०७ दिव्य-प्रकरणम्

095 तुलाग्न्य्आपो विषङ् ...{Loading}...

तुलाग्न्य्-आपो विषं कोशो
दिव्यानीह विशुद्धये।
महाभियोगेष्व् एतानि
शीर्षकस्थे ऽभियोक्तरि ॥ २.९५ ॥

096 रुच्या वा ...{Loading}...

रुच्या वा ऽन्यतरः कुर्याद्
इतरो वर्तयेच् छिरः।
विना ऽपि शीर्षकात् कुर्यान्
नृप-द्रोहे ऽथ पातके ॥ २.९६ ॥

097 सचैलं स्नातम् ...{Loading}...

स-चैलं स्नातम् आहूय
सूर्योदय उपोषितम्।
कारयेत् सर्व-दिव्यानि
नृप-ब्राह्मण-सन्निधौ ॥ २.९७ ॥

098 तुला स्त्रीबालवृद्धान्ध ...{Loading}...

तुला स्त्री-बाल-वृद्धान्ध-
पङ्गु-ब्राह्मण-रोगिणाम्।
अग्निर् जलं वा शूद्रस्य
यवाः सप्त विषस्य वा ॥ २.९८ ॥

099 नासहस्राद् धरेत् ...{Loading}...

नासहस्राद् धरेत् फालं
न विषं न तुलां तथा।
नृपार्थेष्व् अभिशापे च
वहेयुः शुचयः सदा ॥ २.९९ ॥

100 तुलाधारणविद्वद्भिर् अभियुक्तस् ...{Loading}...

तुला-धारण-विद्वद्भिर्
अभियुक्तस् तुलाश्रितः।
प्रतिमान-समी-भूतो
रेखां कृत्वा ऽवतारितः ॥ २.१०० ॥

101 त्वन् तुले ...{Loading}...

त्वं तुले सत्य-धामा ऽसि
पुरा देवैर् विनिर्मिता।
तत् सत्यं वद कल्याणि
संशयान् मां विमोचय ॥ २.१०१ ॥

102 यद्य् अस्मि ...{Loading}...

यद्य् अस्मि पाप-कृन् मातस्
ततो मां त्वम् अधो नय।
शुद्धश् चेद् गमयोर्ध्वं मां
तुलाम् इत्य् अभिमन्त्रयेत् ॥ २.१०२ ॥

103 करौ विमृदितव्रीहेर् ...{Loading}...

करौ विमृदित-व्रीहेर्
लक्षयित्वा ततो न्यसेत्।
सप्ताश्वत्थस्य पत्राणि
तावत् सूत्रेण वेष्टयेत् ॥ २.१०३ ॥

104 त्वम् अग्ने ...{Loading}...

त्वम् अग्ने सर्व-भूतानाम्
अन्तश् चरसि पावक।
साक्षिवत् पुण्य-पापेभ्यो
ब्रूहि सत्यं कवे मम ॥ २.१०४ ॥

105 तस्येत्य् उक्तवतो ...{Loading}...

तस्येत्य् उक्तवतो लौहं
पञ्चाशत् पलिकं समम्।
अग्नि-वर्णं न्यसेत् पिण्डं
हस्तयोर् उभयोर् अपि ॥ २.१०५ ॥

106 स तम् ...{Loading}...

स तम् आदाय सप्तैव
मण्डलानि शनैर् व्रजेत्।
षोडशाङ्गुलकं ज्ञेयं
मण्डलं तावद् अन्तरम् ॥ २.१०६ ॥

107 मुक्त्वा ऽग्निम् ...{Loading}...

मुक्त्वा ऽग्निं मृदित-व्रीहिर्
अदग्धः शुद्धिम् आप्नुयात्।
अन्तरा पतिते पिण्डे
सन्देहे वा पुनर् हरेत् ॥ २.१०७ ॥

108 सत्येन मा ...{Loading}...

सत्येन मा ऽभिरक्ष त्वं
वरुणेत्य् अभिशाप्य कम्।
नाभि-दघ्नोदकस्थस्य
गृहीत्वोरू जलं वशेत् ॥ २.१०८ ॥

109 समकालम् इषुम् ...{Loading}...

सम-कालम् इषुं मुक्तम्
आनीयान्यो जवी नरः।
गते तस्मिन् निमग्नाङ्गं
पश्येच् चेच् छुद्धिम् आप्नुयात् ॥ २.१०९ ॥

110 त्वं विष ...{Loading}...

त्वं विष ब्रह्मणः पुत्रः
सत्य-धर्मे व्यवस्थितः।
त्रायस्वास्माद् अभीशापात्
सत्येन भव मे ऽमृतम् ॥ २.११० ॥

111 एवम् उक्त्वा ...{Loading}...

एवम् उक्त्वा विषं शार्ङ्गं
भक्षयेद् धिम-शैलजम्।
यस्य वेगैर् विना जीर्येच्
छुद्धिं तस्य विनिर्दिशेत् ॥ २.१११ ॥

112 देवान् उग्रान् ...{Loading}...

देवान् उग्रान् समभ्यर्च्य
तत्-स्नानोदकम् आहरेत्।
संस्राव्य पाययेत् तस्माज्
जलं तु प्रसृति-त्रयम् ॥ २.११२ ॥

113 अर्वाक् चतुर्दशाद् ...{Loading}...

अर्वाक् चतुर्दशाद् अह्नो
यस्य नो राज-दैविकम्।
व्यसनं जायते घोरं स
शुद्धः स्यान् न संशयः ॥ २.११३ ॥