१३ राजधर्म-प्रकरणम्

309 महोत्साहः स्थूललक्षः ...{Loading}...

महोत्साहः स्थूल-लक्षः
कृतज्ञो वृद्ध-सेवकः।
विनीतः सत्त्व-सम्पन्नः
कुलीनः सत्य-वाक् शुचिः ॥ १.३०९ ॥

310 अदीर्घसूत्रः स्मृतिमान् ...{Loading}...

अदीर्घ-सूत्रः स्मृतिमान्
अक्षुद्रो ऽपरुषस् तथा।
धार्मिको ऽव्यसनश् चैव
प्राज्ञः शूरो रहस्यवित् ॥ १.३१० ॥

311 स्वरन्ध्रगोप्ता ऽन्वीक्षिक्यां ...{Loading}...

स्व-रन्ध्र-गोप्ता ऽन्वीक्षिक्यां
दण्ड-नीत्यां तथैव च।
विनीतस् त्व् अथ वार्तायां
त्रय्यां चैव नराधिपः ॥ १.३११ ॥

312 स मन्त्रिणः ...{Loading}...

स मन्त्रिणः प्रकुर्वीत
प्राज्ञान् मौलान् स्थिरान् शुचीन्(०८)।
तैः सार्धं चिन्तयेद् राज्यं
विप्रेणाथ ततः स्वयम् ॥ १.३१२ ॥

313 पुरोहितम् प्रकुर्वीत ...{Loading}...

पुरोहितं प्रकुर्वीत
दैवज्ञम् उदितोदितम्।
दण्ड-नीत्यां च कुशलम्
अथर्वाङ्गिरसे तथा ॥ १.३१३ ॥

314 श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् ...{Loading}...

श्रौत-स्मार्त-क्रिया-हेतोर्
वृणुयाद् एव च र्त्विजः।
यज्ञांश् चैव प्रकुर्वीत
विधिवद् भूरि-दक्षिणान् ॥ १.३१४ ॥

315 भोगांश् च ...{Loading}...

भोगांश् च दद्याद् विप्रेभ्यो
वसूनि विविधानि च।
अक्षयो ऽयं निधी राज्ञां
यद् विप्रेषूपपादितम् ॥ १.३१५ ॥

316 अस्कन्नम् अव्यथञ् ...{Loading}...

अस्कन्नम् अव्यथं चैव
प्रायश्चित्तैर् अदूषितम्।
अग्नेः सकाशाद् विप्राग्नौ
हुतं श्रेष्ठम् इहोच्यते ॥ १.३१६ ॥

317 अलब्धम् ईहेद् ...{Loading}...

अलब्धम् ईहेद् धर्मेण
लब्धं यत्नेन पालयेत्।
पालितं वर्धयेन् नीत्या
वृद्धं पात्रेषु निक्षिपेत् ॥ १.३१७ ॥

318 दत्त्वा भूमिन् ...{Loading}...

दत्त्वा भूमिं निबन्धं वा
कृत्वा लेख्यं तु कारयेत् (१०)।
आगामि-भद्र-नृपति-
परिज्ञानाय पार्थिवः ॥ १.३१८ ॥

319 पटे वा ...{Loading}...

पटे वा ताम्र-पट्टे वा
स्व-मुद्रोपरि-चिह्नितम्।
अभिलेख्य+आत्मनो वंश्यान्
आत्मानं च मही-पतिः ॥ १.३१९ ॥

320 प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ...{Loading}...

प्रतिग्रह-परीमाणं
दान-च्छेदोपवर्णनम्।
स्व-हस्त-काल-सम्पन्नं
शासनं कारयेत् स्थिरम् ॥ १.३२० ॥

321 रम्यम् पशव्यम् ...{Loading}...

रम्यं पशव्यम् आजीव्यं
जाङ्गलं देशम् आवसेत्।
तत्र दुर्गाणि कुर्वीत
जन-कोशात्म-गुप्तये ॥ १.३२१ ॥

322 तत्र तत्र ...{Loading}...

तत्र तत्र च निष्णातान्
अध्यक्षान् कुशलान् शुचीन्।
प्रकुर्याद् आय-कर्मान्त-
व्यय-कर्मसु चोद्यतान् ॥ १.३२२ ॥

323 नातः परतरो ...{Loading}...

