४ यति-धर्म-प्रकरणम्

056 वनाद् गृहाद् ...{Loading}...

वनाद् गृहाद् वा कृत्वेष्टिं
सार्ववेदस-दक्षिणाम्।
प्राजापत्यां तद्-अन्ते तान्
अग्नीन् आरोप्य च+आत्मनि ॥ ३.५६ ॥

057 अधीतवेदो जपकृत् ...{Loading}...

अधीत-वेदो जप-कृत्
पुत्रवान् अन्नदो ऽग्निमान्।
शक्त्या च यज्ञ-कृन् मोक्षे
मनः कुर्यात् तु नान्यथा ॥ ३.५७ ॥

058 सर्वभूतहितः शान्तस् ...{Loading}...

सर्व-भूत-हितः शान्तस्
त्रि-दण्डी स-कमण्डलुः।
एकारामः परिव्रज्य
भिक्षार्थी ग्रामम् आश्रयेत् ॥ ३.५८ ॥

059 अप्रमत्तश् चरेद् ...{Loading}...

अप्रमत्तश् चरेद् भैक्षं
सायाह्ने ऽनभिलक्षितः।
रहिते भिक्षुकैर् ग्रामे
यात्रा-मात्रम् अलोलुपः ॥ ३.५९ ॥

060 यतिपात्राणि मृद्वेणु ...{Loading}...

यति-पात्राणि मृद्-वेणु-
दार्व्-अलाबु-मयानि च।
सलिलं शुद्धिर् एतेषां
गो-वालैश् चावघर्षणम् ॥ ३.६० ॥

061 सन्निरुध्येन्द्रियग्रामं रागद्वेषौ ...{Loading}...

सन्निरुध्येन्द्रिय-ग्रामं
राग-द्वेषौ प्रहाय च।
भयं हित्वा च भूतानाम्
अमृती-भवति द्विजः ॥ ३.६१ ॥

062 कर्तव्य +आशयशुद्धिस् ...{Loading}...

कर्तव्य +आशय-शुद्धिस् तु
भिक्षुकेण विशेषतः।
ज्ञानोत्पत्ति-निमित्तत्वात्
स्वातन्त्र्य-करणाय च ॥ ३.६२ ॥

063 अवेक्ष्या गर्भवासाश् ...{Loading}...

अवेक्ष्या गर्भ-वासाश् च
कर्मजा गतयस् तथा।
आधयो व्याधयः क्लेशा
जरा रूप-विपर्ययः ॥ ३.६३ ॥

064 भवो जातिसहस्रेषु ...{Loading}...

भवो जाति-सहस्रेषु
प्रियाप्रिय-विपर्ययः।
ध्यान-योगेन सम्पश्येत्
सूक्ष्म आत्म +आत्मनि स्थितः ॥ ३.६४ ॥

065 न+आश्रमः कारणन् ...{Loading}...

न+आश्रमः कारणं धर्मे
क्रियमाणो भवेद् हि सः।
अतो यद् आत्मनो ऽपथ्यं
परेषां न तद् आचरेत् ॥ ३.६५ ॥

066 सत्यम् अस्तेयम् ...{Loading}...

सत्यम् अस्तेयम् अक्रोधो
ह्रीः शौचं धीर् धृतिर् दमः।
संयतेन्द्रियता विद्या
धर्मः सर्व उदाहृतः ॥ ३.६६ ॥

067 निःसरन्ति यथा ...{Loading}...

निःसरन्ति यथा लोह-
पिण्डात् तप्तात् स्फुलिङ्गकाः।
सकाशाद् आत्मनस् तद्वद्
आत्मानः प्रभवन्ति हि ॥ ३.६७ ॥

068 तत्र+आत्मा हि ...{Loading}...

तत्र+आत्मा हि स्वयं किञ्चित्
कर्म किञ्चित् स्वभावतः।
करोति किञ्चिद् अभ्यासाद्
धर्माधर्मोभयात्मकम् ॥ ३.६८ ॥

069 निमित्तम् अक्षरः ...{Loading}...

निमित्तम् अक्षरः
कर्ता बोद्धा गुणी वशी।
अजः शरीर-ग्रहणात्
स जात इति कीर्त्यते ॥ ३.६९ ॥

070 सर्गादौ स ...{Loading}...

सर्गादौ स यथाकाशं
वायुं ज्योतिर् जलं महीम्।
सृजत्य् एकोत्तर-गुणांस्
तथ +आदत्ते भवन्न् अपि ॥ ३.७० ॥

071 आहुत्य +आप्यायते ...{Loading}...

आहुत्य +आप्यायते सूर्यः
सूर्याद् वृष्टिर् अथौषधिः।
तद् अन्नं रस-रूपेण
शुक्रत्वम् अधिगच्छति ॥ ३.७१ ॥

072 स्त्रीपुंसयोस् तु ...{Loading}...

स्त्री-पुंसयोस् तु संयोगे
विशुद्धे शुक्र-शोणिते।
पञ्च-धातून् स्वयं षष्ठ
आदत्ते युगपत् प्रभुः ॥ ३.७२ ॥

073 इन्द्रियाणि मनः ...{Loading}...

इन्द्रियाणि मनः प्राणो
ज्ञानम् आयुः सुखं धृतिः।
धारणा प्रेरणं दुःखम्
इच्छा ऽहङ्कार एव च ॥ ३.७३ ॥

074 प्रयत्न आकृतिर् ...{Loading}...

