१० श्राद्ध-प्रकरणम्

217 अमावास्या ऽष्टका ...{Loading}...

अमावास्या ऽष्टका वृद्धिः
कृष्ण-पक्षो ऽयन-द्वयम्।
द्रव्यं ब्राह्मण-सम्पत्तिर्
विषुवत् सूर्य-सङ्क्रमः ॥ १.२१७ ॥

218 व्यतीपातो गजच्छाया ...{Loading}...

व्यतीपातो गज-च्छाया
ग्रहणं चन्द्र-सूर्ययोः।
श्राद्धं प्रति रुचिश् चैते
श्राद्ध-कालाः प्रकीर्तिताः ॥ १.२१८ ॥

219 अग्र्यः सर्वेषु ...{Loading}...

अग्र्यः सर्वेषु वेदेषु
श्रोत्रियो ब्रह्मविद् युवा।
वेदार्थविज् ज्येष्ठ-सामा
त्रि-मधुस् त्रि-सुपर्णकः ॥ १.२१९ ॥

220 स्वस्रीयर्त्विज्जामातृ याज्यश्वशुरमातुलाः ...{Loading}...

स्वस्रीयर्त्विज्-जामातृ-
याज्य-श्वशुर-मातुलाः।
त्रिणाचिकेत-दौहित्र-
शिष्य-सम्बन्धि-बान्धवाः ॥ १.२२० ॥

221 कर्मनिष्ठास् तपोनिष्ठाः ...{Loading}...

कर्म-निष्ठास् तपो-निष्ठाः
पञ्चाग्निर् ब्रह्म-चारिणः।
पितृ-मातृ-पराश् चैव
ब्राह्मणाः श्राद्ध-सम्पदः ॥ १.२२१ ॥

222 रोगी हीनातिरिक्ताङ्गः ...{Loading}...

रोगी हीनातिरिक्ताङ्गः
काणः पौनर्भवस् तथा।
अवकीर्णी कुण्ड-गोलौ
कुनखी श्याव-दन्तकः ॥ १.२२२ ॥

223 भृतकाध्यापकः क्लीबः ...{Loading}...

भृतकाध्यापकः क्लीबः
कन्या-दूष्य् अभिशस्तकः।
मित्र-ध्रुक् पिशुनः सोम-
विक्रयी परिविन्दकः ॥ १.२२३ ॥

224 मातापितृगुरुत्यागी कुण्डाशी ...{Loading}...

माता-पितृ-गुरु-त्यागी
कुण्डाशी वृषलात्मजः।
पर-पूर्वा-पतिः स्तेनः
कर्म-दुष्टाश् च निन्दिताः ॥ १.२२४ ॥

225 निमन्त्रयेत पूर्वेद्युर् ...{Loading}...

निमन्त्रयेत पूर्वे-द्युर्
ब्राह्मणान् आत्मवान् शुचिः।
तैश् चापि संयतैर् भाव्यं
मनो-वाक्-काय-कर्मभिः ॥ १.२२५ ॥

226 अपराह्णे समभ्यर्च्य ...{Loading}...

अपराह्णे समभ्यर्च्य
स्वागतेन+आगतांस् तु तान्।
पवित्र-पाणिर् आचान्तान्
आसनेषूपवेशयेत् ॥ १.२२६ ॥

227 युग्मान् दैवे ...{Loading}...

युग्मान् दैवे यथा-शक्ति
पित्र्ये ऽयुग्मांस् तथैव च।
परिस्तृते शुचौ देशे
दक्षिणा-प्रवणे तथा ॥ १.२२७ ॥

228 द्वौ दैवे ...{Loading}...

द्वौ दैवे प्राक् त्रयः पित्र्य
उदग् एकैकम् एव वा।
मातामहानाम् अप्य् एवं
तन्त्रं वा वैश्वदेविकम् ॥ १.२२८ ॥

229 पाणिप्रक्षालनन् दत्त्वा ...{Loading}...

पाणि-प्रक्षालनं दत्त्वा
विष्टरार्थं कुशान् अपि।
आवाहयेद् अनुज्ञातो
विश्वे देवास इत्य् ऋचा ॥ १.२२९ ॥

230 यवैर् अन्ववकीर्याथ ...{Loading}...

यवैर् अन्ववकीर्याथ
भाजने स-पवित्रके।
शं नो देव्या पयः क्षिप्त्वा
यवो ऽसीति यवांस् तथा ॥ १.२३० ॥

231 या दिव्या ...{Loading}...

