२२ सम्भूय-समुत्थान-प्रकरणम्

259 समवायेन वणिजां ...{Loading}...

समवायेन वणिजां
लाभार्थं कर्म कुर्वताम्।
लाभालाभौ यथा-द्रव्यं
यथा वा संविदा कृतौ ॥ २.२५९ ॥

260 प्रतिषिद्धम् अनादिष्टं ...{Loading}...

प्रतिषिद्धम् अनादिष्टं
प्रमादाद् यच् च नाशितम्।
स तद् दद्याद् विप्लवाच् च
रक्षिताद् दशमांश-भाक् ॥ २.२६० ॥

261 अर्घप्रक्षेपणाद् विंशं ...{Loading}...

अर्घ-प्रक्षेपणाद् विंशं
भागं शुल्कं नृपो हरेत्।
व्यासिद्धं राज-योग्यं च
विक्रीतं राज-गामि तत् ॥ २.२६१ ॥

262 मिथ्या वदन् ...{Loading}...

मिथ्या वदन् परीमाणं
शुल्क-स्थानाद् अपासरन्।
दाप्यस् त्व् अष्ट-गुणं यश् च
स-व्याज-क्रय-विक्रयी ॥ २.२६२ ॥

263 तरिकः स्थलजं ...{Loading}...

तरिकः स्थलजं शुल्कं
गृह्णन् दाप्यः पणान् दश।
ब्राह्मण-प्रातिवेश्यानाम्
एतद् एवानिमन्त्रणे ॥ २.२६३ ॥

264 देशान्तरगते प्रेते ...{Loading}...

देशान्तर-गते प्रेते
द्रव्यं दायाद-बान्धवाः।
ज्ञातयो वा हरेयुस् तद्-
आगतास् तैर् विना नृपः ॥ २.२६४ ॥

265 जिह्मन् त्यजेयुर् ...{Loading}...

जिह्मं त्यजेयुर् निर्लाभम्
अशक्तो ऽन्येन कारयेत्।
अनेन विधिर् आख्यात
ऋत्विक्-कर्षक-कर्मिणाम् ॥ २.२६५ ॥