प्रयत्न आकृतिर् वर्णः
स्वर-द्वेषौ भवाभवौ।
तस्यैतद् आत्मजं सर्वम्
अनादेर् आदिम् इच्छतः ॥ ३.७४ ॥

075 प्रथमे मासि ...{Loading}...

प्रथमे मासि सङ्क्लेद-
भूतो धातु-विमूर्च्छितः।
मास्य् अर्बुदं द्वितीये तु
तृतीये ऽङ्गेन्द्रियैर् युतः ॥ ३.७५ ॥

076 आकाशाल् लाघवं ...{Loading}...

आकाशाल् लाघवं सौक्ष्म्यं
शब्दं श्रोत्रं बलादिकम्।
वायोश् च स्पर्शनं चेष्टां
व्यूहनं रौक्ष्यम् एव च ॥ ३.७६ ॥

077 पित्तात् तु ...{Loading}...

पित्तात् तु दर्शनं पक्तिम्
औष्ण्यं रूपं प्रकाशिताम्।
रसात् तु रसनं शैत्यं
स्नेहं क्लेदं समार्दवम् ॥ ३.७७ ॥

078 भूमेर् गन्धन् ...{Loading}...

भूमेर् गन्धं तथा घ्राणं
गौरवं मूर्तिम् एव च।
आत्मा गृह्णात्य् अजः सर्वं
तृतीये स्पन्दते ततः ॥ ३.७८ ॥

079 दौहृदस्याप्रदानेन गर्भो ...{Loading}...

दौहृदस्याप्रदानेन
गर्भो दोषम् अवाप्नुयात्।
वैरूप्यं मरणं वा ऽपि
तस्मात् कार्यं प्रियं स्त्रियाः ॥ ३.७९ ॥

080 स्थैर्यञ् चतुर्थे ...{Loading}...

स्थैर्यं चतुर्थे त्व् अङ्गानां
पञ्चमे शोणितोद्भवः।
षष्ठे बलस्य वर्णस्य
नख-रोम्णां च सम्भवः ॥ ३.८० ॥

081 मनश्चैतन्ययुक्तो ऽसौ ...{Loading}...

मनश्-चैतन्य-युक्तो ऽसौ
नाडी-स्नायु-शिरा-युतः।
सप्तमे चाष्टमे चैव
त्वङ्-मांस-स्मृतिमान् अपि ॥ ३.८१ ॥

082 पुनर् धात्रीम् ...{Loading}...

पुनर् धात्रीं पुनर् घर्मम्
ओजस् तस्य प्रधावति।
अष्टमे मास्य् अतो गर्भो
जातः प्राणैर् वियुज्यते ॥ ३.८२ ॥

083 नवमे दशमे ...{Loading}...

नवमे दशमे वा ऽपि
प्रबलैः सूति-मारुतैः।
निःसार्यते बाण इव
यन्त्र-च्छिद्रेण स-ज्वरः ॥ ३.८३ ॥

084 तस्य षोढा ...{Loading}...

तस्य षोढा शरीराणि
शट् त्वचो धारयन्ति च।
सड्-अङ्गानि तथा ऽस्थ्नां च
सह षष्ट्या शत-त्रयम् ॥ ३.८४ ॥

085 स्थालैः सह ...{Loading}...

स्थालैः सह चतुः-षष्टिर्
दन्ता वै विंशतिर् नखाः।
पाणि-पाद-शलाकाश् च
तेषां स्थान-चतुष्टयम् ॥ ३.८५ ॥

086 षष्ट्य्अङ्गुलीनान् द्वे ...{Loading}...

षष्ट्य्-अङ्गुलीनां द्वे पार्ष्ण्योर्
गुल्फेषु च चतुष्टयम्।
चत्वार्य्-अरत्निकास्थीनि
जङ्घयोस् तावद् एव तु ॥ ३.८६ ॥

087 द्वे द्वे ...{Loading}...

द्वे द्वे जानु-कपोलोरु-
फलकांस-समुद्भवे।
अक्ष-तालूषके श्रोणी-
फलके च विनिर्दिशेत् ॥ ३.८७ ॥

088 भगास्थ्य् एकन् ...{Loading}...

भगास्थ्य् एकं तथा पृष्ठे
चत्वारिंशच् च पञ्च च।
ग्रीवा पञ्चदशास्थिः स्याज्
जत्र्व् एकैकं तथा हनुः ॥ ३.८८ ॥

089 तन्मूले द्वे ...{Loading}...

तन्-मूले द्वे ललाटाक्षि-
गण्डे नासा घनास्थिका।
पार्श्वकाः स्थालकैः सार्धम्
अर्बुदैश् च द्वि-सप्ततिः ॥ ३.८९ ॥

090 द्वौ शङ्खकौ ...{Loading}...

द्वौ शङ्खकौ कपालानि
चत्वारि शिरसस् तथा।
उरः सप्त-दशास्थीनि
पुरुषस्यास्थि-सङ्ग्रहः ॥ ३.९० ॥

091 गन्धरूपरसस्पर्श शब्दाश् ...{Loading}...

गन्ध-रूप-रस-स्पर्श-
शब्दाश् च विषयाः स्मृताः।
नासिका लोचने जिह्वा त्वक्
श्रोत्रं च इन्द्रियाणि च ॥ ३.९१ ॥

092 हस्तौ पायुर् ...{Loading}...

