२५ प्रकीर्णक-प्रकरणम्

295 ऊनं वा ...{Loading}...

ऊनं वा ऽभ्यधिकं वा ऽपि
लिखेद् यो राज-शासनम्।
पारदारिक-चौरं वा
मुञ्चतो दण्ड उत्तमः ॥ २.२९५ ॥

296 अभक्ष्येण द्विजन् ...{Loading}...

अभक्ष्येण द्विजं दूष्यो[दूष्य?]
दण्ड्य उत्तम-साहसम्।
मध्यमं क्षत्रियं वैश्यं
प्रथमं शूद्रम् अर्धिकम् ॥ २.२९६ ॥

297 कूटस्वर्णव्यवहारी विमांसस्य ...{Loading}...

कूट-स्वर्ण-व्यवहारी
विमांसस्य च विक्रयी।
त्र्य्-अङ्ग-हीनस् तु कर्तव्यो
दाप्यश् चोत्तम-साहसम् ॥ २.२९७ ॥

298 चतुष्पादकृतो दोषो ...{Loading}...

चतुष्पाद-कृतो दोषो
नापेहीति प्रजल्पतः।
काष्ठ-लोष्टेषु-पाषाण-
बाहु-युग्य-कृतस् तथा ॥ २.२९८ ॥

299 छिन्ननस्येन यानेन ...{Loading}...

छिन्न-नस्येन यानेन
तथा भग्न-युगादिना।
पश्चाच् चैवापसरता
हिंसने स्वाम्य् अदोष-भाक् ॥ २.२९९ ॥

300 शक्तो ऽप्य् ...{Loading}...

शक्तो ऽप्य् अमोक्षयन् स्वामी
दंष्ट्रिणां शृङ्गिणां तथा।
प्रथमं साहसं दद्याद्
विक्रुष्टे द्वि-गुणं तथा ॥ २.३०० ॥

301 जारञ् चौरेत्य् ...{Loading}...

जारं चौरेत्य् अभिवदन्
दाप्यः पञ्च-शतं दमम्।
उपजीव्य धनं मुञ्चंस्
तद् एवाष्ट-गुणी-कृतम् ॥ २.३०१ ॥

302 राज्ञो ऽनिष्टप्रवक्तारं ...{Loading}...

राज्ञो ऽनिष्ट-प्रवक्तारं
तस्यैव+आक्रोश-कारिणम्।
तन्-मन्त्रस्य च भेत्तारं
छित्त्वा जिह्वां प्रवासयेत् ॥ २.३०२ ॥

303 मृताङ्गलग्नविक्रेतुर् गुरोस् ...{Loading}...

मृताङ्ग-लग्न-विक्रेतुर्
गुरोस् ताडयितुस् तथा।
राज-यानासनारोढुर्
दण्ड उत्तम-साहसः ॥ २.३०३ ॥

304 द्विनेत्रभेदिनो राज ...{Loading}...

द्वि-नेत्र-भेदिनो राज-
द्विष्टादेश-कृतस् तथा।
विप्रत्वेन च शूद्रस्य
जीवतो ऽष्ट-शतो दमः ॥ २.३०४ ॥

305 दुर्दृष्टांस् तु ...{Loading}...

दुर्दृष्टांस् तु पुनर् दृष्ट्वा
व्यवहारान् नृपेण तु।
सभ्याः सजयिनो दण्ड्या
विवादाद् द्वि-गुणं दमम् ॥ २.३०५ ॥

306 यो मन्येताजितो ...{Loading}...

यो मन्येताजितो ऽस्मीति
न्यायेनापि पराजितः।
तम् आयान्तं पुनर् जित्वा
दापयेद् द्वि-गुणं दमम् ॥ २.३०६ ॥

307 राज्ञा ऽन्यायेन ...{Loading}...

राज्ञा ऽन्यायेन यो दण्डो
गृहीतो वरुणाय तम्।
निवेद्य दद्याद् विप्रेभ्यः
स्वयं त्रिंशद्-गुणी-कृतम् ॥ २.३०७ ॥