५ प्रायश्चित्त-प्रकरणम्

206 महापातकजान् घोरान् ...{Loading}...

महा-पातकजान् घोरान्
नरकान् प्राप्य दारुणान्।
कर्म-क्षयात् प्रजायन्ते
महा-पातकिनस् त्व् इह ॥ ३.२०६ ॥

207 मृगाश्व[?]सूकरोष्ट्राणां ब्रह्महा ...{Loading}...

मृगाश्व[?]-सूकरोष्ट्राणां
ब्रह्महा योनिम् ऋच्छति।
खर-पुल्कस-वेनानां
सुरापो नात्र संशयः ॥ ३.२०७ ॥

208 कृमिकीटपतङ्गत्वं स्वर्णहारी ...{Loading}...

कृमि-कीट-पतङ्गत्वं
स्वर्ण-हारी समाप्नुयात्।
तृण-गुल्म-लतात्वं च
क्रमशो गुरु-तल्पगः ॥ ३.२०८ ॥

209 ब्रह्महा क्षयरोगी ...{Loading}...

ब्रह्महा क्षय-रोगी स्यात्
सुरापः श्याव-दन्तकः।
हेम-हारी तु कुनखी
दुश्चर्मा गुरु-तल्पगः ॥ ३.२०९ ॥

210 यो येन ...{Loading}...

यो येन संवसत्य् एषां
स तल्-लिङ्गो ऽभिजायते।
अन्न-हर्त +आम-यावी स्यान्
मूको वाग्-अपहारकः ॥ ३.२१० ॥

211 धान्यमिश्रो ऽतिरिक्ताञ्गः ...{Loading}...

धान्य-मिश्रो ऽतिरिक्ताञ्गः
पिशुनः पूति-नासिकः।
तैल-हृत् तैल-पायी स्यात्
पूति-वक्त्रस् तु सूचकः ॥ ३.२११ ॥

212 परस्य योषितं ...{Loading}...

परस्य योषितं हृत्वा
ब्रह्म-स्वम् अपहृत्य च।
अरण्ये निर्जले देशे
भवति ब्रह्म-राक्षसः ॥ ३.२१२ ॥

213 हीनजातौ प्रजायेत ...{Loading}...

हीन-जातौ प्रजायेत
पर-रत्नापहारकः।
पत्र-शाकं शिखी हत्वा
गन्धान् छुच्छुन्दरी शुभान् ॥ ३.२१३ ॥

214 मूषको धान्यहारी ...{Loading}...

मूषको धान्य-हारी स्याद्
यानम् उष्ट्रः कपिः फलम्।
जलं प्लवः पयः काको
गृह-कारी ह्य् उपस्करम् ॥ ३.२१४ ॥

215 मधु दंशः ...{Loading}...

मधु दंशः पलं गृध्रो
गां गोधा ऽग्निं बकस् तथा।
श्वित्री वस्त्रं श्वा रसं तु
चीरी लवण-हारकः ॥ ३.२१५ ॥

216 प्रदर्शनार्थम् एतत् ...{Loading}...

प्रदर्शनार्थम् एतत् तु
मयोक्तं स्तेय-कर्मणि।
द्रव्य-प्रकारा हि यथा
तथैव प्राणि-जातयः ॥ ३.२१६ ॥

217 यथाकर्म फलम् ...{Loading}...

यथा-कर्म फलं प्राप्य
तिर्यक्त्वं काल-पर्ययात्।
जायन्ते लक्षण-भ्रष्टा
दरिद्राः पुरुषाधमाः ॥ ३.२१७ ॥

218 ततो निष्कल्मषीभूताः ...{Loading}...

ततो निष्कल्मषी-भूताः
कुले महति भोगिनः।
जायन्ते विद्ययोपेता
धन-धान्य-समन्विताः ॥ ३.२१८ ॥

219 विहितस्याननुष्ठानान् निन्दितस्य ...{Loading}...

विहितस्याननुष्ठानान्
निन्दितस्य च सेवनात्।
अनिग्रहाच् चेन्द्रियाणां
नरः पतनम् ऋच्छति ॥ ३.२१९ ॥

220 तस्मात् तेनेह ...{Loading}...

