११ अस्वामि-विक्रय-प्रकरणम्

168 स्वं लभेतान्यविक्रीतं ...{Loading}...

स्वं लभेतान्य-विक्रीतं
क्रेतुर् दोषो ऽप्रकाशिते।
हीनाद् रहो हीन-मूल्ये
वेला-हीने च तस्करः ॥ २.१६८ ॥

169 नष्टापहृतम् आसाद्य ...{Loading}...

नष्टापहृतम् आसाद्य
हर्तारं ग्राहयेन् नरम्।
देश-कालातिपत्तौ च
गृहीत्वा स्वयम् अर्पयेत् ॥ २.१६९ ॥

170 विक्रेतुर् दर्शनाच् ...{Loading}...

विक्रेतुर् दर्शनाच् छुद्धिः
स्वामी द्रव्यं नृपो दमम्।
क्रेता मूल्यम् अवाप्नोति
तस्माद् यस् तस्य विक्रयी ॥ २.१७० ॥

171 आगमेनोपभोगेन नष्टम् ...{Loading}...

आगमेनोपभोगेन
नष्टं भाव्यम् अतो ऽन्यथा।
पञ्च-बन्धो दमस् तस्य
राज्ञे तेनाविभाविते ॥ २.१७१ ॥

172 हृतम् प्रनष्टं ...{Loading}...

हृतं प्रनष्टं यो द्रव्यं
पर-हस्ताद् अवाप्नुयात्।
अनिवेद्य नृपे दण्ड्यः
स तु षण्-णवतिं पणान् ॥ २.१७२ ॥

173 शौल्किकैः स्थानपालैर् ...{Loading}...

शौल्किकैः स्थान-पालैर् वा
नष्टापहृतम् आहृतम्।
अर्वाक् संवत्सरात् स्वामी
हरेत परतो नृपः ॥ २.१७३ ॥

174 पणान् एकशफे ...{Loading}...

पणान् एकशफे दद्याच्
चतुरः पञ्च मानुषे।
महिषोष्ट्र-गवां द्वौ द्वौ
पादं पादम् अजाविके ॥ २.१७४ ॥