२ आपद्-धर्म-प्रकरणम्

035 क्षात्रेण कर्मणा ...{Loading}...

क्षात्रेण कर्मणा जीवेद्
विशां वा ऽप्य् आपदि द्विजः।
निस्तीर्य ताम् अथ+आत्मानं
पावयित्वा न्यसेत् पथि ॥ ३.३५ ॥

036 फलोपलक्षौमसोम मनुष्यापूपवीरुधः ...{Loading}...

फलोपल-क्षौम-सोम-
मनुष्यापूप-वीरुधः।
तिलौदन-रस-क्षारान्
दधि क्षीरं घृतं जलम् ॥ ३.३६ ॥

037 शस्त्रासवमधूच्छिष्टं मधु ...{Loading}...

शस्त्रासव-मधूच्छिष्टं
मधु लाक्षा च बर्हिषः।
मृच्-चर्म-पुष्प-कुतप-
केश-तक्र-विष-क्षितिः ॥ ३.३७ ॥

038 कौशेयनीललवण मांसैकशफसीसकान् ...{Loading}...

कौशेय-नील-लवण-
मांसैकशफ-सीसकान्।
शकार्द्रौषधि-पिण्याक-
पशु-गन्धांस् तथैव च ॥ ३.३८ ॥

039 वैश्यवृत्त्या ऽपि ...{Loading}...

वैश्य-वृत्त्या ऽपि जीवन् नो
विक्रीणीत कदाचन।
धर्मार्थं विक्रयं नेयास्
तिला धान्येन तत्-समाः ॥ ३.३९ ॥

040 लाक्षालवणमांसानि पतनीयानि ...{Loading}...

लाक्षा-लवण-मांसानि
पतनीयानि विक्रये।
पायो दधि च मद्यं च
हीन-वर्ण-कराणि तु ॥ ३.४० ॥

041 आपद्गतः सम्प्रगृह्णन् ...{Loading}...

आपद्-गतः सम्प्रगृह्णन्
भुञ्जानो वा यतस् ततः।
न लिप्येतैनसा विप्रो
ज्वलनार्क-समो हि सः ॥ ३.४१ ॥

042 कृषिः शिल्पम् ...{Loading}...

कृषिः शिल्पं भृतिर् विद्या
कुसीदं शकटं गिरिः।
सेवा ऽनूपं नृपो भैक्षम्
आपत्तौ जीवनानि तु ॥ ३.४२ ॥

043 बुभुक्षितस् त्र्यहं ...{Loading}...

बुभुक्षितस् त्र्यहं स्थित्वा
धान्यम् अब्राह्मणाद् हरेत्।
प्रतिगृह्य तद् आख्येयम्
अभियुक्तेन धर्मतः ॥ ३.४३ ॥

044 तस्य वृत्तङ् ...{Loading}...

तस्य वृत्तं कुलं शीलं
श्रुतम् अध्ययनं तपः।
ज्ञात्वा राजा कुटुम्बं च
धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ३.४४ ॥