२० साहस-प्रकरणम्

230 सामान्यद्रव्यप्रसभ हरणात् ...{Loading}...

सामान्य-द्रव्य-प्रसभ-
हरणात् साहसं स्मृतम्।
तन्-मूल्याद् द्वि-गुणो दण्डो
निह्नवे तु चतुर्-गुणः ॥ २.२३० ॥

231 यः साहसङ् ...{Loading}...

यः साहसं कारयति
स दाप्यो द्वि-गुणं दमम्।
यश् चैवम् उक्त्वा ऽहं दाता
कारयेत् स चतुर्-गुणम् ॥ २.२३१ ॥

232 अर्घ्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः ...{Loading}...

अर्घ्याक्षेपातिक्रम-कृद्
भ्रातृ-भार्या-प्रहारकः।
सन्दिष्टस्याप्रदाता च
समुद्र-गृह-भेद-कृत् ॥ २.२३२ ॥

233 सामन्तकुलिकादीनाम् अपकारस्य ...{Loading}...

सामन्त-कुलिकादीनाम्
अपकारस्य कारकः।
पञ्चाशत्-पणिको दण्ड
एषाम् इति विनिश्चयः ॥ २.२३३ ॥

234 स्वच्छन्दविधवागामी विक्रुष्टे ...{Loading}...

स्वच्छन्द-विधवागामी
विक्रुष्टे ऽनभिधावकः।
अकारणे च विक्रोष्टा
चण्डालश् चोत्तमान् स्पृशेत् ॥ २.२३४ ॥

235 शूद्रप्रव्रजितानाञ् च ...{Loading}...

शूद्र-प्रव्रजितानां च
दैवे पित्र्ये च भोजकः।
अयुक्तं शपथं कुर्वन्न्
अयोग्यो योग्य-कर्म-कृत् ॥ २.२३५ ॥

236 वृषक्षुद्रपशूनाञ् च ...{Loading}...

वृष-क्षुद्र-पशूनां च
पुंस्त्वस्य प्रतिघात-कृत्।
साधारणस्यापलापी
दासी-गर्भ-विनाश-कृत् ॥ २.२३६ ॥

237 पितृपुत्रस्वसृभातृ दम्पत्य्आचार्यशिष्यकाः ...{Loading}...

पितृ-पुत्र-स्वसृ-भातृ-
दम्पत्य्-आचार्य-शिष्यकाः।
एषाम् अपतितान्योन्य-
त्यागी च शत-दण्ड-भाक् ॥ २.२३७ ॥

238 वसानस्त्रीन् पणान् ...{Loading}...

वसानस्-त्रीन् पणान् दण्ड्यो
नेजकस् तु परांशुकम्।
विक्रयावक्रयाधान-य्
आचितेषु पणान् दश ॥ २.२३८ ॥

239 पितापुत्रविरोधे तु ...{Loading}...

पिता-पुत्र-विरोधे तु
साक्षिणां त्रि-पणो दमः।
अन्तरे च तयोर् यः स्यात्
तस्याप्य् अष्ट-गुणो दमः ॥ २.२३९ ॥

240 तुलाशासनमानानां कूटकृन्नाणकस्य ...{Loading}...

तुला-शासन-मानानां
कूट-कृन्-नाणकस्य च।
एभिश् च व्यवहर्ता यः
स दाप्यो दमम् उत्तमम् ॥ २.२४० ॥

241 अकूटङ् कूटकम् ...{Loading}...

अकूटं कूटकं ब्रूते
कूटं यश् चाप्य् अकूटकम्।
स नाणक-परीक्षी तु
दाप्य उत्तम-साहसम् ॥ २.२४१ ॥

242 भिषङ् मिथ्य ...{Loading}...

भिषङ् मिथ्य +आचरन् दण्ड्यस्
तिर्यक्षु प्रथमं दमम्।
मानुषे मध्यमं राज-
पुरुषेषूत्तमं दमम् ॥ २.२४२ ॥

243 अबन्ध्यं यश् ...{Loading}...

अबन्ध्यं यश् च बध्नाति
बद्धं यश् च प्रमुञ्चति।
अप्राप्त-व्यवहारं च
स दाप्यो दमम् उत्तमम् ॥ २.२४३ ॥

244 मानेन तुलया ...{Loading}...

मानेन तुलया वा ऽपि
यो ऽंशम् अष्टमकं हरेत्।
दण्डं स दाप्यो द्वि-शतं
वृद्धौ हानौ च कल्पितम् ॥ २.२४४ ॥

245 भेषजस्नेहलवण गन्धधान्यगुडादिषु ...{Loading}...

भेषज-स्नेह-लवण-
गन्ध-धान्य-गुडादिषु।
पण्येषु प्रक्षिपन् हीनं
पणान् दाप्यस् तु षोडश ॥ २.२४५ ॥

246 मृच्चर्ममणिसूत्रायः काष्ठवल्कलवाससाम् ...{Loading}...

मृच्-चर्म-मणि-सूत्रायः-
काष्ठ-वल्कल-वाससाम्।
अजातौ जाति-करणे
विक्रेयाष्ट-गुणो दमः ॥ २.२४६ ॥

247 समुद्गपरिवर्तञ् च ...{Loading}...

समुद्ग-परिवर्तं च
सार-भाण्डं च कृत्रिमम्।
आधानं विक्रयं वा ऽपि
नयतो दण्ड-कल्पना ॥ २.२४७ ॥

248 भिन्ने पणे ...{Loading}...

भिन्ने पणे च पञ्चाशत्-
पणे तु शतम् उच्यते।
द्वि-पणे द्विशतो दण्डो
मूल्य-वृद्धौ च वृद्धिमान् ॥ २.२४८ ॥

249 सम्भूय कुर्वताम् ...{Loading}...

सम्भूय कुर्वताम् अर्घं
सम्बाधं कारु-शिल्पिनाम्।
अर्घस्य ह्रासं वृद्धिं वा
जानतो दम उत्तमः ॥ २.२४९ ॥

250 सम्भूय वणिजाम् ...{Loading}...

सम्भूय वणिजां पण्यम्
अनर्घेणोपरुन्धताम्।
विक्रीणतां वा विहितो
दण्ड उत्तम-साहसः ॥ २.२५० ॥

251 राजनि स्थाप्यते ...{Loading}...

राजनि स्थाप्यते यो ऽर्घः
प्रत्यहं तेन विक्रयः।
क्रयो वा निःस्रवस् तस्माद्
वणिजां लाभ-कृत् स्मृतः ॥ २.२५१ ॥

252 स्वदेशपण्ये तु ...{Loading}...

स्व-देश-पण्ये तु शतं
वणिग् गृह्णीत पञ्चकम्।
दशकं पारदेश्ये तु
यः सद्यः क्रय-विक्रयी ॥ २.२५२ ॥

253 पण्यस्योपरि संस्थाप्य ...{Loading}...

पण्यस्योपरि संस्थाप्य
व्ययं पण्य-समुद्भवम्।
अर्घो ऽनुग्रह-कृत् कार्यः
क्रेतुर् विक्रेतुर् एव च ॥ २.२५३ ॥