१२ ग्रह-शान्ति-प्रकरणम्

295 श्रीकामः शान्तिकामो ...{Loading}...

श्री-कामः शान्ति-कामो वा
ग्रह-यज्ञं समाचरेत्।
वृष्ट्य्-आयुः-पुष्टि-कामो वा
तथैवाभिचरन्न् अपि ॥ १.२९५ ॥

296 सूर्यः सोमो ...{Loading}...

सूर्यः सोमो मही-पुत्रः
सोम-पुत्रो बृहस्पतिः।
शुक्रः शनैश्चरो राहुः
केतुश् चेति ग्रहाः स्मृताः ॥ १.२९६ ॥

297 ताम्रकात् स्फटिकाद् ...{Loading}...

ताम्रकात् स्फटिकाद् रक्त-
चन्दनात् स्वर्णकाद् उभौ।
राजताद् अयसः सीसात्
कांस्यात् कार्या ग्रहाः क्रमात् ॥ १.२९७ ॥

298 स्ववर्णैर् वा ...{Loading}...

स्व-वर्णैर् वा पटे लेख्या
गन्धैर् मण्डलकेषु वा।
यथा-वर्णं प्रदेयानि
वासांसि कुसुमानि च ॥ १.२९८ ॥

299 गन्धाश् च ...{Loading}...

गन्धाश् च बलयश् चैव
धूपो देयश् च गुग्गुलुः।
कर्तव्या मन्त्रवन्तश् च
चरवः प्रतिदैवतम् ॥ १.२९९ ॥

300 आकृष्णेन इमन् ...{Loading}...

आकृष्णेन इमं देवा
अग्निर् मूर्धा दिवः ककुत्।
उद्बुध्यस्वेति च ऋचो
यथा-सङ्ख्यं प्रकीर्तिताः ॥ १.३०० ॥

301 बृहस्पते ऽति ...{Loading}...

बृहस्पते ऽति यद् अर्यस्
तथैवान्नात् परिस्रुतः।
शं नो देवीस् तथा काण्डात्
केतुं कृण्वन्न् इमांस् तथा ॥ १.३०१ ॥

302 अर्कः पलाशः ...{Loading}...

अर्कः पलाशः खदिर
अपामार्गो ऽथ पिप्पलः।
उदुम्बरः शमी दूर्वा
कुशाश् च समिधः क्रमात् ॥ १.३०२ ॥

303 एकैकस्य त्व् ...{Loading}...

एकैकस्य त्व् अष्ट-शतम्
अष्टाविंशतिर् एव वा।
होतव्या मधु-सर्पिर्भ्यां
दध्ना क्षीरेण वा युताः ॥ १.३०३ ॥

304 गुडौदनम् पायसञ् ...{Loading}...

गुडौदनं पायसं च
हविष्यं क्षीर-षाष्टिकम्।
दध्य्-ओदनं हविश् चूर्णं
मांसं चित्रान्नम् एव च ॥ १.३०४ ॥

305 दद्याद् ग्रहक्रमाद् ...{Loading}...

दद्याद् ग्रह-क्रमाद् एवं
द्विजेभ्यो भोजनं बुधः।
शक्तितो वा यथा-लाभं
सत्-कृत्य विधि-पूर्वकम् ॥ १.३०५ ॥

306 धेनुः शङ्खस् ...{Loading}...

धेनुः शङ्खस् तथा ऽनड्वान्
हेम वासो हयः क्रमात्।
कृष्णा गौर् आयसं छाग
एता वै दक्षिणाः स्मृताः ॥ १.३०६ ॥

307 यश् च ...{Loading}...

यश् च यस्य यदा दुःस्थः
स तं यत्नेन पूजयेत्।
ब्रह्मणैषां वरो दत्तः
पूजिताः पूजयिष्यथ ॥ १.३०७ ॥

308 ग्रहाधीना नरेन्द्राणाम् ...{Loading}...

ग्रहाधीना नरेन्द्राणाम्
उच्छ्रायाः पतनानि च।
भावाभावौ च जगतस्
तस्मात् पूज्यतमा ग्रहाः ॥ १.३०८ ॥

309-१ ग्रहाणाम् इदम् ...{Loading}...

ग्रहाणाम् इदम् आतिथ्यं
कुर्यात् संवत्सराद् अपि।
आरोग्य-बल-सम्पन्नो
जीवेत् स शरदः शतम् ॥ १.३०९.१ ॥