०४ उपनिधि-प्रकरणम्

065 वासनस्थम् अनाख्याय ...{Loading}...

वासनस्थम् अनाख्याय
हस्ते ऽन्यस्य यद् अर्प्यते।
द्रव्यं तद् औपनिधिकं
प्रतिदेयं तथैव तत् ॥ २.६५ ॥

066 न दाप्यो ...{Loading}...

न दाप्यो ऽपहृतं तं तु
राज-दैविक-तस्करैः।
भ्रेषश् चेन् मार्गिते ऽअदत्ते
दाप्यो दण्डं च तत्-समम् ॥ २.६६ ॥

067 आजीवन् स्वेच्छया ...{Loading}...

आजीवन् स्वेच्छया दण्ड्यो
दाप्यस् तं चापि सोदयम्।
याचितान्वाहित-न्यास-
निक्षेपादिष्व् अयं विधिः ॥ २.६७ ॥