०३ ऋणादान-प्रकरणम्

037 अशीतिभागो वृद्धिः ...{Loading}...

अशीति-भागो वृद्धिः स्यान्
मासि मासि सबन्धके।
वर्ण-क्रमाच् छतं द्वि-त्रि-
चतुष्-पञ्चकम् अन्यथा ॥ २.३७ ॥

038 कान्तारगास् तु ...{Loading}...

कान्तारगास् तु दशकं
सामुद्रा विंशकं शतम्।
दद्युर् वा स्व-कृतां वृद्धिं
सर्वे सर्वासु जातिषु ॥ २.३८ ॥

039 सन्ततिस् तु ...{Loading}...

सन्ततिस् तु पशु-स्त्रीणां
रसस्याष्ट-गुणा परा।
वस्त्र-धान्य-हिरण्यानां
चतुस्-त्रि-द्वि-गुणा परा ॥ २.३९ ॥

040 प्रपन्नं साधयन्न् ...{Loading}...

प्रपन्नं साधयन्न् अर्थं
न वाच्यो नृपतेर् भवेत्।
साध्यमानो नृपं गच्छन्
दण्ड्यो दाप्यश् च तद्-धनम् ॥ २.४० ॥

041 गृहीतानुक्रमाद् दाप्यो ...{Loading}...

गृहीतानुक्रमाद् दाप्यो
धनिनाम् अधमर्णिकः।
दत्त्वा तु ब्राह्मणायैव
नृपतेस् तद्-अनन्तरम् ॥ २.४१ ॥

042 राज्ञा ऽधमर्णिको ...{Loading}...

राज्ञा ऽधमर्णिको दाप्यः
साधिताद् दशकं शतम्।
पञ्चकं च शतं दाप्यः
प्राप्तार्थो ह्य् उत्तमर्णिकः ॥ २.४२ ॥

043 हीनजातिम् परिक्षीणम् ...{Loading}...

हीन-जातिं परिक्षीणम्
ऋणार्थं कर्म कारयेत्।
ब्राह्मणस् तु परिक्षीणः
शनैर् दाप्यो यथोदयम् ॥ २.४३ ॥

044 दीयमानन् न ...{Loading}...

दीयमानं न गृह्णाति
प्रयुक्तं यः स्वकं धनम्।
मध्यस्थ-स्थापितं चेत् स्याद्
वर्धते न ततः परम् ॥ २.४४ ॥

045 अविभक्तैः कुटुम्बार्थे ...{Loading}...

अविभक्तैः कुटुम्बार्थे
यद् ऋणं तु कृतं भवेत्।
दद्युस् तद् रिक्थिनः प्रेते
प्रोषिते वा कुटुम्बिनि ॥ २.४५ ॥

046 न योषित्पतिपुत्राभ्यां ...{Loading}...

न योषित्-पति-पुत्राभ्यां
न पुत्रेण कृतं पिता।
दद्याद् ऋते कुटुम्बार्थान्
न पतिः स्त्री-कृतं तथा ॥ २.४६ ॥

047 सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ...{Loading}...

सुरा-काम-द्यूत-कृतं
दण्ड-शुल्कावशिष्टकम्।
वृथा-दानं तथैवेह
पुत्रो दद्यान् न पैतृकम् ॥ २.४७ ॥

048 गोपशौण्डिकशैलूष रजकव्याधयोषिताम् ...{Loading}...

गोप-शौण्डिक-शैलूष-
रजक-व्याध-योषिताम्।
ऋणं दद्यात् पतिस् तेषां
यस्माद् वृत्तिस् तद्-आश्रया ॥ २.४८ ॥

049 प्रतिपन्नं स्त्रिया ...{Loading}...

प्रतिपन्नं स्त्रिया देयं
पत्या वा सह यत् कृतम्।
स्वयं-कृतं वा यद् ऋणं
नान्यत् स्त्री दातुम् अर्हति ॥ २.४९ ॥

050 पितरि प्रोषिते ...{Loading}...

पितरि प्रोषिते प्रेते
व्यसनाभिप्लुते ऽपि वा।
पुत्र-पौत्रैर् ऋणं देयं
निह्नवे साक्षि-भावितम् ॥ २.५० ॥

051 रिक्थग्राह ऋणन् ...{Loading}...