तस्मात् तेनेह कर्तव्यं
प्रायश्चित्तं विशुद्धये।
एवम् अस्यान्तर्-आत्मा च
लोकश् चैव प्रसीदति ॥ ३.२२० ॥

221 प्रायश्चित्तम् अकुर्वाणाः ...{Loading}...

प्रायश्चित्तम् अकुर्वाणाः
पापेषु निरता नराः।
अपश्चात्-तापिनः कष्टान्
नरकान् यान्ति दारुणान् ॥ ३.२२१ ॥

222 तामिस्रं लोहशङ्कुञ् ...{Loading}...

तामिस्रं लोह-शङ्कुं च
महा-निरय-शाल्मली।
रौरवं कुड्मलं पूति-
मृत्तिकं काल-सूत्रकम् ॥ ३.२२२ ॥

223 सङ्घातं लोहितोदञ् ...{Loading}...

सङ्घातं लोहितोदं च
स-विषं सम्प्रपातनम्।
महा-नरक-काकोलं
सञ्जीवन-महा-पथम् ॥ ३.२२३ ॥

224 अवीचिम् अन्धतामिस्रं ...{Loading}...

अवीचिम् अन्ध-तामिस्रं
कुम्भी-पाकं तथैव च।
असि-पत्र-वनं चैव
तापनं चैकविंशकम् ॥ ३.२२४ ॥

225 महापातकजैर् घोरैर् ...{Loading}...

महा-पातकजैर् घोरैर्
उपपातकजैस् तथा।
अन्विता यान्त्य् अचरित-
प्रायश्चित्ता नराधमाः ॥ ३.२२५ ॥

226 प्रायश्चित्तैर् अपैत्य् ...{Loading}...

प्रायश्चित्तैर् अपैत्य् एनो
यद् अज्ञान-कृतं भवेत्।
कामतो व्यवहार्यस् तु
वचनाद् इह जायते ॥ ३.२२६ ॥

227 ब्रह्महा मद्यपः ...{Loading}...

ब्रह्महा मद्यपः स्तेनस्
तथैव गुरु-तल्पगः।
एते महा-पातकिनो
यश् च तैः सह संवसेत् ॥ ३.२२७ ॥

228 गुरूणाम् अध्यधिक्षेपो ...{Loading}...

गुरूणाम् अध्यधिक्षेपो
वेद-निन्दा सुहृद्-वधः।
ब्रह्म-हत्या-समं ज्ञेयम्
अधीतस्य च नाशनम् ॥ ३.२२८ ॥

229 निषिद्धभक्षणञ् जैह्म्यम् ...{Loading}...

निषिद्ध-भक्षणं जैह्म्यम्
उत्कर्षे च वचो ऽनृतम्।
रजस्वला-मुखास्वादः
सुरा-पान-समानि तु ॥ ३.२२९ ॥

230 अश्वरत्नमनुष्यस्त्री भूधेनुहरणन् ...{Loading}...

अश्व-रत्न-मनुष्य-स्त्री-
भू-धेनु-हरणं तथा।
निक्षेपस्य च सर्वं हि
सुवर्ण-स्तेय-सम्मितम् ॥ ३.२३० ॥

231 सखिभार्याकुमारीषु स्वयोनिष्व् ...{Loading}...

सखि-भार्या-कुमारीषु
स्व-योनिष्व् अन्त्यजासु च।
स-गोत्रासु सु-तन्त्रीषु
गुरु-तल्प-समं स्मृतम् ॥ ३.२३१ ॥

232 पितुः स्वसारम् ...{Loading}...

पितुः स्वसारं मातुश् च
मतुलानीं स्नुषाम् अपि।
मातुः सपत्नीं भगिनीम्
आचार्य-तनयां तथा ॥ ३.२३२ ॥

233 आचार्यपत्नीं स्वसुतां ...{Loading}...

आचार्य-पत्नीं स्व-सुतां
गच्छंस् तु गुरु-तल्पगः।
लिङ्गं छित्त्वा वधस्
तस्य स-कामायाः स्त्रिया अपि ॥ ३.२३३ ॥

234 गोवधो व्रात्यता ...{Loading}...

