१५ संविद्-व्यतिक्रम-प्रकरणम्

185 राजा कृत्वा ...{Loading}...

राजा कृत्वा पुरे स्थानं
ब्राह्मणान् न्यस्य तत्र तु।
त्रैविद्यं वृत्तिमद्[?] ब्रूयात्
स्व-धर्मः पाल्यताम् इति ॥ २.१८५ ॥

186 निजधर्माविरोधेन यस् ...{Loading}...

निज-धर्माविरोधेन
यस् तु समयिको भवेत्।
सो ऽपि यत्नेन संरक्ष्यो
धर्मो राज-कृतश् च यः ॥ २.१८६ ॥

187 गणद्रव्यं हरेद् ...{Loading}...

गण-द्रव्यं हरेद् यस् तु
संविदं लङ्घयेच् च यः।
सर्वस्व-हरणं कृत्वा
तं राष्ट्राद् विप्रवासयेत् ॥ २.१८७ ॥

188 कर्तव्यं वचनं ...{Loading}...

कर्तव्यं वचनं सर्वैः
समूह-हित-वादिनाम्।
यस् तत्र विपरीतः स्यात्
स दाप्यः प्रथमं दमम् ॥ २.१८८ ॥

189 समूहकार्य [?]आयातान् ...{Loading}...

समूह-कार्य [?]आयातान्
कृत-कार्यान् विसर्जयेत्।
स दान-मान-सत्कारैः
पूजयित्वा मही-पतिः ॥ २.१८९ ॥

190 समूहकार्यप्रहितो यल् ...{Loading}...

समूह-कार्य-प्रहितो
यल् लभेत तद् अर्पयेत्।
एकादश-गुणं दाप्यो
यद्य् असौ नार्पयेत् स्वयम् ॥ २.१९० ॥

191 धर्मज्ञाः शुचयो ...{Loading}...

धर्मज्ञाः शुचयो ऽलुब्धा
भवेयुः कार्य-चिन्तकाः।
कर्तव्यं वचनं तेषां
समूह-हित-वादिनाम् ॥ २.१९१ ॥

192 श्रेणिनैगमपाखण्ड गणानाम् ...{Loading}...

श्रेणि-नैगम-पाखण्ड-
गणानाम् अप्य् अयं विधिः।
भेदं चैषां नृपो रक्षेत्
पूर्व-वृत्तिं च पालयेत् ॥ २.१९२ ॥