रिक्थ-ग्राह ऋणं दाप्यो
योषिद्-ग्राहस् तथैव च।
पुत्रो ऽनन्याश्रित-द्रव्यः
पुत्र-हीनस्य रिक्थिनः ॥ २.५१ ॥

052 भ्रातॄणाम् अथ ...{Loading}...

भ्रातॄणाम् अथ दम्पत्योः
पितुः पुत्रस्य चैव हि।
प्रातिभाव्यम् ऋणं साक्ष्यम्
अविभक्ते न तु स्मृतम् ॥ २.५२ ॥

053 दर्शने प्रत्यये ...{Loading}...

दर्शने प्रत्यये दाने
प्रातिभाव्यं विधीयते।
आद्यौ तु वितथे दाप्याव्
इतरस्य सुता अपि ॥ २.५३ ॥

054 दर्शनप्रतिभूर् यत्र ...{Loading}...

दर्शन-प्रतिभूर् यत्र
मृतः प्रात्ययिको ऽपि वा।
न तत्-पुत्रा ऋणं दद्युर्
दद्युर् दानाय यः स्थितः ॥ २.५४ ॥

055 बहवः स्युर् ...{Loading}...

बहवः स्युर् यदि स्वांशैर्
दद्युः प्रतिभुवो धनम्।
एक-च्छायाश्रितेष्व् एषु
धनिकस्य यथा-रुचि ॥ २.५५ ॥

056 प्रतिभूर् दापितो ...{Loading}...

प्रतिभूर् दापितो यत् तु
प्रकाशं धनिनो धनम्।
द्वि-गुणं प्रतिदातव्यम्
ऋणिकैस् तस्य तद् भवेत् ॥ २.५६ ॥

057 सन्ततिः स्त्रीपशुष्व् ...{Loading}...

सन्ततिः स्त्री-पशुष्व् एव
धान्यं त्रि-गुणम् एव च।
वस्त्रं चतुर्-गुणं प्रोक्तं
रसश् चाष्ट-गुणस् तथा ॥ २.५७ ॥

058 आधिः प्रणश्येद् ...{Loading}...

आधिः प्रणश्येद् द्वि-गुणे
धने यदि न मोक्ष्यते।
काले काल-कृतो नश्येत्
फल-भोग्यो न नश्यति ॥ २.५८ ॥

059 गोप्याधिभोगे नो ...{Loading}...

गोप्याधिभोगे नो वृद्धिः
सोपकारे च हापिते।
नष्टो देयो विनष्टश् च
दैव-राज-कृताद् ऋते ॥ २.५९ ॥

060 आधेः स्वीकरणात् ...{Loading}...

आधेः स्वीकरणात् सिद्धी
रक्ष्यमाणो ऽप्य् असारताम्।
यातश् चेद् अन्य आधेयो
धन-भाग् वा धनी भवेत् ॥ २.६० ॥

061 चरित्रबन्धककृतं स ...{Loading}...

चरित्र-बन्धक-कृतं
स वृद्ध्या दापयेद् धनम्।
सत्यं-कार-कृतं द्रव्यं
द्वि-गुणं प्रतिदापयेत् ॥ २.६१ ॥

062 उपस्थितस्य मोक्तव्य ...{Loading}...

उपस्थितस्य मोक्तव्य
आधिः स्तेनो ऽन्यथा भवेत्।
प्रयोजके ऽसति धनं
कुले न्यस्य+आधिम् आप्नुयात् ॥ २.६२ ॥

063 तत्कालकृतमूल्यो वा ...{Loading}...

तत्-काल-कृत-मूल्यो वा
तत्र तिष्ठेद् अवृद्धिकः।
विना धारणकाद् वा ऽपि
विक्रीणीत स-साक्षिकम् ॥ २.६३ ॥

064 यदा तु ...{Loading}...

यदा तु द्वि-गुणी-भूतम्
ऋणम् आधौ तदा खलु।
मोच्य आधिस् तद्-उत्पन्ने
प्रविष्टे द्वि-गुणे धने ॥ २.६४ ॥