१९ दण्ड-पारुष्य-प्रकरणम्

212 असाक्षिकहते चिह्नैर् ...{Loading}...

असाक्षिक-हते चिह्नैर्
युक्तिभिश् च+आगमेन च।
द्रष्टव्यो व्यवहारस् तु
कूट-चिह्न-कृतो भयात् ॥ २.२१२ ॥

213 भस्मपङ्करजःस्पर्शे दण्डो ...{Loading}...

भस्म-पङ्क-रजः-स्पर्शे
दण्डो दश-पणः स्मृतः।
अमेध्य-पार्ष्णि-निष्ठ्यूत-
स्पर्शने द्वि-गुणस् ततः ॥ २.२१३ ॥

214 समेष्व् एवम् ...{Loading}...

समेष्व् एवं पर-स्त्रीषु
द्वि-गुणस् तूत्तमेषु च।
हीनेष्व् अर्ध-दमो मोह-
मदादिभिर्-अदण्डनम् ॥ २.२१४ ॥

215 विप्रपीडाकरञ् छेद्यम् ...{Loading}...

विप्र-पीडा-करं छेद्यम्
अङ्गम् अब्राह्मणस्य तु।
उद्गूर्णे प्रथमो दण्डः
संस्पर्शे तु तद्-अर्धिकः ॥ २.२१५ ॥

216 उद्गूर्णे हस्तपादे ...{Loading}...

उद्गूर्णे हस्त-पादे तु
दश-विंशतिकौ दमौ।
परस्परं तु सर्वेषां
शस्त्रे मध्यम-साहसः ॥ २.२१६ ॥

217 पादकेशांशुककरोल् लुञ्चनेषु ...{Loading}...

पाद-केशांशुक-करोल्-
लुञ्चनेषु पणान् दश।
पीडा-कर्षांशुकावेष्ट-
पादाध्यासे शतं दमः ॥ २.२१७ ॥

218 शोणितेन विना ...{Loading}...

शोणितेन विना दुःखं
कुर्वन् काष्ठादिभिर् नरः।
द्वात्रिंशतं पणान् दण्ड्यो
द्वि-गुणं दर्शने ऽसृजः ॥ २.२१८ ॥

219 करपाददतो भङ्गे ...{Loading}...

कर-पाद-दतो भङ्गे
छेदने कर्ण-नासयोः।
मध्यो दण्डो व्रणोद्भेदे
मृत-कल्प-हते तथा ॥ २.२१९ ॥

220 चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ...{Loading}...

चेष्टा-भोजन-वाग्-रोधे
नेत्रादि-प्रतिभेदने।
कन्धरा-बाहु-सक्थ्नां च
भङ्गे मध्यम-साहसः ॥ २.२२० ॥

221 एकङ् घ्नताम् ...{Loading}...

एकं घ्नतां बहूनां च
यथोक्ताद् द्वि-गुणो दमः।
कलहापहृतं देयं
दण्डश् च द्वि-गुणस् ततः ॥ २.२२१ ॥

222 दुःखम् उत्पादयेद् ...{Loading}...

दुःखम् उत्पादयेद् यस् तु
स समुत्थानजं व्ययम्।
दाप्यो दण्डं च यो यस्मिन्
कलहे समुदाहृतः ॥ २.२२२ ॥

223 अभिघाते तथा ...{Loading}...

अभिघाते तथा छेदे
भेदे कुड्यावपातने।
पणान् दाप्यः पञ्च दश
विंशतिं तद् व्ययं तथा ॥ २.२२३ ॥

224 दुःखोत्पादि गृहे ...{Loading}...

दुःखोत्पादि गृहे द्रव्यं
क्षिपन् प्राण-हरं तथा।
षोडशाद्यः पणान् दाप्यो
द्वितीयो मध्यमं दमम् ॥ २.२२४ ॥

225 दुःखे च ...{Loading}...

दुःखे च शोणितोत्पादे
शाखाङ्ग-च्छेदने तथा।
दण्डः क्षुद्र-पशूनां तु
द्वि-पण-प्रभृतिः क्रमात् ॥ २.२२५ ॥

226 लिङ्गस्य छेदने ...{Loading}...

लिङ्गस्य छेदने मृत्यौ
मध्यमो मूल्यम् एव च।
महा-पशूनाम् एतेषु
स्थानेषु द्वि-गुणो दमः ॥ २.२२६ ॥

227 प्ररोहिशाखिनां शाखा ...{Loading}...

प्ररोहि-शाखिनां शाखा-
स्कन्ध-सर्व-विदारणे।
उपजीव्य-द्रुमाणां च
विंशतेर् द्वि-गुणो दमः ॥ २.२२७ ॥

228 चैत्यश्मशानसीमासु पुण्यस्थाने ...{Loading}...

चैत्य-श्मशान-सीमासु
पुण्य-स्थाने सुरालये।
जात-द्रुमाणां द्वि-गुणो
दमो वृक्षे च विश्रुते ॥ २.२२८ ॥

229 गुल्मगुच्छक्षुपलता प्रतानौषधिवीरुधाम् ...{Loading}...

गुल्म-गुच्छ-क्षुप-लता-
प्रतानौषधि-वीरुधाम्।
पूर्व-स्मृताद् अर्ध-दण्डः
स्थानेषूक्तेषु कर्तने ॥ २.२२९ ॥