१७ द्यूत-समाह्वय-प्रकरणम्

199 ग्लहे शतिकवृद्धेस् ...{Loading}...

ग्लहे शतिक-वृद्धेस् तु
सभिकः पञ्चकं शतम्।
गृह्णीयाद् धूर्त-कितवाद्
इतराद् दशकं शतम् ॥ २.१९९ ॥

200 स सम्यक्पालितो ...{Loading}...

स सम्यक्-पालितो दद्याद्
राज्ञे भागं यथा-कृतम्।
जितम् उद्ग्राहयेज् जेत्रे
दद्यात् सत्यं वचः क्षमी ॥ २.२०० ॥

201 प्राप्ते नृपतिना ...{Loading}...

प्राप्ते नृपतिना भागे
प्रसिद्धे धूर्त-मण्डले।
जितं स-सभिके स्थाने
दापयेद् अन्यथा न तु ॥ २.२०१ ॥

202 द्रष्टारो व्यवहाराणां ...{Loading}...

द्रष्टारो व्यवहाराणां
साक्षिणश् च त एव हि।
राज्ञा स-चिह्नं निर्वास्याः
कूटाक्षोपधि-देविनः ॥ २.२०२ ॥

203 द्यूतम् एकमुखङ् ...{Loading}...

द्यूतम् एक-मुखं कार्यं
तस्कर-ज्ञान-कारणात्।
एष एव विधिर् ज्ञेयः
प्राणि-द्यूते समाह्वये ॥ २.२०३ ॥