२३ स्तेय-प्रकरणम्

266 ग्राहकैर् गृह्यते ...{Loading}...

ग्राहकैर् गृह्यते चौरो
लोप्त्रेणाथ पदेन वा।
पूर्व-कर्मापराधी च
तथा चाशुद्ध-वासकः ॥ २.२६६ ॥

267 अन्ये ऽपि ...{Loading}...

अन्ये ऽपि शङ्कया ग्राह्या
जाति-नामादि-निह्नवैः।
द्यूत-स्त्री-पान-सक्ताश् च
शुष्क-भिन्न-मुख-स्वराः ॥ २.२६७ ॥

268 परद्रव्यगृहाणाञ् च ...{Loading}...

पर-द्रव्य-गृहाणां च
पृच्छका गूढ-चारिणः।
निराया व्ययवन्तश् च
विनष्ट-द्रव्य-विक्रयाः ॥ २.२६८ ॥

269 गृहीतः शङ्कया ...{Loading}...

गृहीतः शङ्कया चौर्ये
न+आत्मानं चेद् विशोधयेत्।
दापयित्वा हृतं द्रव्यं
चौर-दण्डेन दण्डयेत् ॥ २.२६९ ॥

270 चौरम् प्रदाप्यापहृतं ...{Loading}...

चौरं प्रदाप्यापहृतं
घातयेद् विविधैर् वधैः।
स-चिह्नं ब्राह्मणं कृत्वा
स्व-राष्ट्राद् विप्रवासयेत् ॥ २.२७० ॥

271 घातिते ऽपहृते ...{Loading}...

घातिते ऽपहृते दोषो
ग्राम-भर्तुर् अनिर्गते।
विवीत-भर्तुस् तु पथि
चौरोद्धर्तुर् अवीतके ॥ २.२७१ ॥

272 स्वसीन्नि दद्याद् ...{Loading}...

स्व-सीन्नि दद्याद् ग्रामस् तु
पदं वा यत्र गच्छति।
पञ्च-ग्रामी बहिः क्रोशाद्
दश-ग्राम्य् अथ वा पुनः ॥ २.२७२ ॥

273 बन्दिग्राहांस् तथा ...{Loading}...

बन्दि-ग्राहांस् तथा वाजि-
कुञ्जराणां च हारिणः।
प्रसह्य-घातिनश् चैव
शूलान् आरोपयेन् नरान् ॥ २.२७३ ॥

274 उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ ...{Loading}...

उत्क्षेपक-ग्रन्थि-भेदौ
कर-सन्दंश-हीनकौ।
कार्यौ द्वितीयापराधे
कर-पादैक-हीनकौ ॥ २.२७४ ॥

275 क्षुद्रमध्यमहाद्रव्य हरणे ...{Loading}...

क्षुद्र-मध्य-महा-द्रव्य-
हरणे सारतो दमः।
देश-काल-वयः-शक्ति
सञ्चिन्त्यं दण्ड-कर्मणि ॥ २.२७५ ॥

276 भक्तावकाशाग्न्य्उदक मन्त्रोपकरणव्ययान् ...{Loading}...

भक्तावकाशाग्न्य्-उदक-
मन्त्रोपकरण-व्ययान्।
दत्त्वा चौरस्य वा हन्तुर्
जानतो दम उत्तमः ॥ २.२७६ ॥

277 शस्त्रावपाते गर्भस्य ...{Loading}...

शस्त्रावपाते गर्भस्य
पातने चोत्तमो दमः।
उत्तमो वा ऽधमो वा ऽपि
पुरुष-स्त्री-प्रमापणे ॥ २.२७७ ॥

278 विप्रदुष्टां स्त्रियञ् ...{Loading}...

विप्रदुष्टां स्त्रियं चैव
पुरुष-घ्नीम् अगर्भिणीम्।
सेतु-भेद-करीं चाप्सु
शिलां बद्ध्वा प्रवेशयेत् ॥ २.२७८ ॥

279 विषाग्निदाम् पतिगुरु ...{Loading}...

विषाग्निदां पति-गुरु-
निजापत्य-प्रमापणीम्।
विकर्ण-कर-नासौष्ठीं
कृत्वा गोभिः प्रमापयेत् ॥ २.२७९ ॥

280 अविज्ञातहतस्य+आशु कलहं ...{Loading}...

अविज्ञात-हतस्य+आशु
कलहं सुत-बान्धवाः।
प्रष्टव्या योषितश् चास्य
पर-पुंसि रताः पृथक् ॥ २.२८० ॥

281 स्त्रीद्रव्यवृत्तिकामो वा ...{Loading}...

स्त्री-द्रव्य-वृत्ति-कामो वा
केन वा ऽयं गतः सह।
मृत्यु-देश-समासन्नं
पृच्छेद् वा ऽपि जनं शनैः ॥ २.२८१ ॥

282 क्षेत्रवेश्मवनग्राम विवीतखलदाहकाः ...{Loading}...

क्षेत्र-वेश्म-वन-ग्राम-
विवीत-खल-दाहकाः।
राज-पत्न्य्-अभिगामी च
दग्धव्यास् तु कटाग्निना ॥ २.२८२ ॥