गो-वधो व्रात्यता स्तेयम्
ऋणानां चानपाक्रिया।
अनाहिताग्निता ऽपण्य-
विक्रयः परिदेवनम् ॥ ३.२३४ ॥

235 भृताद् अध्ययनादानं ...{Loading}...

भृताद् अध्ययनादानं
भृतकाध्यापनं तथा।
पारदार्यं पारिवित्त्यं
वार्धुष्यं लवण-क्रिया ॥ ३.२३५ ॥

236 स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ...{Loading}...

स्त्री-शूद्र-विट्-क्षत्र-वधो
निन्दितार्थोपजीवनम्।
नास्तिक्यं व्रत-लोपश् च
सुतानां चैव विक्रयः ॥ ३.२३६ ॥

237 धान्यकुप्यपशुस्तेयम् अयाज्यानाञ् ...{Loading}...

धान्य-कुप्य-पशु-स्तेयम्
अयाज्यानां च याजनम्।
पितृ-मातृ-सुत-त्यागस्
तडागाराम-विक्रयः ॥ ३.२३७ ॥

238 कन्यासन्दूषणञ् चैव ...{Loading}...

कन्या-सन्दूषणं चैव
परिविन्दक-याजनम्।
कन्या-प्रदानं तस्यैव
कौटिल्यं व्रत-लोपनम् ॥ ३.२३८ ॥

239 आत्मनो ऽर्थे ...{Loading}...

आत्मनो ऽर्थे क्रियारम्भो
मद्यप-स्त्री-निषेवणम्।
स्वाध्यायाग्नि-सुत-त्यागो
बान्धव-त्याग एव च ॥ ३.२३९ ॥

240 इन्धनार्थन् द्रुमछेदः ...{Loading}...

इन्धनार्थं द्रुम-छेदः
स्त्री-हिंसा ऽउषध-जीवनम्।
हिंस्र-यन्त्र-विधानं च
व्यसनान्य् आत्म-विक्रयः ॥ ३.२४० ॥

241 शूद्रप्रेष्यं हीनसख्यं ...{Loading}...

शूद्र-प्रेष्यं हीन-सख्यं
हीन-योनि-निषेवणम्।
तथैवानाश्रमे वासः
परान्न-परिपुष्टता ॥ ३.२४१ ॥

242 असच्छास्त्राधिगमनम् आकरेष्व् ...{Loading}...

असच्-छास्त्राधिगमनम्
आकरेष्व् अधिकारिता।
भार्याया विक्रयश् चैषाम्
एकैकम् उपपातकम् ॥ ३.२४२ ॥

243 शिरःकपाली ध्वजवान् ...{Loading}...

शिरः-कपाली ध्वजवान्
भिक्षाशी कर्म वेदयन्।
ब्रह्महा द्वादशाब्दानि
मित-भुक् शुद्धिम् आप्नुयात् ॥ ३.२४३ ॥

244 ब्राह्मणस्य परित्राणाद् ...{Loading}...

ब्राह्मणस्य परित्राणाद्
गवां द्वादशकस्य च।
तथा ऽश्वमेधावभृथ-
स्नानाद् वा शुद्धिम् आप्नुयात् ॥ ३.२४४ ॥

245 दीर्घतीव्रामयग्रस्तं ब्राह्मणङ् ...{Loading}...

दीर्घ-तीव्रामय-ग्रस्तं
ब्राह्मणं गाम् अथापि वा।
दृष्ट्वा पथि निरातङ्कं
कृत्वा तु ब्रह्महा शुचिः ॥ ३.२४५ ॥

246 आनीय विप्रसर्वस्वं ...{Loading}...

आनीय विप्र-सर्वस्वं
हृतं घातित एव वा।
तन्-निमित्तं क्षतः शस्त्रैर्
जीवन्न् अपि विशुध्यति ॥ ३.२४६ ॥

247 लोमभ्यः स्वाहेत्य् ...{Loading}...

