०२ असाधारण-व्यवहार-मातृका-प्रकरणम्

009 अभियोगम् अनिस्तीर्य ...{Loading}...

अभियोगम् अनिस्तीर्य
नैनं प्रत्यभियोजयेत्।
अभियुक्तं च नान्येन
नोक्तं विप्रकृतिं नयेत् ॥ २.९ ॥

010 कुर्यात् प्रत्यभियोगञ् ...{Loading}...

कुर्यात् प्रत्यभियोगं च
कलहे साहसेषु च।
उभयोः प्रतिभूर् ग्राह्यः
समर्थः कार्यनिर्णये ॥ २.१० ॥

011 निह्नवे भावितो ...{Loading}...

निह्नवे भावितो दद्याद्
धनं राज्ञे च तत्समम्।
मिथ्याभियोगी द्विगुणम्
अभियोगाद् धनं वहेत् ॥ २.११ ॥

012 साहसस्तेयपारुष्य गोभिशापात्यये ...{Loading}...

साहसस्तेयपारुष्य-
गोभिशापात्यये स्त्रियाम्।
विवादयेत् सद्य एव
कालो ऽन्यत्रेच्छया स्मृतः ॥ २.१२ ॥

013 देशाद् देशान्तरं ...{Loading}...

देशाद् देशान्तरं याति
सृक्किणी परिलेढि च।
ललाटं स्विद्यते चास्य
मुखं वैवर्ण्यम् एति च ॥ २.१३ ॥

014 परिशुष्यत्स्खलद्वाक्यो विरुद्धम् ...{Loading}...

परिशुष्यत्स्खलद्वाक्यो
विरुद्धं बहु भाषिते।
वाक्-चक्षुः पूजयति नो
तथौष्ठौ निर्भुजत्य् अपि ॥ २.१४ ॥

015 स्वभावाद् विकृतिङ् ...{Loading}...

स्वभावाद् विकृतिं गच्छेन्
मनो-वाक्-काय-कर्मभिः।
अभियोगे ऽथ साक्ष्ये वा
दुष्टः स परिकीर्तितः ॥ २.१५ ॥

016 सन्दिग्धार्थं स्वतन्त्रो ...{Loading}...

सन्दिग्धार्थं स्वतन्त्रो यः
साधयेद् यश् च निष्पतेत्।
न चाहूतो वदेत् किञ्चिद्
धीनो दण्ड्यश् च स स्मृतः ॥ २.१६ ॥

017 साक्षिषूभयतः सत्सु ...{Loading}...

साक्षिषूभयतः सत्सु
साक्षिणः पूर्ववादिनः।
पूर्वपक्षे ऽधरीभूते
भवन्त्य् उत्तरवादिनः ॥ २.१७ ॥

018 सपणश् चेद् ...{Loading}...

सपणश् चेद् विवादः स्यात्
तत्र हीनं तु दापयेत्।
दण्डं च स्वपणं चैव
धनिने धनम् एव च ॥ २.१८ ॥

019 छलन् निरस्य ...{Loading}...

छलं निरस्य भूतेन
व्यवहारान् नयेन् नृपः।
भूतम् अप्य् अनुपन्यस्तं
हीयते व्यवहारतः ॥ २.१९ ॥

020 निह्नुते लिखितन् ...{Loading}...

निह्नुते लिखितं नैकम्
एकदेशे विभावितः।
दाप्यः सर्वं नृपेणार्थं
न ग्राह्यस् त्व् अनिवेदितः ॥ २.२० ॥

021 स्मृत्योर् विरोधे ...{Loading}...

स्मृत्योर् विरोधे न्यायस् तु
बलवान् व्यवहारतः।
अर्थशास्त्रात् तु बलवद्
धर्मशास्त्रम् इति स्थितिः ॥ २.२१ ॥

022 प्रमाणं लिखितम् ...{Loading}...

प्रमाणं लिखितं भुक्तिः
साक्षिणश् चेति कीर्तितम्।
एषाम् अन्यतमाभावे
दिव्यान्यतमम् उच्यते ॥ २.२२ ॥

023 सर्वेष्व् अर्थविवादेषु ...{Loading}...