या दिव्या इति मन्त्रेण
हस्तेष्व् अर्घ्यं विनिक्षिपेत्।
दत्त्वा उदकं गन्ध-माल्यं
धूप-दानं स-दीपकम् ॥ १.२३१ ॥

232 तथ +आच्छादनदानञ् ...{Loading}...

तथ +आच्छादन-दानं च
कर-शौचार्थम् अम्बु च।
अपसव्यं ततः कृत्वा
पितॄणाम् अप्रदक्षिणम् ॥ १.२३२ ॥

233 द्विगुणांस् तु ...{Loading}...

द्वि-गुणांस् तु कुशान् दत्त्वा ह्य्
उषन्तस् त्वेत्य् ऋचा पितॄन्।
आवाह्य तद्-अनुज्ञातो
जपेद् आयन्तु नस् ततः ॥ १.२३३ ॥

234 अपहता इति ...{Loading}...

अपहता इति तिलान्
विकीर्य च समन्ततः।
यवार्थास् तु तिलैः कार्याः
कुर्याद् अर्घ्यादि पूर्ववत् ॥ १.२३४ ॥

235 दत्त्वा अर्घ्यं ...{Loading}...

दत्त्वा अर्घ्यं संस्रवांस् तेषां
पात्रे कृत्वा विधानतः।
पितृभ्यः स्थानम् असीति
न्युब्जं पात्रं करोत्य् अधः ॥ १.२३५ ॥

236 अग्नौ करिष्यन्न् ...{Loading}...

अग्नौ करिष्यन्न् आदाय
पृच्छत्य् अन्नं घृत-प्लुतम्।
कुरुष्वेत्य् अभ्यनुज्ञातो
हुत्वा ऽग्नौ पितृ-यज्ञवत् ॥ १.२३६ ॥

237 हुतशेषम् प्रदद्यात् ...{Loading}...

हुत-शेषं प्रदद्यात् तु
भाजनेषु समाहितः।
यथा-लाभोपपन्नेषु
रौप्येषु च विशेषतः ॥ १.२३७ ॥

238 दत्त्वा ऽन्नम् ...{Loading}...

दत्त्वा ऽन्नं पृथिवी-पात्रम्
इति पात्राभिमन्त्रणम्।
कृत्वेदं विष्णुर् इत्य् अन्ने
द्विजाङ्गुष्ठं निवेशयेत् ॥ १.२३८ ॥

239 सव्याहृतिकाङ् गायत्रीं ...{Loading}...

स-व्याहृतिकां गायत्रीं
मधु वाता इति त्र्यृचम्।
जप्त्वा यथा-सुखं वाच्यं
भुञ्जीरंस् ते ऽपि वाग्-यताः ॥ १.२३९ ॥

240 अन्नम् इष्तं ...{Loading}...

अन्नम् इष्तं हविष्यं च
दद्याद् अक्रोधनो ऽत्वरः।
आ-तृप्तेस् तु पवित्राणि
जप्त्वा पूर्व-जपं तथा ॥ १.२४० ॥

241 अन्नम् आदाय ...{Loading}...

अन्नम् आदाय तृप्ताः स्थ
शेषं चैवानुमान्य च।
तद् अन्नं विकिरेद् भूमौ
दद्याच् चापः सकृत् सकृत् ॥ १.२४१ ॥

242 सर्वम् अन्नम् ...{Loading}...

सर्वम् अन्नम् उपादाय
स-तिलं दक्षिणा-मुखः।
उच्छिष्ट-सन्निधौ पिण्डान्
दद्याद् वै पितृ-यज्ञवत् ॥ १.२४२ ॥

243 मातामहानाम् अप्य् ...{Loading}...

मातामहानाम् अप्य् एवं
दद्याद् आचमनं ततः।
स्वस्ति-वाच्यं ततः कुर्याद्
अक्षय्योदकम् एव च ॥ १.२४३ ॥

244 दत्त्वा तु ...{Loading}...

दत्त्वा तु दक्षिणां शक्त्या
स्वधा-कारम् उदाहरेत्।
वाच्यताम् इत्य् अनुज्ञातः
प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४४ ॥

245 ब्रूयुर् अस्तु ...{Loading}...

ब्रूयुर् अस्तु स्वधेत्य् उक्ते
भूमौ सिञ्चेत् ततो जलम् (४)।
विश्वे देवाश् च प्रीयन्तां
विप्रैश् चोक्त इदं जपेत् ॥ १.२४५ ॥

246 दातारो नो ...{Loading}...

