१६ वेतनादान-प्रकरणम्

193 गृहीतवेतनः कर्म ...{Loading}...

गृहीत-वेतनः कर्म
त्यजन् द्वि-गुणम् आवहेत्।
अगृहीते समं दाप्यो
भृत्यै रक्ष्य उपस्करः ॥ २.१९३ ॥

194 दाप्यस् तु ...{Loading}...

दाप्यस् तु दशमं भागं
वाणिज्य-पशु-सस्यतः।
अनिश्चित्य भृतिं यस् तु
कारयेत् स मही-क्षिता ॥ २.१९४ ॥

195 देशङ् कालञ् ...{Loading}...

देशं कालं च यो ऽतीयाल्
लाभं कुर्याच् च यो ऽन्यथा।
तत्र स्यात् स्वामिनश् छन्दो
ऽधिकं देयं कृते ऽधिके ॥ २.१९५ ॥

196 यो यावत् ...{Loading}...

यो यावत् कुरुते कर्म
तावत् तस्य तु वेतनम्।
उभयोर् अप्य् असाध्यं चेत्
साध्ये कुर्याद् यथा-श्रुतम् ॥ २.१९६ ॥

197 अराजदैविकन् नष्टं ...{Loading}...

अराज-दैविकं नष्टं
भाण्डं दाप्यस् तु वाहकः।
प्रस्थान-विघ्न-कृच् चैव
प्रदाप्यो द्वि-गुणां भृतिम् ॥ २.१९७ ॥

198 प्रक्रान्ते सप्तमम् ...{Loading}...

प्रक्रान्ते सप्तमं भागं
चतुर्थं पथि सन्त्यजन्।
भृतिम् अर्ध-पथे सर्वां
प्रदाप्यस् त्याजको ऽपि च ॥ २.१९८ ॥