नातः परतरो धर्मो
नृपाणां यद् रणार्जितम्।
विप्रेभ्यो दीयते द्रव्यं
प्रजाभ्यश् चाभयं सदा ॥ १.३२३ ॥

324 य आहवेषु ...{Loading}...

य आहवेषु वध्यन्ते
भूम्य्-अर्थम् अपराङ्-मुखाः।
अकूटैर् आयुधैर् यान्ति
ते स्वर्गं योगिनो यथा ॥ १.३२४ ॥

325 पदानि क्रतुतुल्यानि ...{Loading}...

पदानि क्रतु-तुल्यानि
भग्नेष्व् अविनिवर्तिनाम्।
राजा सुकृतम् आदत्ते
हतानां विपलायिनाम् ॥ १.३२५ ॥

326 तवाहंवादिनङ् क्लीबं ...{Loading}...

तवाहं-वादिनं क्लीबं
निर्हेतिं पर-सङ्गतम्।
न हन्याद् विनिवृत्तं च
युद्ध-प्रेक्षणकादिकम् ॥ १.३२६ ॥

327 कृतरक्षः समुत्थाय ...{Loading}...

कृत-रक्षः समुत्थाय
पश्येद् आय-व्ययौ स्वयम्।
व्यवहारांस् ततो दृष्ट्वा
स्नात्वा भुञ्जीत कामतः ॥ १.३२७ ॥

328 हिरण्यं व्यापृतानीतं ...{Loading}...

हिरण्यं व्यापृतानीतं
भाण्डागारेषु निक्षिपेत्।
पश्येच् चारांस् ततो दूतान्
प्रेषयेन् मन्त्रि-सङ्गतः ॥ १.३२८ ॥

329 ततः स्वैरविहारी ...{Loading}...

ततः स्वैर-विहारी स्यान्
मन्त्रिभिर् वा समागतः।
बलानां दर्शनं कृत्वा
सेनान्या सह चिन्तयेत् ॥ १.३२९ ॥

330 सन्ध्याम् उपास्य ...{Loading}...

सन्ध्याम् उपास्य शृणुयाच्
चाराणां गूढ-भाषितम्।
गीत-नृत्यैश् च भुञ्जीत
पठेत् स्वाध्यायम् एव च ॥ १.३३० ॥

331 संविशेत् तूर्यघोषेण ...{Loading}...

संविशेत् तूर्य-घोषेण
प्रतिबुध्येत् तथैव च [त्xत्: प्रतिबुद्ध्यत्]।
शास्त्राणि चिन्तयेद् बुद्ध्या
सर्व-कर्तव्यतास् तथा ॥ १.३३१ ॥

332 प्रेषयेच् च ...{Loading}...

प्रेषयेच् च ततश् चारान्
स्वेष्व् अन्येषु च सादरान्।
ऋत्विक्-पुरोहिताचार्यैर्
आशीर्भिर् अभिनन्दितः ॥ १.३३२ ॥

333 दृष्ट्वा ज्योतिर्विदो ...{Loading}...

दृष्ट्वा ज्योतिर्विदो वैद्यान्
दद्याद् गां काञ्चनं महीम्।
नैवेशिकानि च ततः
श्रोत्रियेभ्यो गृहाणि च ॥ १.३३३ ॥

334 ब्राह्मणेषु क्षमी ...{Loading}...

ब्राह्मणेषु क्षमी स्निग्धेष्व्
अजिह्मः क्रोधनो ऽरिषु।
स्याद् राजा भृत्य-वर्गेषु
प्रजासु च यथा पिता ॥ १.३३४ ॥

335 पुण्यात् षड्भागम् ...{Loading}...

पुण्यात् षड्-भागम् आदत्ते
न्यायेन परिपालयन्।
सर्व-दानाधिकं यस्मात्
प्रजानां परिपालनम् ॥ १.३३५ ॥

336 चाटतस्करदुर्वृत्त महासाहसिकादिभिः ...{Loading}...

चाट-तस्कर-दुर्वृत्त-
महा-साहसिकादिभिः।
पीड्यमानाः प्रजा रक्षेत्
कायस्थैश् च विशेषतः ॥ १.३३६ ॥

337 अरक्ष्यमाणाः कुर्वन्ति ...{Loading}...

अरक्ष्यमाणाः कुर्वन्ति
यत्-किञ्चित् किल्बिषं प्रजाः।
तस्मात् तु नृपतेर् अर्धं
यस्माद् गृह्णात्य् असौ करान् ॥ १.३३७ ॥

338 ये राष्ट्राधिकृतास् ...{Loading}...