लोमभ्यः स्वाहेत्य् एवं हि
लोम-प्रभृति वै तनुम्।
मज्जान्तां जुहुयाद् वा ऽपि
मन्त्रैर् एभिर् यथा-क्रमम् ॥ ३.२४७ ॥

248 सङ्ग्रामे वा ...{Loading}...

सङ्ग्रामे वा हतो लक्ष्य-
भूतः शुद्धिम् अवाप्नुयात्।
मृत-कल्पः प्रहारार्तो
जीवन्न् अपि विशुध्यति ॥ ३.२४८ ॥

249 अरण्ये नियतो ...{Loading}...

अरण्ये नियतो जप्त्वा
त्रिर् वै वेदस्य संहिताम्।
शुध्येत वा मिताशित्वात्
प्रतिस्रोतः सरस्वतीम् ॥ ३.२४९ ॥

250 पात्रे धनं ...{Loading}...

पात्रे धनं वा पर्याप्तं
दत्त्वा शुद्धिम् अवाप्नुयात्।
आदातुश् च विशुद्ध्य्-अर्थम्
इष्टैर् वैश्वानरी स्मृता ॥ ३.२५० ॥

251 यागस्थक्षत्रविड्घाती चरेद् ...{Loading}...

यागस्थ-क्षत्र-विड्-घाती
चरेद् ब्रह्महणि व्रतम्।
गर्भहा च यथा-वर्णं
तथ +आत्रेयी-निषूदकः ॥ ३.२५१ ॥

252 चरेद् व्रतम् ...{Loading}...

चरेद् व्रतम् अहत्वा ऽपि
घातार्थं चेत् समागतः।
द्वि-गुणं सवनस्थे तु
ब्राह्मणे व्रतम् आदिशेत् ॥ ३.२५२ ॥

253 सुराम्बुघृतगोमूत्र पयसाम् ...{Loading}...

सुराम्बु-घृत-गो-मूत्र-
पयसाम् अग्नि-सन्निभम्।
सुरापो ऽन्यतमं पीत्वा
मरणाच् छुद्धिम् ऋच्छति ॥ ३.२५३ ॥

254 वालवासा जटी ...{Loading}...

वाल-वासा जटी वा ऽपि
ब्रह्म-हत्या-व्रतं चरेत्।
पिण्याकं वा कणान् वा ऽपि
भक्षयेत् त्रि-समा निशि ॥ ३.२५४ ॥

255 अज्ञानात् तु ...{Loading}...

अज्ञानात् तु सुरां पीत्वा
रेतो विण्-मूत्रम् एव च।
पुनः संस्कारम् अर्हन्ति
त्रयो वर्णा द्विजातयः ॥ ३.२५५ ॥

256 पतिलोकन् न ...{Loading}...

पति-लोकं न सा याति
ब्राह्मणी या सुरां पिबेत्।
इहैव सा शुनी गृध्री
सूकरी चोपजायते ॥ ३.२५६ ॥

257 ब्राह्मणस्वर्णहारी तु ...{Loading}...

ब्राह्मण-स्वर्ण-हारी तु
राज्ञे मुसलम् अर्पयेत्।
स्व-कर्म व्याख्यायंस् तेन
हतो मुक्तो ऽपि वा-शुचिः ॥ ३.२५७ ॥

258 अनिवेद्य नृपे ...{Loading}...

अनिवेद्य नृपे शुध्येत्
सुराप-व्रतम् आचरन्।
आत्म-तुल्यं सुवर्णं वा
दद्याद् वा विप्र-तुष्टि-कृत् ॥ ३.२५८ ॥

259 तप्ते ऽयःशयने ...{Loading}...

तप्ते ऽयः-शयने सार्धम्
आयस्या योषिता स्वपेत्।
गृहीत्वोत्कृत्य[उत्कृत्त्य] वृषणौ
नैरृत्यां चोत्सृजेत् तनुम् ॥ ३.२५९ ॥

260 प्राजापत्यञ् चरेत् ...{Loading}...

प्राजापत्यं चरेत् कृच्छ्रं
समा वा गुरु-तल्पगः।
चान्द्रायणं वा त्रीन् मासान्
अभ्यसेद् वेद-संहिताम् ॥ ३.२६० ॥

261 एभिस् तु ...{Loading}...

