१२ दत्ताप्रदानिक-प्रकरणम्

175 स्वङ् कुटुम्बाविरोधेन ...{Loading}...

स्वं कुटुम्बाविरोधेन
देयं दार-सुताद् ऋते।
नान्वये सति सर्वस्वं
यच् चान्यस्मै प्रतिश्रुतम् ॥ २.१७५ ॥

176 प्रतिग्रहः प्रकाशः ...{Loading}...

प्रतिग्रहः प्रकाशः स्यात्
स्थावरस्य विशेषतः।
देयं प्रतिश्रुतं चैव
दत्त्वा नापहरेत् पुनः ॥ २.१७६ ॥