११ गणपति-कल्प-प्रकरणम्

271 विनायकः कर्मविघ्न ...{Loading}...

विनायकः कर्म-विघ्न-
सिद्ध्य्-अर्थं विनियोजितः।
गणानाम् आधिपत्ये च
रुद्रेण ब्रह्मणा तथा ॥ १.२७१ ॥

272 तेनोपसृष्टो यस् ...{Loading}...

तेनोपसृष्टो यस् तस्य
लक्षणानि निबोधत।
स्वप्ने ऽवगाहते ऽत्यर्थं
जलं मुण्डांश् च पश्यति ॥ १.२७२ ॥

273 काषायवाससश् चैव ...{Loading}...

काषाय-वाससश् चैव
क्रव्यादांश् चाधिरोहति।
अन्त्यजैर् गर्दभैर् उष्ट्रैः
सहैकत्रावतिष्ठते ॥ १.२७३ ॥

274 व्रजन्न् अपि ...{Loading}...

व्रजन्न् अपि तथ +आत्मानं
मन्यते ऽनुगतं परैः।
विमना विफलारम्भः
संसीदत्य् अनिमित्ततः ॥ १.२७४ ॥

275 तेनोपसृष्टो लभते ...{Loading}...

तेनोपसृष्टो लभते
न राज्यं राज-नन्दनः।
कुमारी च न भर्तारम्
अपत्यं गर्भम् अङ्गना ॥ १.२७५ ॥

276 आचार्यत्वं श्रोत्रियश् ...{Loading}...

आचार्यत्वं श्रोत्रियश् च
न शिष्यो ऽध्ययनं तथा।
वणिग्-लाभं न च+आप्नोति
कृषिं चापि कृषी-वलः ॥ १.२७६ ॥

277 स्नपनन् तस्य ...{Loading}...

स्नपनं तस्य कर्तव्यं
पुण्ये ऽह्नि विधि-पूर्वकम्।
गौर-सर्षप-कल्केन
साज्येनोत्सादितस्य च ॥ १.२७७ ॥

278 सर्वाउषधैः सर्वगन्धैर् ...{Loading}...

सर्वाउषधैः सर्व-गन्धैर्
विलिप्त-शिरसस् तथा।
भद्रासनोपविष्टस्य
स्वस्ति-वाच्या द्विजाः शुभाः ॥ १.२७८ ॥

279 अश्वस्थानाद् गजस्थानाद् ...{Loading}...

अश्व-स्थानाद् गज-स्थानाद्
वल्मीकात् सङ्गमाद् ह्रदात्।
मृत्तिकां रोचनां गन्धान्
गुग्गुलुं चाप्सु निक्षिपेत् ॥ १.२७९ ॥

280 या आहृता ...{Loading}...

या आहृता ह्य् एक-वर्णैश्
चतुर्भिः कलशैर् ह्रदात्।
चर्मण्य् आनडुहे रक्ते
स्थाप्यं भद्रासनं ततः ॥ १.२८० ॥

281 सहस्राक्षं शतधारम् ...{Loading}...

सहस्राक्षं शत-धारम्
ऋषिभिः पावनं कृतम्।
तेन त्वाम् अभिषिञ्चामि
पावमान्यः पुनन्तु ते ॥ १.२८१ ॥

282 भगन् ते ...{Loading}...

भगं ते वरुणो राजा
भगं सूर्यो बृहस्पतिः।
भगम् इन्द्रश् च वायुश् च
भगं सप्तर्षयो ददुः ॥ १.२८२ ॥

283 यत् ते ...{Loading}...

यत् ते केशेषु दौर्भाग्यं
सीमन्ते यच् च मूर्धनि।
ललाटे कर्णयोर् अक्ष्णोर्
आपस् तद् घ्नन्तु सर्वदा ॥ १.२८३ ॥

284 स्नातस्य सार्षपन् ...{Loading}...

स्नातस्य सार्षपं तैलं
स्रुवेणौदुम्बरेण तु।
जुहुयान् मूर्धनि कुशान्
सव्येन परिगृह्य च ॥ १.२८४ ॥

285 मितश् च ...{Loading}...

मितश् च सम्मितश् चैव
तथा शाल-कटङ्कटौ।
कूश्माण्डो राज-पुत्रश् चेत्य्
अन्ते स्वाहा-समन्वितैः ॥ १.२८५ ॥

286 नामभिर् बलिमन्त्रैश् ...{Loading}...

नामभिर् बलि-मन्त्रैश् च
नमस्-कार-समन्वितैः।
दद्याच् चतुष्-पथे शूर्पे
कुशान् आस्तीर्य सर्वतः (०१) ॥ १.२८६ ॥

287 कृताकृतांस् तण्डुलांश् ...{Loading}...

कृताकृतांस् तण्डुलांश् च
पललौदनम् एव च।
मत्स्यान् पक्वांस् तथैवामान्
मांसम् एतावद् एव तु ॥ १.२८७ ॥

288 पुष्पञ् चित्रं ...{Loading}...

पुष्पं चित्रं सु-गन्धं च
सुरां च त्रिविधाम् अपि।
मूलकं पूरिकापूपांस्
तथैवोण्डेरक-स्रजः ॥ १.२८८ ॥

289 दध्य् अन्नम् ...{Loading}...

दध्य् अन्नं पायसं चैव
गुड-पिष्टं स-मोदकम्।
एतान् सर्वान् समाहृत्य
भूमौ कृत्वा ततः शिरः ॥ १.२८९ ॥

290 विनायकस्य जननीम् ...{Loading}...

विनायकस्य जननीम्
उपतिष्ठेत् ततो ऽम्बिकाम्।
दूर्वा-सर्षप-पुष्पाणां
दत्त्वा ऽर्घ्यं पूर्णम् अञ्जलिम् (०२) ॥ १.२९० ॥

291 रूपन् देहि ...{Loading}...

रूपं देहि यशो देहि
भगं भवति देहि मे।
पुत्रान् देहि धनं देहि
सर्व-कामांश् च देहि मे ॥ १.२९१ ॥

292 ततः शुक्लाम्बरधरः ...{Loading}...

ततः शुक्लाम्बर-धरः
शुक्ल-माल्यानुलेपनः।
ब्राह्मणान् भोजयेद् दद्याद्
वस्त्र-युग्मं गुरोर् अपि ॥ १.२९२ ॥

293 एवं विनायकम् ...{Loading}...

एवं विनायकं पूज्य
ग्रहांश् चैव विधानतः।
कर्मणां फलम् आप्नोति
श्रियं च+आप्नोत्य् अनुत्तमाम् ॥ १.२९३ ॥

294 आदित्यस्य सदा ...{Loading}...

आदित्यस्य सदा पूजां
तिलकं स्वामिनस् तथा।
महा-गणपतेश् चैव
कुर्वन् सिद्धिम् अवाप्नुयात् ॥ १.२९४ ॥