हस्तौ पायुर् उपस्थं च
जिह्वा पादौ च पञ्च वै।
कर्मेन्द्रियाणि जानीयान्
मनश् चैवोभयात्मकम् ॥ ३.९२ ॥

093 नाभिर् ओजो ...{Loading}...

नाभिर् ओजो गुदं शुक्रं
शोणितं शङ्खकौ तथा।
मूर्धांस-कण्ठ-हृदयं
प्राणस्य+आयतनानि तु ॥ ३.९३ ॥

094 वपा वसा ...{Loading}...

वपा वसा ऽवहननं
नाभिः क्लोम यकृत् प्लिहा।
क्षुद्रान्त्रं वृक्ककौ बस्तिः
पुरीषाधानम् एव च ॥ ३.९४ ॥

095 आमाशयो ऽथ ...{Loading}...

आमाशयो ऽथ हृदयं
स्थूलान्त्रं गुद एव च।
उदरं च गुदौ कोष्ठ्यौ
विस्तारो ऽयम् उदाहृतः ॥ ३.९५ ॥

096 कनीनिके चाक्षिकूटे ...{Loading}...

कनीनिके चाक्षि-कूटे
शष्कुली कर्ण-पत्रकौ।
कर्णौ शङ्खौ भ्रुवौ दन्त-
वेष्टाव् ओष्ठौ ककुन्दरे ॥ ३.९६ ॥

097 वङ्क्षणौ वृषणौ ...{Loading}...

वङ्क्षणौ वृषणौ वृक्कौ
श्लेष्म-सङ्घातजौ स्तनौ।
उपजिह्वा-स्फिजौ बाहू
जङ्घोरुषु च पिण्डिका ॥ ३.९७ ॥

098 तालूदरम् बस्तिशीर्षं ...{Loading}...

तालूदरं बस्ति-शीर्षं
चिबुके गल-शुण्डिके।
अवटश् चैवम् एतानि
स्थानान्य् अत्र शरीरके ॥ ३.९८ ॥

099 अक्षिकर्णचतुष्कञ् च ...{Loading}...

अक्षि-कर्ण-चतुष्कं च
पद्-धस्त-हृदयानि च।
नव छिद्राणि तान्य् एव
प्राणस्य+आयतनानि तु ॥ ३.९९ ॥

100 शिराः शतानि ...{Loading}...

शिराः शतानि सप्तैव
नव स्नायु-शतानि च।
धमनीनां शते द्वे तु
पञ्च पेशी-शतानि च ॥ ३.१०० ॥

101 एकोनत्रिंशल्लक्षाणि तथा ...{Loading}...

एकोन-त्रिंशल्-लक्षाणि
तथा नव शतानि च।
षट्-पञ्चाशच् च जानीत
शिरा धमनि-सञ्ज्ञिताः ॥ ३.१०१ ॥

102 त्रयो लक्षास् ...{Loading}...

त्रयो लक्षास् तु विज्ञेयाः
श्मश्रु-केशाः शरीरिणाम्।
सप्तोत्तरं मर्म-शतं
द्वे च सन्धि-शते तथा ॥ ३.१०२ ॥

103 रोम्णाङ् कोट्यस् ...{Loading}...

रोम्णां कोट्यस् तु पञ्चाशच्
चतस्रः कोट्य एव च।
सप्त-षष्टिस् तथा लक्षाः
सार्धाः स्वेदायनैः सह ॥ ३.१०३ ॥

104 वायवीयैर् विगण्यन्ते ...{Loading}...

वायवीयैर् विगण्यन्ते
विभक्ताः परमाणवः।
यद्य् अप्य् एको ऽनुवेत्त्य् एषां
भावनां चैव संस्थितिम् ॥ ३.१०४ ॥

105 रसस्य नव ...{Loading}...

रसस्य नव विज्ञेया
जलस्याञ्जलयो दश।
सप्तैव तु पुरीषस्य
रक्तस्याष्टौ प्रकीर्तिताः ॥ ३.१०५ ॥

106 षट् श्लेष्मा ...{Loading}...

षट् श्लेष्मा पञ्च पित्तं तु
चत्वारो मूत्रम् एव च।
वसा त्रयो द्वौ तु मेदो
मज्जैकोर्ध्वम्[अर्धम्?] तु मस्तके ॥ ३.१०६ ॥

107 श्लेष्मौजसस् तावद् ...{Loading}...

श्लेष्मौजसस् तावद् एव
रेतसस् तावद् एव तु।
इत्य् एतद् अस्थिरं वर्ष्म
यस्य मोक्षाय कृत्य् असौ ॥ ३.१०७ ॥

108 द्वासप्ततिसहस्राणि हृदयाद् ...{Loading}...

द्वासप्तति-सहस्राणि
हृदयाद् अभिनिःसृताः।
हिताहिता नाम नाड्यस्
तासां मध्ये शशि-प्रभम् ॥ ३.१०८ ॥

109 मण्डलन् तस्य ...{Loading}...

मण्डलं तस्य मध्यस्थ
आत्मा दीप इवाचलः।
स ज्ञेयस् तं विदित्वेह
पुनर् आजायते न तु ॥ ३.१०९ ॥

110 ज्ञेयञ् च+आरण्यकम् ...{Loading}...

ज्ञेयं च+आरण्यकम् अहं
यद् आदित्याद् अवाप्तवान्।
योग-शास्त्रं च मत्-प्रोक्तं
ज्ञेयं योगम् अभीप्सता ॥ ३.११० ॥

111 अनन्यविषयङ् कृत्वा ...{Loading}...

