१० स्वामि-पाल-विवाद-प्रकरणम्

159 माषान् अष्टौ ...{Loading}...

माषान् अष्टौ तु महिषी
सस्य-घातस्य कारिणी।
दण्डनीया तद्-अर्धं तु
गौस् तद्-अर्धम् अजाविकम् ॥ २.१५९ ॥

160 भक्षयित्वोपविष्टानां यथोक्ताद् ...{Loading}...

भक्षयित्वोपविष्टानां
यथोक्ताद् द्वि-गुणो दमः।
समम् एषां विवीते ऽपि
खरोष्ट्रं महिषी-समम् ॥ २.१६० ॥

161 यावत् सस्यं ...{Loading}...

यावत् सस्यं विनश्येत् तु
तावत् स्यात् क्षेत्रिणः फलम्।
गोपस् ताड्यश् च गोमी तु
पूर्वोक्तं दण्डम् अर्हति ॥ २.१६१ ॥

162 पथि ग्रामविवीतान्ते ...{Loading}...

पथि ग्राम-विवीतान्ते
क्षेत्रे दोषो न विद्यते।
अकामतः काम-चारे
चौरवद् दण्डम् अर्हति ॥ २.१६२ ॥

163 महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ...{Loading}...

महोक्षोत्सृष्ट-पशवः
सूतिका-गन्तुकादयः।
पालो येषां न ते मोच्या
दैव-राज-परिप्लुताः ॥ २.१६३ ॥

164 यथा ऽर्पितान् ...{Loading}...

यथा ऽर्पितान् पशून् गोपः
सायं प्रत्यर्पयेत् तथा।
प्रमाद-मृत-नष्टांश् च
प्रदाप्यः कृत-वेतनः ॥ २.१६४ ॥

165 पालदोषविनाशे तु ...{Loading}...

पाल-दोष-विनाशे तु पाले
दण्डो विधीयते।
अर्ध-त्रयोदश-पणः
स्वामिनो द्रव्यम् एव च ॥ २.१६५ ॥

166 ग्राम्येच्छया गोप्रचारो ...{Loading}...

ग्राम्येच्छया गो-प्रचारो
भूमि-राज-वशेन वा।
द्विजस् तृणैधः-पुष्पाणि
सर्वतः सर्वदा हरेत् ॥ २.१६६ ॥

167 धनुःशतम् परीणाहो ...{Loading}...

धनुः-शतं परीणाहो
ग्रामे क्षेत्रान्तरं भवेत्।
द्वे शते खर्वटस्य स्यान्
नगरस्य चतुः-शतम् ॥ २.१६७ ॥