०९ सीमा-विवाद-प्रकरणम्

150 सीन्नो विवादे ...{Loading}...

सीन्नो विवादे क्षेत्रस्य
सामन्ताः स्थविरादयः।
गोपाः सीमा-कृषाणा ये
सर्वे च वन-गोचराः ॥ २.१५० ॥

151 नयेयुर् एते ...{Loading}...

नयेयुर् एते सीमानं
स्थलाङ्गार-तुष-द्रुमैः।
सेतु-वल्मीक-निन्नास्थि-
चैत्याद्यैर् उपलक्षिताम् ॥ २.१५१ ॥

152 सामन्ता वा ...{Loading}...

सामन्ता वा सम-ग्रामाश्
चत्वारो ऽष्टौ दशापि वा।
रक्त-स्रग्-वसनाः सीमां
नयेयुः क्षिति-धारिणः ॥ २.१५२ ॥

153 अनृते तु ...{Loading}...

अनृते तु पृथग् दण्ड्या
राज्ञा मध्यम-साहसम्।
अभावे ज्ञातृ-चिह्नानां
राजा सीन्नः प्रवर्तिता ॥ २.१५३ ॥

154 आरामायतनग्राम निपानोद्यानवेश्मसु ...{Loading}...

आरामायतन-ग्राम-
निपानोद्यान-वेश्मसु।
एष एव विधिर् ज्ञेयो
वर्षाम्बु-प्रवहादिषु ॥ २.१५४ ॥

155 मर्यादायाः प्रभेदे ...{Loading}...

मर्यादायाः प्रभेदे च
सीमातिक्रमणे तथा।
क्षेत्रस्य हरणे दण्डा
अधमोत्तम-मध्यमाः ॥ २.१५५ ॥

156 न निषेध्यो ...{Loading}...

न निषेध्यो ऽल्प-बाधस् तु
सेतुः कल्याण-कारकः।
पर-भूमिं हरन् कूपः
स्वल्प-क्षेत्रो-बहूदकः ॥ २.१५६ ॥

157 स्वामिने यो ...{Loading}...

स्वामिने यो ऽनिवेद्यैव
क्षेत्रे सेतुं प्रवर्तयेत्।
उत्पन्ने स्वामिनो भोगस्
तद्-अभावे मही-पतेः ॥ २.१५७ ॥

158 फालाहतम् अपि ...{Loading}...

फालाहतम् अपि क्षेत्रं
न कुर्याद् यो न कारयेत्।
स प्रदाप्यः कृष्ट-फलं
क्षेत्रम् अन्येन कारयेत् ॥ २.१५८ ॥