अनन्य-विषयं कृत्वा
मनो-बुद्धि-स्मृतीन्द्रियम्।
ध्येय आत्मा स्थितो यो ऽसौ
हृदये दीपवत् प्रभुः ॥ ३.१११ ॥

112 यथाविधानेन पठन् ...{Loading}...

यथा-विधानेन पठन्
साम-गायम् अविच्युतम्।
सावधानस् तद् अभ्यासात्
परं ब्रह्माधिगच्छति ॥ ३.११२ ॥

113 अपरान्तकम् उल्लोप्यं ...{Loading}...

अपरान्तकम् उल्लोप्यं
मद्रकं प्रकरीं तथा।
औवेणकं सरो-बिन्दुम्
उत्तरं गीतकानि च ॥ ३.११३ ॥

114 ऋग्गाथा पाणिका ...{Loading}...

ऋग्-गाथा पाणिका दक्ष-
विहिता ब्रह्म-गीतिका।
गेयम् एतत् तद्-अभ्यास-
करणान् मोक्ष-सञ्ज्ञितम् ॥ ३.११४ ॥

115 वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ...{Loading}...

वीणा-वादन-तत्त्वज्ञः
श्रुति-जाति-विशारदः।
तालज्ञश् चाप्रयासेन
मोक्ष-मार्गं नियच्छति ॥ ३.११५ ॥

116 गीतज्ञो यदि ...{Loading}...

गीतज्ञो यदि योगेन
न+आप्नोति परमं पदम्।
रुद्रस्यानुचरो भूत्वा
तेनैव सह मोदते ॥ ३.११६ ॥

117 अनादिर् आत्मा ...{Loading}...

अनादिर् आत्मा कथितस्
तस्य+आदिस् तु शरीरकम्।
आत्मनस् तु जगत् सर्वं
जगतश् च+आत्म-सम्भवः ॥ ३.११७ ॥

118 कथम् एतद् ...{Loading}...

कथम् एतद् विमुह्यामः
स-देवासुर-मानवम्।
जगद्-उद्भूतम् आत्मा च
कथं तस्मिन् वदस्व नः ॥ ३.११८ ॥

119 मोहजालम् अपास्येह ...{Loading}...

मोह-जालम् अपास्येह
पुरुषो दृश्यते हि यः।
सहस्र-कर-पन्-नेत्रः
सूर्य-वर्चाः सहस्रकः ॥ ३.११९ ॥

120 स आत्मा ...{Loading}...

स आत्मा चैव यज्ञश् च
विश्व-रूपः प्रजापतिः।
विराजः सो ऽन्न-रूपेण
यज्ञत्वम् उपगच्छति ॥ ३.१२० ॥

121 यो द्रव्यदेवतात्याग ...{Loading}...

यो द्रव्य-देवता-त्याग-
सम्भूतो रस उत्तमः।
देवान् सन्तर्प्य स रसो
यजमानं फलेन च ॥ ३.१२१ ॥

122 संयोज्य वायुना ...{Loading}...

संयोज्य वायुना सोमं
नीयते रश्मिभिस् ततः।
ऋग्-यजुः साम-विहितं
सौरं धामोपनीयते ॥ ३.१२२ ॥

123 खमण्डलाद् असौ ...{Loading}...

ख-मण्डलाद् असौ सूर्यः
सृजत्य् अमृतम् उत्तमम्।
यज् जन्म सर्व-भूतानाम्
अशनानशनात्मनाम् ॥ ३.१२३ ॥

124 तस्माद् अन्नात् ...{Loading}...

तस्माद् अन्नात् पुनर् यज्ञः
पुनर् अन्नं पुनः क्रतुः।
एवम् एतद् अनाद्य्-अन्तं
चक्रं सम्परिवर्तते ॥ ३.१२४ ॥

125 अनादिर् आत्मा ...{Loading}...

अनादिर् आत्मा सम्भूतिर्
विद्यते नान्तर्-आत्मनः।
समवायी तु पुरुषो
मोहेच्छा-द्वेष-कर्मजः ॥ ३.१२५ ॥

126 सहस्रात्मा मया ...{Loading}...

सहस्रात्मा मया यो व[वा?]
आदि-देव उदाहृतः।
मुख-बाहूरु-पज्जाः स्युस्
तस्य वर्णा यथा-क्रमम् ॥ ३.१२६ ॥

127 पृथिवी पादतस् ...{Loading}...

पृथिवी पादतस् तस्य
शिरसो द्यौर् अजायत।
नस्तः प्राणा दिशः श्रोत्रात्
स्पर्शाद् वायुर् मुखाच् छिखी ॥ ३.१२७ ॥

128 मनसश् चन्द्रमा ...{Loading}...

मनसश् चन्द्रमा जातश्
चक्षुषश् च दिवाकरः।
जघनाद् अन्तरिक्षं च
जगच् च स-चराचरम् ॥ ३.१२८ ॥

129 यद्य् एवं ...{Loading}...

यद्य् एवं स कथं ब्रह्मन्
पाप-योनिषु जायते।
ईश्वरः स कथं भावैर्
अनिष्टैः सम्प्रयुज्यते ॥ ३.१२९ ॥

130 करणैर् अन्वितस्यापि ...{Loading}...

करणैर् अन्वितस्यापि
पूर्वं ज्ञानं कथं च न।
वेत्ति सर्व-गतां कस्मात्
सर्वगो ऽपि न वेदनाम् ॥ ३.१३० ॥

131 अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ...{Loading}...