एभिस् तु संवसेद् यो वै
वत्सरं सो ऽपि तत्-समः।
कन्यां समुद्वहेद् एषां
सोपवासाम् अकिञ्चनाम् ॥ ३.२६१ ॥

262 चान्द्रायणञ् चरेत् ...{Loading}...

चान्द्रायणं चरेत् सर्वान्
अवकृष्टान् निहत्य तु।
शूद्रो ऽधिकार-हीनो-पि
कालेनानेन शुध्यति ॥ ३.२६२ ॥

263 पञ्चगव्यम् पिबेद् ...{Loading}...

पञ्च-गव्यं पिबेद् गोघ्नो
मासम् आसीत संयतः।
गोष्ठे-शयो गो-नुगामी
गो-प्रदानेन शुध्यति ॥ ३.२६३ ॥

264 कृच्छ्रञ् चैवातिकृच्छ्रञ् ...{Loading}...

कृच्छ्रं चैवातिकृच्छ्रं च
चरेद् वा ऽपि समाहितः।
दद्यात् त्रि-रात्रं चोपोष्य
वृषभैकादशास् तु गाः ॥ ३.२६४ ॥

265 उपपातकशुद्धिः स्याद् ...{Loading}...

उपपातक-शुद्धिः स्याद्
एवं चान्द्रायणेन वा।
पयसा वा ऽपि मासेन
पराकेणाथ वा पुनः ॥ ३.२६५ ॥

266 ऋषभैकसहस्रा गा ...{Loading}...

ऋषभैकसहस्रा गा
दद्यात् क्षत्र-वधे पुमान्।
ब्रह्म-हत्या-व्रतं वा ऽपि
वत्सर-त्रितयं चरेत् ॥ ३.२६६ ॥

267 वैश्यहा ऽब्दञ् ...{Loading}...

वैश्य-हा ऽब्दं चरेद् एतद्
दद्याद् वैकशतं गवाम्।
षण्-मासाच् छूद्रहा ऽप्य् एतद्
धेनुर् दद्याद् दशाथ वा ॥ ३.२६७ ॥

268 दुर्वृत्तब्रह्मविट्क्षत्र शूद्रयोषाः ...{Loading}...

दुर्वृत्त-ब्रह्म-विट्-क्षत्र-
शूद्र-योषाः प्रमाप्य तु।
दृतिं धनुर् बस्तम् अविं
क्रमाद् दद्याद् विशुद्धये ॥ ३.२६८ ॥

269 अप्रदुष्टां स्त्रियं ...{Loading}...

अप्रदुष्टां स्त्रियं हत्वा
शूद्र-हत्या-व्रतं चरेत्।
अस्थिमतां सहस्रं तु
तथा ऽनस्थिमताम् अनः ॥ ३.२६९ ॥

270 मार्जारगोधानकुल मण्डूकांश् ...{Loading}...

मार्जार-गोधा-नकुल-
मण्डूकांश् च पतत्रिणः।
हत्वा त्र्यहं पिबेत् क्षीरं
कृच्छ्रं वा पादिकं चरेत् ॥ ३.२७० ॥

271 गजे नीलवृषाः ...{Loading}...

गजे नील-वृषाः पञ्च
शुके वत्सो द्वि-हायनः।
खराज-मेषेषु वृषो
देयः क्रौञ्चे त्रि-हायनः ॥ ३.२७१ ॥

272 हंसश्येनकपिक्रव्याज् जलस्थलशिखण्डिनः ...{Loading}...

हंस-श्येन-कपि-क्रव्याज्
जल-स्थल-शिखण्डिनः।
भासं च हत्वा दद्याद् गाम्
अक्रव्यादस् तु वत्सिकाम् ॥ ३.२७२ ॥

273 उरगेष्व् आयसो ...{Loading}...

उरगेष्व् आयसो दण्डः
पण्डके त्रपु सीसकम्।
कोले घृत-घटो देय
उष्ट्रे गुञ्जा हये ऽंशुकम् ॥ ३.२७३ ॥

274 तित्तिरौ तु ...{Loading}...