सर्वेष्व् अर्थविवादेषु
बलवत्य् उत्तराक्रिया।
आधौ प्रतिग्रहे क्रीते
पूर्वा तु बलवत्तरा ॥ २.२३ ॥

024 पश्यतो ऽब्रुवतो ...{Loading}...

पश्यतो ऽब्रुवतो भूमेर्
हानिर् विंशति-वार्षिकी।
परेण भुज्यमानाया
धनस्य दशवार्षिकी ॥ २.२४ ॥

025 आधिसीमोपनिक्षेप जडबालधनैर् ...{Loading}...

आधिसीमोपनिक्षेप-
जडबालधनैर् विना।
तथोपनिधिराजस्त्री-
श्रोत्रियाणां धनैर् अपि ॥ २.२५ ॥

026 आध्यादीनां विहर्तारं ...{Loading}...

आध्यादीनां विहर्तारं
धनिने दापयेद् धनम्।
दण्डं च तत्समं राज्ञे
शक्त्यपेक्षम् अथापि वा ॥ २.२६ ॥

027 आगमो ऽभ्यधिको ...{Loading}...

आगमो ऽभ्यधिको भोगाद्
विना पूर्वक्रमागतात्।
आगमे ऽपि बलं नैव
भुक्तिः स्तोकापि यत्र नो ॥ २.२७ ॥

028 आगमस् तु ...{Loading}...

आगमस् तु कृतो येन
सो ऽभियुक्तस् तम् उद्धरेत्।
न तत्सुतस् तत्सुतो वा
भुक्तिस् तत्र गरीयसी ॥ २.२८ ॥

029 यो ऽभियुक्तः ...{Loading}...

यो ऽभियुक्तः परेतः स्यात्
तस्य रिक्थी तम् उद्धरेत्।
न तत्र कारणं भुक्तिर्
आगमेन विनाकृता ॥ २.२९ ॥

030 नृपेणाधिकृताः पूगाः ...{Loading}...

नृपेणाधिकृताः पूगाः
श्रेणयो ऽथ कुलानि च।
पूर्वं पूर्वं गुरु ज्ञेयं
व्यवहारविधौ नृणाम् ॥ २.३० ॥

031 बलोपाधिविनिर्वृत्तान् व्यवहारान् ...{Loading}...

बलोपाधिविनिर्वृत्तान्
व्यवहारान् निवर्तयेत्।
स्त्री-नक्तम्-अन्तरागार-
बहिः-शत्रुकृतांस् तथा ॥ २.३१ ॥

032 मत्तोन्मत्तार्तव्यसनि बालभीतादियोजितः ...{Loading}...

मत्तोन्मत्तार्तव्यसनि-
बालभीतादियोजितः।
असम्बद्धकृतश् चैव
व्यवहारो न सिध्यति ॥ २.३२ ॥

033 प्रनष्टाधिगतन् देयं ...{Loading}...

प्रनष्टाधिगतं देयं
नृपेण धनिने धनम्।
विभावयेन् न चेल् लिङ्गैस्
तत्समं दण्डम् अर्हति ॥ २.३३ ॥

034 राजा लब्ध्वा ...{Loading}...

राजा लब्ध्वा निधिं दद्याद्
द्विजेभ्यो ऽर्धं द्विजः पुनः।
विद्वान् अशेषम् आदद्यात्
स सर्वस्य प्रभुर् यतः ॥ २.३४ ॥

035 इतरेण निधौ ...{Loading}...

इतरेण निधौ लब्धे
राजा षष्ठांशम् आहरेत्।
अनिवेदितविज्ञातो
दाप्यस् तं दण्डम् एव च ॥ २.३५ ॥

036 देयञ् चौरहृतन् ...{Loading}...

देयं चौरहृतं द्रव्यं
राज्ञा जानपदाय तु।
अददद् धि समाप्नोति
किल्बिषं यस्य तस्य तत् ॥ २.३६ ॥