अन्त्य-पक्षि-स्थावरतां
मनो-वाक्-काय-कर्मजैः।
दोषैः प्रयाति जीवो ऽयं
भवं योनि-शतेषु च ॥ ३.१३१ ॥

132 अनन्ताश् च ...{Loading}...

अनन्ताश् च यथा भावाः
शरीरेषु शरीरिणाम्।
रूपाण्य्-अपि तथैवेह
सर्व-योनिषु देहिनाम् ॥ ३.१३२ ॥

133 विपाकः कर्मणाम् ...{Loading}...

विपाकः कर्मणां प्रेत्य
केषाञ्चिद् इह जायते।
इह वा ऽमुत्र वैकेषां
भावस् तत्र प्रयोजनम् ॥ ३.१३३ ॥

134 परद्रव्याण्य् अभिध्यायंस् ...{Loading}...

पर-द्रव्याण्य् अभिध्यायंस्
तथा ऽनिष्टानि चिन्तयन्।
वितथाभिनिवेशी च
जायते ऽन्यासु योनिषु ॥ ३.१३४ ॥

135 पुरुषो ऽनृतवादी ...{Loading}...

पुरुषो ऽनृत-वादी च
पिशुनः परुषस् तथा।
अनिबद्ध-प्रलापी च
मृग-पक्षिषु जायते ॥ ३.१३५ ॥

136 अदत्तादाननिरतः परदारोपसेवकः ...{Loading}...

अदत्तादान-निरतः
पर-दारोपसेवकः।
हिंसकश् चाविधानेन
स्थावरेष्व् अभिजायते ॥ ३.१३६ ॥

137 आत्मज्ञः शौचवान् ...{Loading}...

आत्मज्ञः शौचवान् दान्तस्
तपस्वी विजितेन्द्रियः।
धर्मकृद् वेद-विद्यावित्
सात्त्विको देव-योनिताम् ॥ ३.१३७ ॥

138 असत्कार्यरतो ऽधीर ...{Loading}...

असत्-कार्य-रतो ऽधीर
आरम्भी विषयी च यः।
स राजसो मनुष्येषु
मृतो जन्माधिगच्छति ॥ ३.१३८ ॥

139 निद्रालुः क्रूरकृल् ...{Loading}...

निद्रालुः क्रूर-कृल् लुब्धो
नास्तिको याचकस् तथा।
प्रमादवान् भिन्न-वृत्तो
भवेत् तिर्यक्षु तामसः ॥ ३.१३९ ॥

140 रजसा तमसा ...{Loading}...

रजसा तमसा चैवं
समाविष्टो भ्रमन्न् इह।
भावैर् अनिष्टैः संयुक्तः
संसारं प्रतिपद्यते ॥ ३.१४० ॥

141 मलिनो हि ...{Loading}...

मलिनो हि यथा आदर्शो
रूपालोकस्य न क्षमः।
तथा ऽविपक्व-करण
आत्म-ज्ञानस्य न क्षमः ॥ ३.१४१ ॥

142 कट्वेर् वारौ ...{Loading}...

कट्वेर् वारौ यथा ऽपक्वे
मधुरः सन् रसो ऽपि न।
प्राप्यते ह्य् आत्मनि तथा
नापक्व-करणे ज्ञता ॥ ३.१४२ ॥

143 सर्वाश्रयान् निजे ...{Loading}...

सर्वाश्रयां निजे देहे
देही विन्दति वेदनाम्।
योगी मुक्तश् च सर्वासां
यो न च+आप्नोति वेदनाम् ॥ ३.१४३ ॥

144 आकाशम् एकं ...{Loading}...

आकाशम् एकं हि यथा
घटादिषु पृथग् भवेत्।
तथ +आत्मा एको ह्य् अनेकश् च
जलाधारेष्व् इवांशुमान् ॥ ३.१४४ ॥

145 ब्रह्मखानिलतेजांसि जलम् ...{Loading}...

ब्रह्म-खानिल-तेजांसि
जलं भूश् चेति धातवः।
इमे लोका एष च+आत्मा
तस्माच् च स-चराचरम् ॥ ३.१४५ ॥

146 मृद्दण्डचक्रसंयोगात् कुम्भकारो ...{Loading}...

मृद्-दण्ड-चक्र-संयोगात्
कुम्भ-कारो यथा घटम्।
करोति तृण-मृत्-काष्ठैर्
गृहं वा गृह-कारकः ॥ ३.१४६ ॥

147 हेममात्रम् उपादाय ...{Loading}...

हेम-मात्रम् उपादाय
रूपं वा हेम-कारकः।
निज-लाला-समायोगात्
कोशं वा कोश-कारकः ॥ ३.१४७ ॥

148 कारणान्य् एवम् ...{Loading}...

कारणान्य् एवम् आदाय
तासु तास्व् इह योनिषु।
सृजत्य् आत्मानम् आत्मा च
सम्भूय करणानि च ॥ ३.१४८ ॥

149 महाभूतानि सत्यानि ...{Loading}...

महा-भूतानि सत्यानि
यथ +आत्मा ऽपि तथैव हि।
को ऽन्यथैकेन नेत्रेण
दृष्टम् अन्येन पश्यति ॥ ३.१४९ ॥

150 वाचं वा ...{Loading}...

