०५ साक्षि-प्रकरणम्

068 तपस्विनो दानशीलाः ...{Loading}...

तपस्विनो दान-शीलाः
कुलीनाः सत्य-वादिनः।
धर्म-प्रधाना ऋजवः
पुत्रवन्तो धनान्विताः ॥ २.६८ ॥

069 त्र्य्अवराः साक्षिणो ...{Loading}...

त्र्य्-अवराः साक्षिणो ज्ञेयाः
श्रौत-स्मार्त-क्रिया-पराः।
यथा-जाति यथा-वर्णं
सर्वे सर्वेषु वा स्मृताः ॥ २.६९ ॥

070 स्त्रीबालवृद्धकितव मत्तोन्मत्ताभिशस्तकाः ...{Loading}...

स्त्री-बाल-वृद्ध-कितव-
मत्तोन्मत्ताभिशस्तकाः।
रङ्गावतारि-पाखण्डि-
कूट-कृद्-विकलेन्द्रियाः ॥ २.७० ॥

071 पतिताप्तार्थसम्बन्धि सहायरिपुतस्कराः ...{Loading}...

पतिताप्तार्थ-सम्बन्धि-
सहाय-रिपु-तस्कराः।
साहसी दृष्ट-दोषश् च
निर्धूताद्यास् त्व् असाक्षिणः ॥ २.७१ ॥

072 उभयानुमतः साक्षी ...{Loading}...

उभयानुमतः साक्षी
भवत्य् एको ऽपि धर्मवित्।
सर्वः साक्षी सङ्ग्रहणे
चौर्य-पारुष्य-साहसे ॥ २.७२ ॥

073 साक्षिणः श्रावयेद् ...{Loading}...

साक्षिणः श्रावयेद् वादि-
प्रतिवादि-समीपगान्।
ये पातक-कृतां लोका
महा-पातकिनां तथा ॥ २.७३ ॥

074 अग्निदानाञ् च ...{Loading}...

अग्नि-दानां च ये लोका
ये च स्त्री-बाल-घातिनाम्।
स तान् सर्वान् अवाप्नोति
यः साक्ष्यम् अनृतं वदेत् ॥ २.७४ ॥

075 सुकृतं यत् ...{Loading}...

सुकृतं यत् त्वया किञ्चिज्
जन्मान्तर-शतैः कृतम्।
तत् सर्वं तस्य जानीहि
यं पराजयसे मृषा ॥ २.७५ ॥

076 अब्रुवन् हि ...{Loading}...

अब्रुवन् हि नरः साक्ष्यम्
ऋणं स-दश-बन्धकम्।
राज्ञा सर्वं प्रदाप्यः स्यात्
षट्-चत्वारिंशके ऽहनि ॥ २.७६ ॥

077 न ददाति ...{Loading}...

न ददाति हि यः साक्ष्यं
जानन्न् अपि नराधमः।
स कूट-साक्षिणां पापैस्
तुल्यो दण्डेन चैव हि ॥ २.७७ ॥

078 द्वैधे बहूनां ...{Loading}...

द्वैधे बहूनां वचनं
समेषु गुणिनां तथा।
गुणि-द्वैधे तु वचनं
ग्राह्यं ये गुणवत्तमाः ॥ २.७८ ॥

079 यस्योचुः साक्षिणः ...{Loading}...

यस्योचुः साक्षिणः सत्यां
प्रतिज्ञां स जयी भवेत्।
अन्यथा वादिनो यस्य
ध्रुवस् तस्य पराजयः ॥ २.७९ ॥

080 उक्ते ऽपि ...{Loading}...

उक्ते ऽपि साक्षिभिः साक्ष्ये
यद्य् अन्ये गुणवत्तमाः।
द्वि-गुणा वा ऽन्यथा ब्रूयुः
कूटाः स्युः पूर्व-साक्षिणः ॥ २.८० ॥

081 पृथक् पृथग् ...{Loading}...

पृथक् पृथग् दण्डनीयाः
कूटकृत् साक्षिणस् तथा।
विवादाद् द्वि-गुणं दण्डं
विवास्यो ब्राह्मणः स्मृतः ॥ २.८१ ॥

082 यः साक्ष्यं ...{Loading}...

यः साक्ष्यं श्रावितो ऽन्येभ्यो
निह्नुते तत् तमो-वृतः।
स दाप्यो ऽष्ट-गुणं दण्डं
ब्राह्मणं तु विवासयेत् ॥ २.८२ ॥

083 वर्णिनां हि ...{Loading}...

वर्णिनां हि वधो यत्र
तत्र साक्ष्य् अनृतं वदेत्।
तत्-पावनाय निर्वाप्यश्
चरुः सारस्वतो द्विजैः ॥ २.८३ ॥