३ वानप्रस्थ-धर्म-प्रकरणम्

045 सुतविन्यस्तपत्नीकस् तया ...{Loading}...

सुत-विन्यस्त-पत्नीकस्
तया वा ऽनुगतो वनम्।
वानप्रस्थो ब्रह्म-चारी
साग्निः सोपासनो व्रजेत् ॥ ३.४५ ॥

046 अफालकृष्तेनाग्नींश् च ...{Loading}...

अफाल-कृष्तेनाग्नींश् च
पितॄन् देवातिथीन् अपि।
भृत्यांश् च तर्पयेत् श्मश्रु-
जटा-लोम-भृद् आत्मवान् ॥ ३.४६ ॥

047 अह्नो मासस्य ...{Loading}...

अह्नो मासस्य षण्णां वा
तथा संवत्सरस्य वा।
अर्थस्य सञ्चयं कुर्यात्
कृतम् आश्वयुजे त्यजेत् ॥ ३.४७ ॥

048 दान्तस् त्रिषवणस्नायी ...{Loading}...

दान्तस् त्रिषवण-स्नायी
निवृत्तश् च प्रतिग्रहात्।
स्वाध्यायवान् दान-शीलः
सर्व-सत्त्व-हिते रतः ॥ ३.४८ ॥

049 दन्तोलूखलिकः काल ...{Loading}...

दन्तोलूखलिकः काल-
पक्वाशी वा ऽश्म-कुट्टकः।
श्रौत्रं स्मार्तं फल-स्नेहैः
कर्म कुर्यात् तथा क्रियाः ॥ ३.४९ ॥

050 चान्द्रायणैर् नयेत् ...{Loading}...

चान्द्रायणैर् नयेत् कालं
कृच्छ्रैर् वा वर्तयेत् सदा।
पक्षे गते वा ऽप्य् अश्नीयान्
मासे वा ऽहनि वा गते ॥ ३.५० ॥

051 स्वप्याद् भूमौ ...{Loading}...

स्वप्याद् भूमौ शुची रात्रौ
दिवा सम्प्रपदैर् नयेत्।
स्थानासन-विहारैर् वा
योगाभ्यासेन वा तथा ॥ ३.५१ ॥

052 ग्रीष्मे पञ्चाग्निमध्यस्थो ...{Loading}...

ग्रीष्मे पञ्चाग्नि-मध्यस्थो
वर्षासु स्थण्डिले-शयः।
आर्द्र-वासास् तु हेमन्ते
शक्त्या वा ऽपि तपश् चरेत् ॥ ३.५२ ॥

053 यः कण्टकैर् ...{Loading}...

यः कण्टकैर् वितुदति
चन्दनैर् यश् च लिम्पति।
अक्रुद्धो ऽपरितुष्टश् च
समस्तस्य च तस्य च ॥ ३.५३ ॥

054 अग्नीन् वा ...{Loading}...

अग्नीन् वा ऽप्य् आत्मसात्-कृत्वा
वृक्षावासो मिताशनः।
वानप्रस्थ-गृहेष्व् एव
यात्रार्थं भैक्षम् आचरेत् ॥ ३.५४ ॥

055 ग्रामाद् आहृत्य ...{Loading}...

ग्रामाद् आहृत्य वा ग्रासान्
अष्टौ भुञ्जीत वाग्-यतः।
वायु-भक्षः प्राग्-उदीचीं
गच्छेद् व +आवर्ष्म-सङ्क्षयात् ॥ ३.५५ ॥