वाचं वा को विजानाति
पुनः संश्रुत्य संश्रुताम्।
अतीतार्थ-स्मृतिः कस्य
को वा स्वप्नस्य कारकः ॥ ३.१५० ॥

151 जातिरूपवयोवृत्त विद्यादिभिर् ...{Loading}...

जाति-रूप-वयो-वृत्त-
विद्यादिभिर् अहङ्कृतः।
शब्दादि-विषयोद्योगं
कर्मणा मनसा गिरा ॥ ३.१५१ ॥

152 स सन्दिग्धमतिः ...{Loading}...

स सन्दिग्ध-मतिः कर्म-
फलम् अस्ति न वेति वा।
विप्लुतः सिद्धम् आत्मानम्
असिद्धो ऽपि हि मन्यते ॥ ३.१५२ ॥

153 मम दाराः ...{Loading}...

मम दाराः सुतामात्या
अहम् एषाम् इति स्थितिः।
हिताहितेषु भावेषु
विपरीत-मतिः सदा ॥ ३.१५३ ॥

154 ज्ञेयज्ञे प्रकृतौ ...{Loading}...

ज्ञेयज्ञे प्रकृतौ चैव
विकारे चाविशेषवान्।
अनाशकानलाघात-
जल-प्रपतनोद्यमी ॥ ३.१५४ ॥

155 एवंवृत्तो ऽविनीतात्मा ...{Loading}...

एवं-वृत्तो ऽविनीतात्मा
वितथाभिनिवेशवान्।
कर्मणा द्वेष-मोहाभ्याम्
इच्छया चैव बध्यते ॥ ३.१५५ ॥

156 आचार्योपासनं वेद ...{Loading}...

आचार्योपासनं वेद-
शास्त्रार्थेषु विवेकिता।
तत्-कर्मणाम् अनुष्ठानं
सङ्गः सद्भिर् गिरः शुभाः ॥ ३.१५६ ॥

157 स्त्र्य्आलोकालम्भविगमः सर्वभूतात्मदर्शनम् ...{Loading}...

स्त्र्य्-आलोकालम्भ-विगमः
सर्व-भूतात्म-दर्शनम्।
त्यागः परिग्रहाणां च
जीर्ण-काषाय-धारणम् ॥ ३.१५७ ॥

158 विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् ...{Loading}...

विषयेन्द्रिय-संरोधस्
तन्द्रालस्य-विवर्जनम्।
शरीर-परिसङ्ख्यानं
प्रवृत्तिष्व् अघ-दर्शनम् ॥ ३.१५८ ॥

159 नीरजस्तमसा[?] सत्त्व ...{Loading}...

नीरजस्-तमसा[?] सत्त्व-
शुद्धिर् निःस्पृहता शमः।
एतैर् उपायैः संशुद्धः
सत्त्व-योग्य् अमृती भवेत् ॥ ३.१५९ ॥

160 तत्त्वस्मृतेर् उपस्थानात् ...{Loading}...

तत्त्व-स्मृतेर् उपस्थानात्
सत्त्व-योगात् परिक्षयात्।
कर्मणां सन्निकर्षाच् च
सतां योगः प्रवर्तते ॥ ३.१६० ॥

161 शरीरसङ्क्षये यस्य ...{Loading}...

शरीर-सङ्क्षये यस्य
मनः सत्त्वस्थम् ईश्वरम्।
अविप्लुत-मतिः सम्यक्
स जाति-संस्मरताम् इयात् ॥ ३.१६१ ॥

162 यथा हि ...{Loading}...

यथा हि भरतो वर्णैर्
वर्णयत्य् आत्मनस् तनुम्।
नाना-रूपाणि कुर्वाणस्
तथ +आत्मा कर्मजास् तनूः ॥ ३.१६२ ॥

163 कालकर्मात्मबीजानां दोषैर् ...{Loading}...

काल-कर्मात्म-बीजानां
दोषैर् मातुस् तथैव च।
गर्भस्य वैकृतं दृष्टम्
अङ्ग-हीनादि जन्मनः ॥ ३.१६३ ॥

164 अहङ्कारेण मनसा ...{Loading}...

अहङ्कारेण मनसा
गत्या कर्म-फलेन च।
शरीरेण च न+आत्मा ऽयं
मुक्त-पूर्वः कथञ्चन ॥ ३.१६४ ॥

165 वर्त्य्आधारस्नेहयोगाद् यथा ...{Loading}...

वर्त्य्-आधार-स्नेह-योगाद्
यथा दीपस्य संस्थितिः।
विक्रिया ऽपि च दृष्टैवम्
अकाले प्राण-सङ्क्षयः ॥ ३.१६५ ॥

166 अनन्ता रश्मयस् ...{Loading}...

अनन्ता रश्मयस् तस्य
दीपवद् यः स्थितो हृदि।
सितासिताः कर्बु-रूपाः
कपिला नील-लोहिताः ॥ ३.१६६ ॥

167 ऊर्ध्वम् एकः ...{Loading}...

ऊर्ध्वम् एकः स्थितस् तेषां
यो भित्त्वा सूर्य-मण्डलम्।
ब्रह्म-लोकम् अतिक्रम्य
तेन याति परां गतिम् ॥ ३.१६७ ॥

168 यद् अस्यान्यद् ...{Loading}...

यद् अस्यान्यद् रश्मि-शतम्
ऊर्ध्वम् एव व्यवस्थितम्।
तेन देव-शरीराणि
स-धामानि प्रपद्यते ॥ ३.१६८ ॥

169 ये ऽनेकरूपाश् ...{Loading}...

