२१ विक्रीयासम्प्रदान-प्रकरणम्

254 गृहीतमूल्यं यः ...{Loading}...

गृहीत-मूल्यं यः पण्यं
क्रेतुर् नैव प्रयच्छति।
सोदयं तस्य दाप्यो ऽसौ
दिग्-लाभं वा दिग्-आगते ॥ २.२५४ ॥

255 विक्रीतम् अपि ...{Loading}...

विक्रीतम् अपि विक्रेयं
पूर्व-क्रेतर्य् अगृह्णति।
हानिश् चेत् क्रेतृ-दोषेण
क्रेतुर् एव हि सा भवेत् ॥ २.२५५ ॥

256 राजदैवोपघातेन पण्ये ...{Loading}...

राज-दैवोपघातेन
पण्ये दोषम् उपागते।
हानिर् विक्रेतुर् एवासौ
याचितस्याप्रयच्छतः ॥ २.२५६ ॥

257 अन्यहस्ते च ...{Loading}...

अन्य-हस्ते च विक्रीय
दुष्टं वा ऽदुष्टवद् यदि।
विक्रीणीते दमस् तत्र
मूल्यात् तु द्वि-गुणो भवेत् ॥ २.२५७ ॥

258 क्षयं वृद्धिञ् ...{Loading}...

क्षयं वृद्धिं च वणिजा
पण्यानाम् अविजानता।
क्रीत्वा नानुशयः कार्यः
कुर्वन् षड्-भाग-दण्ड-भाक् ॥ २.२५८ ॥