१८ वाक्-पारुष्य-प्रकरणम्

204 सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम्(८३) ...{Loading}...

सत्यासत्यान्यथा-स्तोत्रैर्
न्यूनाङ्गेन्द्रिय-रोगिणाम्(८३)।
क्षेपं करोति चेद् दण्ड्यः
पणान् अर्ध-त्रयोदशान् ॥ २.२०४ ॥

205 अभिगन्ता ऽस्मि ...{Loading}...

अभिगन्ता ऽस्मि भगिनीं
मातरं वा तवेति ह।
शपन्तं दापयेद् राजा
पञ्च-विंशतिकं दमम् ॥ २.२०५ ॥

206 अर्धो ऽधर्मेषु ...{Loading}...

अर्धो ऽधर्मेषु द्वि-गुणः
पर-स्त्रीषूत्तमेषु च।
दण्ड-प्रणयनं कार्यं
वर्ण-जात्य्-उत्तराधरैः ॥ २.२०६ ॥

207 प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा ...{Loading}...

प्रातिलोम्यापवादेषु
द्वि-गुण-त्रि-गुणा दमाः।
वर्णानाम् आनुलोम्येन
तस्माद् अर्धार्ध-हानितः ॥ २.२०७ ॥

208 बाहुग्रीवानेत्रसक्थि विनाशे ...{Loading}...

बाहु-ग्रीवा-नेत्र-सक्थि-
विनाशे वाचिके दमः।
सत्यस् तद्-अर्धिकः पाद-
नासा-कर्ण-करादिषु ॥ २.२०८ ॥

209 अशक्तस् तु ...{Loading}...

अशक्तस् तु वदन्न् एवं
दण्डनीयः पणान् दश।
तथा शक्तः प्रतिभुवं
दाप्यः क्षेमाय तस्य तु ॥ २.२०९ ॥

210 पतनीयकृते क्षेपे ...{Loading}...

पतनीय-कृते क्षेपे
दण्डो मध्यम-साहसः।
उपपातक-युक्ते तु
दाप्यः प्रथम-साहसम् ॥ २.२१० ॥

211 त्रैविद्यनृपदेवानां क्षेप ...{Loading}...

त्रैविद्य-नृप-देवानां
क्षेप उत्तम-साहसः।
मध्यमो जाति-पूगानां
प्रथमो ग्राम-देशयोः ॥ २.२११ ॥