०६ लेख्य-प्रकरणम्

084 यः कश्चिद् ...{Loading}...

यः कश्चिद् अर्थो निष्णातः
स्व-रुच्या तु परस्परम्।
लेख्यं तु साक्षिमत् कार्यं
तस्मिन् धनिक-पूर्वकम् ॥ २.८४ ॥

085 समामासतद्अर्धाहर् नामजातिस्वगोत्रकैः ...{Loading}...

समा-मास-तद्-अर्धाहर्-
नाम-जाति-स्व-गोत्रकैः।
स-ब्रह्मचारिकात्मीय-
पितृ-नामादि-चिह्नितम् ॥ २.८५ ॥

086 समाप्ते ऽर्थे ...{Loading}...

समाप्ते ऽर्थे ऋणी नाम
स्व-हस्तेन निवेशयेत्।
मतं मे ऽमुक-पुत्रस्य
यद् अत्रोपरि लेखितम् ॥ २.८६ ॥

087 साक्षिणश् च ...{Loading}...

साक्षिणश् च स्व-हस्तेन
पितृ-नामक-पूर्वकम्।
अत्राहम् अमुकः साक्षी
लिखेयुर् इति ते समाः ॥ २.८७ ॥

088 उभयाभ्यर्थितेनैतन् मया ...{Loading}...

उभयाभ्यर्थितेनैतन्
मया ह्य् अमुक-सूनुना।
लिखितं ह्य् अमुकेनेति
लेखको ऽन्ते ततो लिखेत् ॥ २.८८ ॥

089 विना ऽपि ...{Loading}...

विना ऽपि साक्षिभिर् लेख्यं
स्व-हस्त-लिखितं तु यत्।
तत् प्रमाणं स्मृतं लेख्यं
बलोपधि-कृताद् ऋते ॥ २.८९ ॥

090 ऋणं लेख्यकृतन् ...{Loading}...

ऋणं लेख्य-कृतं देयं
पुरुषैस् त्रिभिर् एव तु।
आधिस् तु भुज्यते तावद्
यावत् तन् न प्रदीयते ॥ २.९० ॥

091 देशान्तरस्थे दुर्लेख्ये ...{Loading}...

देशान्तरस्थे दुर्लेख्ये
नष्टोन्मृष्टे हृते तथा।
भिन्ने दग्धे ऽथवा छिन्ने
लेख्यम् अन्यत् तु कारयेत् ॥ २.९१ ॥

092 सन्दिग्धलेख्यशुद्धिः स्यात् ...{Loading}...

सन्दिग्ध-लेख्य-शुद्धिः स्यात्
स्व-हस्त-लिखितादिभिः।
युक्ति-प्राप्ति-क्रिया-चिह्न-
सम्बन्धागम-हेतुभिः ॥ २.९२ ॥

093 लेख्यस्य पृष्ठे ...{Loading}...

लेख्यस्य पृष्ठे ऽभिलिखेद्
दत्त्वा दत्त्वा र्णिको धनम्।
धनी वोपगतं दद्यात्
स्व-हस्त-परिचिह्नितम् ॥ २.९३ ॥

094 दत्त्वा र्णम् ...{Loading}...

दत्त्वा र्णं पाटयेल् लेख्यं
शुद्ध्यै वा ऽन्यत् तु कारयेत्।
साक्षिमच् च भवेद् यद् वा
तद् दातव्यं स-साक्षिकम् ॥ २.९४ ॥