०१ साधारण-व्यवहार-मातृका-प्रकरणम्

001 व्यवहारान् नृपः ...{Loading}...

व्यवहारान् नृपः पश्येद्
विद्वद्भिर् ब्राह्मणैः सह।
धर्मशास्त्रानुसारेण
क्रोधलोभविवर्जितः ॥ २.१ ॥

002 श्रुताध्ययनसम्पन्ना धर्मज्ञाः ...{Loading}...

श्रुताध्ययनसम्पन्ना
धर्मज्ञाः सत्यवादिनः।
राज्ञा सभासदः कार्या
रिपौ मित्रे च ये समाः ॥ २.२ ॥

003 अपश्यता कार्यवशाद् ...{Loading}...

अपश्यता कार्यवशाद्
व्यवहारान् नृपेण तु।
सभ्यैः सह नियोक्तव्यो
ब्राह्मणः सर्वधर्मवित् ॥ २.३ ॥

004 रागाल् लोभाद् ...{Loading}...

रागाल् लोभाद् भयाद् वापि
स्मृत्यपेतादिकारिणः।
सभ्याः पृथक् पृथग् दण्ड्या
विवादाद् द्विगुणं दमम् ॥ २.४ ॥

005 स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः ...{Loading}...

स्मृत्याचारव्यपेतेन
मार्गेणाधर्षितः परैः।
आवेदयति चेद् राज्ञे
व्यवहारपदं हि तत् ॥ २.५ ॥

006 प्रत्यर्थिनो ऽग्रतो ...{Loading}...

प्रत्यर्थिनो ऽग्रतो लेख्यं
यथावेदितम् अर्थिना।
समामासतदर्धाहर्-
नामजात्यादिचिह्नितम् ॥ २.६ ॥

007 श्रुतार्थस्योत्तरं लेख्यं ...{Loading}...

श्रुतार्थस्योत्तरं लेख्यं
पूर्वावेदकसन्निधौ।
ततो ऽर्थी लेखयेत् सद्यः
प्रतिज्ञातार्थसाधनम् ॥ २.७ ॥

008 तत्सिद्धौ सिद्धिम् ...{Loading}...

तत्-सिद्धौ सिद्धिम् आप्नोति
विपरीतम् अतो ऽन्यथा।
चतुष्पाद् व्यवहारो ऽयं
विवादेषूपदर्शितः ॥ २.८ ॥