ये ऽनेक-रूपाश् चाधस्ताद्
रश्मयो ऽस्य मृदु-प्रभाः।
इह कर्मोपभोगाय
तैः संसरति सो ऽवशः ॥ ३.१६९ ॥

170 वेदैः शास्त्रैः ...{Loading}...

वेदैः शास्त्रैः स-विज्ञानैर्
जन्मना मरणेन च।
आर्त्या गत्या तथा ऽगत्या
सत्येन ह्य् अनृतेन च ॥ ३.१७० ॥

171 श्रेयसा सुखदुःखाभ्यां ...{Loading}...

श्रेयसा सुख-दुःखाभ्यां
कर्मभिश् च शुभाशुभैः।
निमित्त-शाकुन-ज्ञान-
ग्रह-संयोगजैः फलैः ॥ ३.१७१ ॥

172 तारानक्षत्रसञ्चारैर् जागरैः ...{Loading}...

तारा-नक्षत्र-सञ्चारैर्
जागरैः स्वप्नजैर् अपि।
आकाश-पवन-ज्योतिर्-
जल-भू-तिमिरैस् तथा ॥ ३.१७२ ॥

173 मन्वन्तरैर् युगप्राप्त्या ...{Loading}...

मन्वन्तरैर् युग-प्राप्त्या
मन्त्रौषधि-फलैर् अपि।
वित्त+आत्मानं वेद्यमानं
कारणं जगतस् तथा ॥ ३.१७३ ॥

174 अहङ्कारः स्मृतिर् ...{Loading}...

अहङ्कारः स्मृतिर् मेधा
द्वेषो बुद्धिः सुखं धृतिः।
इन्द्रियान्तर-सञ्चार
इच्छा धारण-जीविते ॥ ३.१७४ ॥

175 स्वर्गः स्वप्नश् ...{Loading}...

स्वर्गः स्वप्नश् च भावानां
प्रेरणं मनसो गतिः।
निमेषश् चेतना यत्न
आदानं पाञ्चभौतिकम् ॥ ३.१७५ ॥

176 यत एतानि ...{Loading}...

यत एतानि दृश्यन्ते
लिङ्गानि परमात्मनः।
तस्माद् अस्ति परो देहाद्
आत्मा सर्वग ईश्वरः ॥ ३.१७६ ॥

177 बुद्धीन्द्रियाणि सार्थानि ...{Loading}...

बुद्धीन्द्रियाणि सार्थानि
मनः कर्मेन्द्रियाणि च।
अहङ्कारश् च बुद्धिश् च
पृथिव्य्-आदीनि चैव हि ॥ ३.१७७ ॥

178 अव्यक्तम् आत्मा ...{Loading}...

अव्यक्तम् आत्मा क्षेत्रज्ञः
क्षेत्रस्यास्य निगद्यते।
ईश्रवः सर्वभूत-स्थः
सन्न् असन् सद् असच् च यः ॥ ३.१७८ ॥

179 बुद्धेर् उत्पत्तिर् ...{Loading}...

बुद्धेर् उत्पत्तिर् अव्यक्तात्
ततो ऽहङ्कार-सम्भवः।
तन्मात्रादीन्य् अहङ्काराद्
एकोत्तर-गुणानि च ॥ ३.१७९ ॥

180 शब्दः स्पर्शश् ...{Loading}...

शब्दः स्पर्शश् च रूपं च
रसो गन्धश् च तद्-गुणाः।
यो यस्मान् निःसृतश् चैषां
स तस्मिन्न् एव लीयते ॥ ३.१८० ॥

181 यथ +आत्मानं ...{Loading}...

यथ +आत्मानं सृजत्य् आत्मा
तथा वः कथितो मया।
विपाकात् त्रि-प्रकाराणां
कर्मणाम् ईश्वरो ऽपि सन् ॥ ३.१८१ ॥

182 सत्त्वं रजस् ...{Loading}...

सत्त्वं रजस् तमश् चैव
गुणास् तस्यैव कीर्तिताः।
रजस्-तमोभ्याम् आविष्टश्
चक्रवद् भ्राम्यते ह्य् असौ ॥ ३.१८२ ॥

183 अनादिर् आदिमांश् ...{Loading}...

अनादिर् आदिमांश् चैव
स एव पुरुषः परः।
लिङ्गेन्द्रिय-ग्राह्य-रूपः
स-विकार उदाहृतः ॥ ३.१८३ ॥

184 पितृयानो ऽजवीथ्याश् ...{Loading}...

पितृ-यानो ऽज-वीथ्याश् च
यद् अगस्त्यस्य चान्तरम्।
तेनाग्निहोत्रिणो यान्ति
स्वर्ग-कामा दिवं प्रति ॥ ३.१८४ ॥

185 ये च ...{Loading}...

ये च दान-पराः सम्यग्
अष्टाभिश् च गुणैर् युताः।
ते ऽपि तेनैव मार्गेण
सत्य-व्रत-परायणाः ॥ ३.१८५ ॥

186 तत्राष्टाशीतिसाहस्र मुनयो ...{Loading}...

तत्राष्टाशीति-साहस्र-
मुनयो गृहमेधिनः।
पुनर्-आवर्तिनो बीज-
भूता धर्म-प्रवर्तकाः ॥ ३.१८६ ॥

187 सप्तर्षिनागवीथ्य्अन्तर् देवलोकं ...{Loading}...