ये राष्ट्राधिकृतास् तेषां
चारैर् ज्ञात्वा विचेष्टितम्।
साधून् सम्मानयेद् राजा
विपरीतांश् च घातयेत् ॥ १.३३८ ॥

339 उत्कोचजीविनो द्रव्य ...{Loading}...

उत्कोच-जीविनो द्रव्य-
हीनान् कृत्वा विवासयेत्।
सद्-दान-मान-सत्कारान्
श्रोत्रियान् वासयेत् सदा ॥ १.३३९ ॥

340 अन्यायेन नृपो ...{Loading}...

अन्यायेन नृपो राष्ट्रात्
स्व-कोशं यो ऽभिवर्धयेत्।
सो ऽचिराद् विगत-श्रीको
नाशम् एति स-बान्धवः ॥ १.३४० ॥

341 प्रजापीडनसन्तापात् समुद्भूतो ...{Loading}...

प्रजा-पीडन-सन्तापात्
समुद्भूतो हुताशनः।
राज्ञः कुलं श्रियं प्राणांश्
चादग्ध्वा न निवर्तते ॥ १.३४१ ॥

342 य एव ...{Loading}...

य एव नृपतेर् धर्मः
स्व-राष्ट्र-परिपालने।
तम् एव कृत्स्नम् आप्नोति
पर-राष्ट्रं वशं नयन् ॥ १.३४२ ॥

343 यस्मिन् देशे ...{Loading}...

यस्मिन् देशे य आचारो
व्यवहारः कुल-स्थितिः।
तथैव परिपाल्यो ऽसौ
यदा वशम् उपागतः ॥ १.३४३ ॥

344 मन्त्रमूलं यतो ...{Loading}...

मन्त्र-मूलं यतो राज्यं
तस्मान् मन्त्रं सु-रक्षितम्।
कुर्याद् यथा ऽस्य न विदुः
कर्मणाम् आ-फलोदयात् ॥ १.३४४ ॥

345 अरिर् मित्रम् ...{Loading}...

अरिर् मित्रम् उदासीनो
ऽनन्तरस् तत्-परः परः।
क्रमशो मण्डलं चिन्त्यं
सामादिभिर् उपक्रमैः ॥ १.३४५ ॥

346 उपायाः साम ...{Loading}...

उपायाः साम दानं च
भेदो दण्डस् तथैव च।
सम्यक्-प्रयुक्ताः सिध्येयुर्
दण्डस् त्व् अगतिका गतिः ॥ १.३४६ ॥

347 सन्धिञ् च ...{Loading}...

सन्धिं च विग्रहं यानम्
आसनं संश्रयं तथा।
द्वैधी-भावं गुणान् एतान्
यथावत् परिकल्पयेत् ॥ १.३४७ ॥

348 यदा सस्यगुणोपेतं ...{Loading}...

यदा सस्य-गुणोपेतं
पर-राष्ट्रं तदा व्रजेत्।
परश् च हीन आत्मा च
हृष्ट-वाहन-पूरुषः ॥ १.३४८ ॥

349 दैवे पुरुषकारे ...{Loading}...

दैवे पुरुष-कारे च
कर्म-सिद्धिर् व्यवस्थिता।
तत्र दैवम् अभिव्यक्तं
पौरुषं पौर्वदेहिकम् ॥ १.३४९ ॥

350 केचिद् दैवात् ...{Loading}...

केचिद् दैवात् स्वभावाद् वा
कालात् पुरुष-कारतः।
संयोगे केचिद् इच्छन्ति
फलं कुशल-बुद्धयः ॥ १.३५० ॥

351 यथा ह्य् ...{Loading}...

यथा ह्य् एकेन चक्रेण
रथस्य न गतिर् भवेत्।
एवं पुरुष-कारेण
विना दैवं न सिध्यति ॥ १.३५१ ॥

352 हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् ...{Loading}...

हिरण्य-भूमि-लाभेभ्यो
मित्र-लब्धिर् वरा यतः।
अतो यतेत तत्-प्राप्त्यै
रक्षेत् सत्यं समाहितः ॥ १.३५२ ॥

353 स्वाम्य् अमात्या ...{Loading}...

स्वाम्य् अमात्या जनो दुर्गं
कोशो दण्डस् तथैव च।
मित्राण्य् एताः प्रकृतयो
राज्यं सप्ताङ्गम् उच्यते ॥ १.३५३ ॥

354 तद् अवाप्य ...{Loading}...