तित्तिरौ तु तिल-द्रोणं
गजादीनाम् अशक्नुवन्।
दानं दातुं चरेत् कृच्छ्रम्
एकैकस्य विशुद्धये ॥ ३.२७४ ॥

275 फलपुष्पान्नरसज सत्त्वघाते ...{Loading}...

फल-पुष्पान्न-रसज-
सत्त्व-घाते घृताशनम्।
किञ्चित् सास्थि-वधे देयं
प्राणायामस् त्व् अनस्थिके ॥ ३.२७५ ॥

276 वृक्षगुल्मलतावीरु च्छेदने ...{Loading}...

वृक्ष-गुल्म-लता-वीरु-
च्छेदने जप्यम् ऋक्-शतम्।
स्याद् ओषधि-वृथा-छेदे
क्षीराशी गो-नुगो दिनम् ॥ ३.२७६ ॥

277 पुंश्चलीवानरखरैर् दष्ट[दष्टः?]श्वोष्ट्रादिवायसैः ...{Loading}...

पुंश्चली-वानर-खरैर्
दष्ट[दष्टः?]-श्वोष्ट्रादि-वायसैः।
प्राणायामं जले कृत्वा
घृतं प्राश्य विशुध्यति ॥ ३.२७७ ॥

278 यन् मे ...{Loading}...

यन् मे ऽद्य रेत इत्य्-आभ्यां
स्कन्नं रेतो ऽभिमन्त्रयेत्।
स्तनान्तरं भ्रुवोर् मध्यं
तेनानामिकया स्पृशेत् ॥ ३.२७८ ॥

279 मयि तेज ...{Loading}...

मयि तेज इति छायां
स्वां दृष्ट्वा ऽम्बु-गतां जपेत्।
सावित्रीम् अशुचौ दृष्टे
चापल्ये चानृते ऽपि च ॥ ३.२७९ ॥

280 अवकीर्णी भवेद् ...{Loading}...

अवकीर्णी भवेद् गत्वा
ब्रह्म-चारी तु योषितम्।
गर्दभं पशुम् आलभ्य
नैरृतं स विशुध्यति ॥ ३.२८० ॥

281 भैक्षाग्निकार्ये त्यक्त्वा ...{Loading}...

भैक्षाग्नि-कार्ये त्यक्त्वा तु
सप्त-रात्रम् अनातुरः।
कामावकीर्ण इत्य् आभ्यां
जुहुयाद् आहुति-द्वयम् ॥ ३.२८१ ॥

282 उपस्थानन् ततः ...{Loading}...

उपस्थानं ततः कुर्यात्
सं मा सिञ्चन्त्व् अनेन तु।
मधु-मांसाशने कार्यः
कृच्छ्रः शेष-व्रतानि च ॥ ३.२८२ ॥

283 प्रतिकूलङ् गुरोः ...{Loading}...

प्रतिकूलं गुरोः कृत्वा
प्रसाद्यैव विशुध्यति।
कृच्छ्र-त्रयं गुरुः कुर्यान्
म्रियते प्रहितो यदि ॥ ३.२८३ ॥

283 क्रियमाणोपकारे तु ...{Loading}...

क्रियमाणोपकारे तु
मृते विप्रे न पातकम्।
विपाके गो-वृषाणां तु
भेषजाग्नि-क्रियासु च ॥ ३.२८३: ॥

मिथ्याभिशंसिनो दोषो
द्विः समो भूत-वादिनः।
मिथ्याभिशस्त-दोषं च
समादत्ते मृषा वदन् ॥ ३.२८४ ॥

285 महापापोपपापाभ्यां यो ...{Loading}...

महा-पापोपपापाभ्यां यो
ऽभिशंसेन् मृषा परम्।
अब्-भक्षो मासम् आसीत
स जापी नियतेन्द्रियः ॥ ३.२८५ ॥

286 अभिशस्तो मृषा ...{Loading}...