सप्तर्षि-नाग-वीथ्य्-अन्तर्
देव-लोकं समाश्रिताः।
तावन्त एव मुनयः
सर्वारम्भ-विवर्जिताः ॥ ३.१८७ ॥

188 तपसा ब्रह्मचर्येण ...{Loading}...

तपसा ब्रह्म-चर्येण
सङ्ग-त्यागेन मेधया।
तत्र गत्वा ऽवतिष्ठन्ते
यावद् आ-भूत-सम्प्लवम् ॥ ३.१८८ ॥

189 यतो वेदाः ...{Loading}...

यतो वेदाः पुराणानि
विद्योपनिषदस् तथा।
श्लोका सूत्राणि भाष्याणि
यच् च किञ्चन वाङ्-मयम् ॥ ३.१८९ ॥

190 वेदानुवचनं यज्ञो ...{Loading}...

वेदानुवचनं यज्ञो
ब्रह्म-चर्यं तपो दमः।
श्रद्धोपवासः स्वातन्त्र्यम्
आत्मनो ज्ञान-हेतवः ॥ ३.१९० ॥

191 स ह्य् ...{Loading}...

स ह्य् आश्रमैर् विजिज्ञास्यः
समस्तैर् एवम् एव तु।
द्रष्टव्यस् त्व् अथ मन्तव्यः
श्रोतव्यश् च द्विजातिभिः ॥ ३.१९१ ॥

192 य एनम् ...{Loading}...

य एनम् एवं विन्दन्ति
य व +आरण्यकम् आश्रिताः।
उपासते द्विजाः सत्यं
श्रद्धया परया युताः ॥ ३.१९२ ॥

193 क्रमात् ते ...{Loading}...

क्रमात् ते सम्भवन्त्य् अर्चिर्
अहः शुक्लं तथोत्तरम्।
अयनं देव-लोकं च
सवितारं स-वैद्युतम् ॥ ३.१९३ ॥

194 ततस् तान् ...{Loading}...

ततस् तान् पुरुषो ऽभ्येत्य
मानसो ब्रह्म-लौकिकान्।
करोति पुनर्-आवृत्तिस्
तेषाम् इह न विद्यते ॥ ३.१९४ ॥

195 यज्ञेन तपसा ...{Loading}...

यज्ञेन तपसा दानैर्
ये हि स्वर्ग-जितो नराः।
धूमं निशां कृष्ण-पक्षं
दक्षिणायनम् एव च ॥ ३.१९५ ॥

196 पितृलोकञ् चन्द्रमसं ...{Loading}...

पितृ-लोकं चन्द्रमसं
वायुं वृष्टिं जलं महीम्।
क्रमात् ते सम्भवन्तीह
पुनर् एव व्रजन्ति च ॥ ३.१९६ ॥

197 एतद् यो ...{Loading}...

एतद् यो न विजानाति
मार्ग-द्वितयम् आत्मवान्।
दन्दशूकः पतङ्गो वा
भवेत् कीटो ऽथ वा कृमिः ॥ ३.१९७ ॥

198 ऊरुस्थोत्तानचरणः सव्ये ...{Loading}...

ऊरुस्थोत्तान-चरणः
सव्ये न्यस्योत्तरं करम्।
उत्तानं किञ्चिद् उन्नाम्य
मुखं विष्टभ्य चोरसा ॥ ३.१९८ ॥

199 निमीलिताक्षः सत्त्वस्थो ...{Loading}...

निमीलिताक्षः सत्त्वस्थो
दन्तैर् दन्तान् असंस्पृशन्।
तालुस्थाचल-जिह्वश् च
संवृतास्यः सु-निश्चलः ॥ ३.१९९ ॥

200 सन्निरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ...{Loading}...

सन्निरुध्येन्द्रिय-ग्रामं
नाति-नीचोच्छ्रितासनः।
द्वि-गुणं त्रि-गुणं वा ऽपि
प्राणायामम् उपक्रमेत् ॥ ३.२०० ॥

201 ततो ध्येयः ...{Loading}...

ततो ध्येयः स्थितो यो ऽसौ
हृदये दीपवत् प्रभुः।
धारयेत् तत्र च+आत्मानं
धारणां धारयन् बुधः ॥ ३.२०१ ॥

202 अन्तर्धानं स्मृतिः ...{Loading}...

अन्तर्धानं स्मृतिः कान्तिर्
दृष्टिः श्रोत्रज्ञता तथा।
निजं शरीरम् उत्सृज्य
पर-काय-प्रवेशनम् ॥ ३.२०२ ॥

203 अर्थानाञ् छन्दतः ...{Loading}...

अर्थानां छन्दतः सृष्टिर्
योग-सिद्धेर् हि लक्षणम्।
सिद्धे योगे त्यजन् देहम्
अमृतत्वाय कल्पते ॥ ३.२०३ ॥

204 अथ वा ...{Loading}...

अथ वा ऽप्य् अभ्यसन् वेदं
न्यस्त-कर्मा वने वसन्।
अयाचिताशी मित-भुक्
परां सिद्धिम् अवाप्नुयात् ॥ ३.२०४ ॥

205 न्यायागतधनस् तत्त्व ...{Loading}...

न्यायागत-धनस् तत्त्व-
ज्ञान-निष्ठो ऽतिथि-प्रियः।
श्राध-कृत् सत्य-वादी च
गृहस्थो ऽपि हि मुच्यते ॥ ३.२०५ ॥