तद् अवाप्य नृपो दण्डं
दुर्वृत्तेषु निपातयेत्।
धर्मो हि दण्ड-रूपेण
ब्रह्मणा निर्मितः पुरा ॥ १.३५४ ॥

355 स नेतुन् ...{Loading}...

स नेतुं न्यायतो ऽशक्यो
लुब्धेनाकृत-बुद्धिना।
सत्य-सन्धेन शुचिना
सु-सहायेन धीमता ॥ १.३५५ ॥

356 यथाशास्त्रम् प्रयुक्तः ...{Loading}...

यथा-शास्त्रं प्रयुक्तः सन्
स-देवासुर-मानवम्।
जगद् आनन्दयेत् सर्वम्
अन्यथा तत् प्रकोपयेत् ॥ १.३५६ ॥

357 अधर्मदण्डनं स्वर्ग ...{Loading}...

अधर्म-दण्डनं स्वर्ग-
कीर्ति-लोक-विनाशनम्।
सम्यक् तु दण्डनं राज्ञः
स्वर्ग-कीर्ति-जयावहम् ॥ १.३५७ ॥

358 अपि भ्राता ...{Loading}...

अपि भ्राता सुतो ऽर्घ्यो वा
श्वशुरो मातुलो ऽपि वा।
नादण्ड्यो नाम राज्ञो ऽस्ति
धर्माद् विचलितः स्वकात् ॥ १.३५८ ॥

359 यो दण्ड्यान् ...{Loading}...

यो दण्ड्यान् दण्डयेद् राजा
सम्यग् वध्यांश् च घातयेत्।
इष्टं स्यात् क्रतुभिस् तेन
समाप्त-वर-दक्षिणैः ॥ १.३५९ ॥

360 इति सञ्चिन्त्य ...{Loading}...

इति सञ्चिन्त्य नृपतिः
क्रतु-तुल्य-फलं पृथक्।
व्यवहारान् स्वयं पश्येत्
सभ्यैः परिवृतो ऽन्वहम् ॥ १.३६० ॥

361 कुलानि जातीः ...{Loading}...

कुलानि जातीः श्रेणीश् च
गणान् जानपदान् अपि।
स्व-धर्माच् चलितान् राजा
विनीय स्थापयेत् पथि ॥ १.३६१ ॥

362 जालसूर्यमरीचिस्थं त्रसरेणू ...{Loading}...

जाल-सूर्य-मरीचिस्थं
त्रस-रेणू रजः स्मृतम्।
ते ऽष्टौ लिक्षा तु तास् तिस्रो
राज-सर्षप उच्यते ॥ १.३६२ ॥

363 गौरस् तु ...{Loading}...

गौरस् तु ते त्रयः षट् ते
यवो मध्यस् तु ते त्रयः।
कृष्णलः पञ्च ते माषस्
ते सुवर्णस् तु षोडश ॥ १.३६३ ॥

364 पलं सुवर्णाश् ...{Loading}...

पलं सुवर्णाश् चत्वारः
पञ्च वा ऽपि प्रकीर्तितम्।
द्वे कृष्णले रूप्य-माषो
धरणं षोडशैव ते ॥ १.३६४ ॥

365 शतमानन् तु ...{Loading}...

शत-मानं तु दशभिर्
धरणैः पलम् एव तु।
निष्कं सुवर्णाश् चत्वारः
कार्षिकस् ताम्रिकः पणः ॥ १.३६५ ॥

366 साशीतिपणसाहस्रो दण्ड ...{Loading}...

साशीति-पण-साहस्रो
दण्ड उत्तम-साहसः।
तद्-अर्धं मध्यमः प्रोक्तस्
तद्-अर्धम् अधमः स्मृतः ॥ १.३६६ ॥

367 धिग्दण्डस् त्व् ...{Loading}...

धिग्-दण्डस् त्व् अथ वाग्-दण्डो
धन-दण्डो वधस् तथा।
योज्या व्यस्ताः समस्ता वा ह्य्
अपराध-वशाद् इमे ॥ १.३६७ ॥

368 ज्ञात्वा ऽपराधन् ...{Loading}...

ज्ञात्वा ऽपराधं देशं च
कालं बलम् अथापि वा।
वयः कर्म च वित्तं च
दण्डं दण्ड्येषु पातयेत् ॥ १.३६८ ॥