अभिशस्तो मृषा कृच्छ्रं
चरेद् आग्नेयम् एव वा।
निर्वपेत् तु पुरोडाशं
वायव्यं पशुम् एव वा ॥ ३.२८६ ॥

287 अनियुक्तो भ्रातृजायां ...{Loading}...

अनियुक्तो भ्रातृ-जायां
गच्छंश् चान्द्रायणं चरेत्।
त्रि-रात्रान्ते घृतं प्राश्य
गत्वोदक्यां विशुध्यति ॥ ३.२८७ ॥

288 त्रीन् कृच्छ्रान् ...{Loading}...

त्रीन् कृच्छ्रान् आचरेद् व्रात्य-
याजको ऽभिचरन्न् अपि।
वेद-प्लावी यवाश्य् अब्दं
त्यक्त्वा च शरणागतम् ॥ ३.२८८ ॥

289 गोष्ठे वसन् ...{Loading}...

गोष्ठे वसन् ब्रह्म-चारी
मासम् एकं पयो-व्रतम्।
गायत्री-जप्य-निरतः
शुध्यते ऽसत्-प्रतिग्रहात् ॥ ३.२८९ ॥

290 प्राणायामी जले ...{Loading}...

प्राणायामी जले स्नात्वा
खर-यानोष्ट्र-यान-गः।
नग्नः स्नात्वा च भुक्त्वा च
गत्वा चैव दिवा स्त्रियम् ॥ ३.२९० ॥

291 गुरुं हुङ्कृत्य ...{Loading}...

गुरुं हुं-कृत्य त्वं-कृत्य
विप्रं निर्जित्य वादतः।
बद्ध्वा वा वाससा क्षिप्रं
प्रसाद्योपवसेद् दिनम् ॥ ३.२९१ ॥

292 विप्रदण्डोद्यमे कृच्छ्रस् ...{Loading}...

विप्र-दण्डोद्यमे कृच्छ्रस् त्व्
अति-कृच्छ्रो निपातने।
कृच्छ्राति-कृच्छ्रो ऽसृक्-पाते
कृच्छ्रो ऽभ्यन्तर-शोणिते ॥ ३.२९२ ॥

293 देशङ् कालं ...{Loading}...

देशं कालं वयः शक्तिं
पापं चावेक्ष्य यत्नतः।
प्रायश्चित्तं प्रकल्प्यं स्याद्
यत्र चोक्ता न निष्कृतिः ॥ ३.२९३ ॥

294 दाषीकुम्भम् बहिर्ग्रामान् ...{Loading}...

दाषी-कुम्भं बहिर्-ग्रामान्
निनयेरन् स्व-बान्धवाः।
पतितस्य बहिः कुर्युः
सर्व-कार्येषु चैव तम् ॥ ३.२९४ ॥

295 चरितव्रत आयाते ...{Loading}...

चरित-व्रत आयाते
निनयेरन् नवं घटम्।
जुगुप्सेरन् न चाप्य् एनं
संवसेयुश् च सर्वशः ॥ ३.२९५ ॥

296 पतितानाम् एष ...{Loading}...

पतितानाम् एष एव
विधिः स्त्रीणां प्रकीर्तितः।
वासो गृहान्तके देयम्
अन्नं वासः स-रक्षणम् ॥ ३.२९६ ॥

297 नीचाभिगमनङ् गर्भ ...{Loading}...

नीचाभिगमनं गर्भ-
पातनं भर्तृ-हिंसनम्।
विशेष-पतनीयानि
स्त्रीमाम् एतान्य् अपि ध्रुवम् ॥ ३.२९७ ॥

298 शरणागतबालस्त्री हिंसकान् ...{Loading}...

शरणागत-बाल-स्त्री-
हिंसकान् संवसेन् न तु।
चीर्ण-व्रतान् अपि सतः
कृत-घ्न-सहितान् इमान् ॥ ३.२९८ ॥

299 घटे ऽपवर्जिते ...{Loading}...

घटे ऽपवर्जिते ज्ञाति-
मध्यस्थो यवसं गवाम्।
स दद्यात् प्रथमं गोभिः
सत्कृतस्य हि सत्क्रिया ॥ ३.२९९ ॥