमाणतयात्रत्यस्य तत्रान्वयानौचित्यात् । “यतो जाता” इति पाठे यतो यत्र कुत्रचिज्जाता अविज्ञातवेश्ममातापितृकेत्यर्थः । एवं च कैकेयीज्ञातिदासीत्वमपि कार्यार्थमुदरभरणव्याजेन स्वीकृतमनया इति बोध्यम् । इदं तु युक्तम् “मन्थरा नाम कार्यार्थमप्सरा प्रेषिता सुरैः । दासी काचन कैकेय्यै दत्ता केकयभूभृता ॥ " इति पाद्मोक्तेः । कार्यार्थं रावणवधरूपकार्यार्थं दासी स्वयमागत्य केकयराजस्य जातेति शेषः । “नित्यम्” इति पाठेऽपि जातेति शेषपूरणेनैव व्याख्योचिता पाद्मैकवाक्यत्वात्। चन्द्रसङ्काशं सुधाधवलितत्वात् ॥

२।७।१ ॥

प्रकीर्णानि कमलान्युत्पलानि च यस्याम् । तस्मात्सर्वोत्कृष्टात्प्रासादात् प्रासादे

स्थित्वेत्यर्थः । ल्यब्लोपे पञ्चमी ॥ २।७।२ ॥

वरार्हाभिः श्रेष्ठयोग्याभिः । राजयोग्याभिरिति यावत् । एतदुत्तरम् “कृतां छन्नपथैश्चापि स्वच्छन्दकपथैर्वृताम्” इत्यर्धं पठन्ति । छन्नपथैर्निम्नोन्नतप्रदेशमार्गैः कृतामलङ्कृताम् । स्वच्छन्दकपथैरुत्सवादिषु जनभूयस्त्वेन प्रवेशनिर्गमार्थं प्राकारादिभङ्गेन कृतैर्मार्गैरिति व्याचक्षते च केचित् । चन्दनयुक्ततोयैः सिक्ताम् । शिरःस्नातजनैः कृताभ्यङ्गस्नानैः ॥ २।७।३ ॥

माल्यमोदकहस्तैर्दानप्राप्तमाल्यमोदकहस्तैः, रामोपायनमाल्यमोदकरूपमङ्गलद्रव्याहस्तैरित्यर्थो वा । सुधाचन्दनादिलेपेन शुक्लानि देवगृहद्वाराणि यस्याम् ॥ २।७।४ ॥

ब्रह्मघोषो वेदघोषः । प्रहृष्टेत्यादिना तिरश्चामपि रामाभिषेकाद्धर्ष इति सूचितम् ॥ २।७।५ ॥

हृष्टैर्जातरोमाञ्चादिभिर्मुदितैरानन्दयुक्तैः पौरैरुपलक्षिताम् ॥ २।७।६ ॥

अविदूरे स्वाधिरूढहर्म्यात्यासन्नहर्म्यै । धात्रीम् रामस्येति शेषः । अत एव हर्षोत्फुल्लनयनत्वादि तस्याः वक्ष्यति च हर्षेण विदीर्यमाणेत्यादि ॥ २।७।७ ॥

अर्थपरा स्वेष्टार्थपरा स्वेष्टार्थकामेवेति शेषः । किं नु कस्मात् ॥ २।७।८ ॥

किं कुतो जनस्य प्रहर्षः अभिषेकप्राग्दिनीयसायंकाले मन्थरायास्तद्दर्शनेन राजा संप्रहृष्टः इत्युक्तिः ॥ २।७।९ ॥

विदीर्यमाणान्तर्गतानन्दौत्कट्याद्देहपोषमुखविकासादिना तस्या आनन्दस्य

बहिःप्रसारणाद्विदीर्यमाणत्वोत्प्रेक्षा । राघवे राज्ञा न्यस्यमानां भूयसीं श्रियं राज्यलक्ष्मीम् ॥ २।७।१० ॥

अनघं क्काप्यकारणेर्ष्यादिरहितम् ॥ २।७।११ ॥

अवरोहतावारुहत् ॥ २।७।१२ ॥

क्रोधेन दह्यमाना सेव पापदर्शिनी रामाभिषेके कैकेय्यै भरतविषयपापप्रदर्शिका ॥ २।७।१३ ॥

अघौघेन दुःखसमूहेनोपप्लुतं पीडितम् । कारणकार्ययोः पौर्वापर्यविपर्ययरूपातिशयोक्तिः । “अधं दुरितदुःखयोः” इति कोशः ॥ २।७।१४ ॥

सुभगाकारे त्वद्विषये सौभाग्यद्योतकाकारवत्याकारेणैव तव सौभाग्येन वस्तुतो ऽनिष्टे ऽप्रियकर्तरि किं सौभाग्येन विकत्थसे मय्येवानुरक्तो मे स्वामी मदाज्ञावशंवद इत्यादिप्रकारेण वृथा श्लाघसे । उष्णगे ग्रीष्मगे रवौ सति नद्याः स्रोत इव सौभाग्यं चलं रामाभिषेकात्क्षीणप्रायमित्याशयः ॥ २।७।१५ ॥

पापदर्शिन्या पापं दर्शयन्त्या विषादमगमत्स्वस्मिन्राजवैरस्योद्भावनात् ॥ २।७।१६ ॥

कच्चित्क्षेमम् न मह्यमिति शेषः ॥ २।७।१७,१८ ॥

विषण्णतरा भूत्वा तदाकारेव भूत्वा । अप्सरस्त्वे सर्वज्ञत्वाद्वास्तवविषादाभावात् विषादयन्ती राज्यश्रियो ऽन्यगामित्वरूपानिष्टप्रकाशेन कैकेय्या विषादं जनयन्ती भेदयन्ती राघवं प्रति पुत्रत्वप्रयुक्तं तस्याः स्नेहं नाशयन्ती ॥ २।७।१९ ॥

