२४ स्त्री-सङ्ग्रहण-प्रकरणम्

283 पुमान् सङ्ग्रहणे ...{Loading}...

पुमान् सङ्ग्रहणे ग्राह्यः
केशा-केशि पर-स्त्रिया।
सद्यो वा कामजैश् चिह्नैः
प्रतिपत्तौ द्वयोस् तथा ॥ २.२८३ ॥

284 नीवीस्तनप्रावरण सक्थिकेशावमर्शनम् ...{Loading}...

नीवी-स्तन-प्रावरण-
सक्थि-केशावमर्शनम्।
अदेश-काल-सम्भाषं
सहैकासनम् एव च ॥ २.२८४ ॥

285 स्त्री निषेधे ...{Loading}...

स्त्री निषेधे शतं दद्याद्
द्वि-शतं तु दमं पुमान्।
प्रतिषेधे तयोर् दण्डो
यथा सङ्ग्रहणे तथा ॥ २.२८५ ॥

286 सजाताव् उत्तमो ...{Loading}...

सजाताव् उत्तमो दण्ड
आनुलोम्ये तु मध्यमः।
प्रातिलोम्ये वधः पुंसो
नार्याः कर्णादि-कर्तनम् ॥ २.२८६ ॥

287 अलङ्कृतां हरन् ...{Loading}...

अलङ्कृतां हरन् कन्याम्
उत्तमं ह्य् अन्यथा ऽधमम्।
दण्डं दद्यात् सवर्णासु
प्रातिलोम्ये वधः स्मृतः ॥ २.२८७ ॥

288 सकामास्व् अनुलोमासु ...{Loading}...

स-कामास्व् अनुलोमासु न
दोषस् त्व् अन्यथा दमः।
दूषणे तु कर-च्छेद
उत्तमायां वधस् तथा ॥ २.२८८ ॥

289 शतं स्त्रीदूषणे ...{Loading}...

शतं स्त्री-दूषणे दद्याद्
द्वे तु मिथ्याभिशंसने।
पशून् गच्छन् शतं दाप्यो
हीनां स्त्रीं गां च मध्यमम् ॥ २.२८९ ॥

290 अवरुद्धासु दासीसु ...{Loading}...

अवरुद्धासु दासीसु
भुजिष्यासु तथैव च।
गम्यास्व् अपि पुमान् दाप्यः
पञ्चाशत् पणिकं दमम् ॥ २.२९० ॥

291 प्रसह्य दास्य्अभिगमे ...{Loading}...

प्रसह्य दास्य्-अभिगमे
दण्डो दश-पणः स्मृतः।
बहूनां यद्य् अकामा ऽसौ
चतुर्विंशतिकः पृथक् ॥ २.२९१ ॥

292 गृहीतवेतना वेश्या ...{Loading}...

गृहीत-वेतना वेश्या
नेच्छन्ती द्वि-गुणं वहेत्।
अगृहीते समं दाप्यः
पुमान् अप्य् एवम् एव हि ॥ २.२९२ ॥

293 अयोनौ गच्छतो ...{Loading}...

अयोनौ गच्छतो योषां
पुरुषं वा ऽभिमेहतः।
चतुर्विंशतिको दण्डस्
तथा प्रव्रजिता-गमे ॥ २.२९३ ॥

294 अन्त्याभिगमने त्व् ...{Loading}...

अन्त्याभिगमने त्व् अङ्क्यह्[अङ्क्य?]
कुबन्धेन प्रवासयेत्।
शूद्रस् तथा ऽन्त्य एव स्याद्
अन्त्यस्य+आर्या-गमे वधः ॥ २.२९४ ॥