१३ क्रीतानुशय-प्रकरणम्

177 दशैकपञ्चसप्ताह मासत्र्य्अहार्धमासिकम् ...{Loading}...

दशैक-पञ्च-सप्ताह-
मास-त्र्य्-अहार्ध-मासिकम्।
बीजायो-वाह्य-रत्न-स्त्री-
दोह्य-पुंसां परीक्षणम् ॥ २.१७७ ॥

178 अग्नौ सुवर्णम् ...{Loading}...

अग्नौ सुवर्णम् अक्षीणं
रजते द्वि-पलं शते।
अष्टौ त्रपुणि सीसे च
ताम्रे पञ्च दशायसि ॥ २.१७८ ॥

179 शते दशपला ...{Loading}...

शते दश-पला वृद्धिर्
और्णे कार्पास-सौत्रिके।
मध्ये पञ्च-पला वृद्धिः
सूक्ष्मे तु त्रि-पला मता ॥ २.१७९ ॥

180 कार्मिके रोमबद्धे ...{Loading}...

कार्मिके रोम-बद्धे च
त्रिंशद्-भागः क्षयो मतः।
न क्षयो न च वृद्धिश् च
कौशेये वाल्कलेषु च ॥ २.१८० ॥

181 देशङ् कालञ् ...{Loading}...

देशं कालं च भोगं च
ज्ञात्वा नष्टे बलाबलम्।
द्रव्याणां कुशला ब्रूयुर्
यत् तद् दाप्यम् असंशयम् ॥ २.१८१ ॥