अश्रयम् क्षयः प्रतीकारः, अशक्यप्रतीकारमित्यर्थः । त्वद्विनाशनं त्वत्सौभाग्यनाशकारणं प्रवृत्तम् । तदेवाह राममिति ॥ २।७।२० ॥

शत्रो राज्यलाभाहुःखम् । स्वेष्टस्य तदलाभाच्छोकः शत्रुराज्यलाभ एव ततो भयम् त्वद्धितार्थं त्वद्धितबोधनार्थम् ॥ २।७।२१ ॥

ननु दास्यास्तव कुतो भयम्, अत आह तवेत्यादि ॥ २।७।२२ ॥

किं मे दुःखं तत्राह नराधिपेति । एतद्विशेषणद्वयमग्रे ऽपि राजप्रातृत्वाप्रच्युतये यत्नावश्यकत्वद्योतनाय । ननु रामराज्ये ऽपि महिषीत्वं मे दुष्परिहरमित्यत आह उग्रत्वमिति । सापत्नो हि स राज्यलाभे त्वां त्वत्पुत्रं च नाशयिष्यतीति भावः ॥ २।७।२३ ॥

ननु राज्ञो रामस्य चात्यन्तं मदनुरक्तत्वात्स मत्पुत्रस्यैव राज्यलाभो ऽत आह धर्मवादीति । वाङ्मात्रेण धार्मिकः श्लक्षणवादी च सस्मितमधुरभाषी अन्ततस्तु शठो ऽसूयावान् अत एव दारुणः कूरहृदय आन्तरक्रौर्यगोपनायैव सस्मितमृदुमधुरभाषी । एवंभूतं तं शुद्धभावेनोपलक्षितं जानीषे । सर्वधा तेनैवमुक्तरीत्यातिसंधिता वञ्चिता

असीति शेषः ॥ २।७।२४ ॥

उपस्थितः कौसल्यार्थसाधने हृदयेन सावधानस्त्वत्समीपे स्थितो वा । “उपस्तितम्” इति पाठे तत्कालोचितसान्त्वमित्यर्थः । अनर्थकं फलरहितम् । सान्त्वं प्रियवचनं त्वयि प्रयुञ्जानः अर्थेन राज्यरूपेण कौसल्यामेव योजयिष्यति ॥ २।७।२५ ॥

कौसल्यार्थप्रायणार्थमेव तोनोपायान्तरमप्यनुष्ठितमित्याह अपवाह्येति । उद्वास्येत्यर्थः । काल्ये ऽन्यत्रोपसंक्रमणकालार्हे । “कोल्ये” इति पाठः कुलक्रमागत इत्यर्थः आर्षः ॥ २।७।२६ ॥

आत्मनो हितेच्छया त्वया मात्रेव भोजनदानादिना पोषित आशीविष इव क्रूरः शत्रुः पतिप्रवादेन प्रतिव्यपदेशेन त्वयाङ्गेन परिधृत इत्यन्वयः ॥ २।७।२७ ॥

तद्धरणेन च ते ऽनर्थः संवृत्त इत्याह यथेति । प्रत्युपेक्षित उपेक्षितनाशः ॥ २।७।२८ ॥

कथं कृतेत्यत्राह पापेनेति । अनुबन्धः पुत्रादिपरिकरः ॥ २।७।२९ ॥

सा त्वं प्राप्तकालं प्राप्तानुष्ठानकालं यत्तव हितं तत्कुरु । विस्मयदर्शने ऽतिदुःखजनकवार्ताश्रवणे ऽपि स्वेष्टाद्भुतवार्ताश्रवणेनैव विस्मयसूचकदर्शने । एवं विस्मयं हित्वा स्वेष्टं विभावयेति तात्पर्यम् ॥ २।७।३० ॥

एवं मन्थरयानर्थत्वेन प्रकाशिते रामाभिषेके महाकुलप्रसूता निसर्गकल्याणगुणा सर्वथा तं स्वेष्टार्थमेव मन्यते स्मेत्याह मन्थराया इत्यादि ॥ २।७।३१ ॥

विस्मयो ऽत्यद्भुतस्वेष्टश्रवणात् कौसल्यावदेवेति भावः ॥ २।७।३२,३३ ॥

प्रियमाख्यातमित्यस्य पुनरुक्तिर्वक्त्र्या हर्षातिशयवत्त्वान्न दोषावहा । भूयो ऽभ्यधिकं किं प्रीतिदानं करोमि त्वच्छ्रावितप्रियसमाभ्यधिकप्रियवस्त्वभावादित्यर्थः ॥ २।७।३४ ॥

ननु सापत्नश्रेयः श्रुतिः कथं ते प्रियमित्यत्राह रामे वेति । विशेषं पुत्रत्वप्रयुक्तस्नेहविशेषम् ॥ २।७।३५ ॥

प्रियार्हे प्रियदानार्हे । इत उक्ताद्रामाभिषेकाद्वरमधिकं प्रियं वचो ऽमृतं परमन्यत्, न सुवचम् तादृशं हि त्वमवोचः । यतो ऽधिकं प्रियं न सुवचमतः प्रियोत्तरं प्रियाख्यानोत्तरं पारितोषिकरूपं परं श्रेष्ठं वरं वृणु ते तव तं वरं प्रददामि । मया तु स्वबुद्ध्यैतत्प्रियाक्यानपारितोषिकयोग्यं वस्तु न दृस्यते, अतस्त्वं यद्वरयिष्यसि तद्दास्यामीत्यर्थः ॥ २।७।३६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्तमः सर्गः ॥ २।७ ॥