१४ अभ्युपेत्याशुश्रूषा-प्रकरणम्

182 बलाद्दासीकृतश् चौरैर् ...{Loading}...

बलाद्-दासी-कृतश् चौरैर्
विक्रीतश् चापि मुच्यते।
स्वामि-प्राण-प्रदो भक्त-
त्यागात् तन् निष्क्रयाद् अपि ॥ २.१८२ ॥

183 प्रव्रज्यावसितो राज्ञो ...{Loading}...

प्रव्रज्यावसितो राज्ञो
दास आ-मरणान्तिकम्।
वर्णानाम् आनुलोम्येन
दास्यं न प्रतिलोमतः ॥ २.१८३ ॥

184 कृतशिल्पो ऽपि ...{Loading}...

कृत-शिल्पो ऽपि निवसेत्
कृत-कालं गुरोर् गृहे।
अन्तेवासी गुरु-प्राप्त-
भोजनस् तत्-फल-प्रदः ॥ २.१८४ ॥