दातारो नो ऽभिवर्धन्तां
वेदाः सन्ततिर् एव च।
श्रद्धा च नो मा व्यगमद्
बहु देयं च नो ऽस्त्व् इति ॥ १.२४६ ॥

247 इत्य् उक्त्वोक्त्वा ...{Loading}...

इत्य् उक्त्वोक्त्वा प्रिया वाचः
प्रणिपत्य विसर्जयेत्।
वाजे वाज इति प्रीतः
पितृ-पूर्वं विसर्जनम् ॥ १.२४७ ॥

248 यस्मिंस् तु ...{Loading}...

यस्मिंस् तु संस्रवाः पूर्वम्
अर्घ्य-पात्रे निवेशिताः।
पितृ-पात्रं तद्-उत्तानं
कृत्वा विप्रान् विसर्जयेत् ॥ १.२४८ ॥

249 प्रदक्षिणम् अनुव्रज्य ...{Loading}...

प्रदक्षिणम् अनुव्रज्य
भुञ्जीत पितृ-सेवितम्।
ब्रह्म-चारी भवेत् तां तु
रजनीं ब्राह्मणैः सह ॥ १.२४९ ॥

250 एवम् प्रदक्षिणावृत्को ...{Loading}...

एवं प्रदक्षिणावृत्को
वृद्धौ नान्दी-मुखान् पितॄन्।
यजेत दधि कर्कन्धु-
मिश्रान् पिण्डान् यवैः क्रियाः ॥ १.२५० ॥

251 एकोद्दिष्टन् देवहीनम् ...{Loading}...

एकोद्दिष्टं देव-हीनम्
एकार्घ्यैक-पवित्रकम्।
आवाहनाग्नौ-करण-
रहितं ह्य् अपसव्यवत् ॥ १.२५१ ॥

252 उपतिष्ठताम् अक्षय्य ...{Loading}...

उपतिष्ठताम् अक्षय्य-
स्थाने विप्र-विसर्जने।
अभिरम्यताम् इति वदेद्
ब्रूयुस् ते ऽभिरताः स्म ह ॥ १.२५२ ॥

253 गन्धोदकतिलैर् युक्तं ...{Loading}...

गन्धोदक-तिलैर् युक्तं
कुर्यात् पात्र-चतुष्टयम्।
अर्घ्यार्थं पितृ-पात्रेषु
प्रेत-पात्रं प्रसेचयेत् ॥ १.२५३ ॥

254 ये समाना ...{Loading}...

ये समाना इति द्वाभ्यां
शेषं पूर्ववद् आचरेत्।
एतत् सपिण्डी-करणम्
एकोद्दिष्टं स्त्रिया अपि ॥ १.२५४ ॥

255 अर्वाक्सपिण्डीकरणं यस्य ...{Loading}...

अर्वाक्-सपिण्डी-करणं
यस्य संवत्सराद् भवेत्।
तस्याप्य् अन्नं सोद-कुम्भं
दद्यात् संवत्सरं द्विजे ॥ १.२५५ ॥

256 मृते ऽहनि ...{Loading}...

मृते ऽहनि प्रकर्तव्यं
प्रतिमासं तु वत्सरम्।
प्रतिसंवत्सरं चैवम्
आद्यम् एकादशे ऽहनि ॥ १.२५६ ॥

257 पिण्डांस् तु ...{Loading}...

पिण्डांस् तु गो-ज-विप्रेभ्यो
दद्याद् अग्नौ जले ऽपि वा।
प्रक्षिपेत् सत्सु विप्रेषु
द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५७ ॥

258 हविष्यान्नेन वै ...{Loading}...

हविष्यान्नेन वै मासं
पायसेन तु वत्सरम्।
मात्स्य-हारिण-कौरभ-
शाकुन-च्छाग-पार्षतैः ॥ १.२५८ ॥

259 ऐणरौरववाराह शाशैर् ...{Loading}...

ऐण-रौरव-वाराह-
शाशैर् मांसैर् यथा-क्रमम्।
मास-वृद्ध्या ऽभितृप्यन्ति
दत्तैर् इह पितामहाः ॥ १.२५९ ॥

260 खड्दामिषम् महाशल्कं ...{Loading}...

खड्दामिषं महा-शल्कं
मधु मुन्य्-अन्नम् एव वा।
लौहामिषं महा-शाकं
मांसं वार्ध्रीणसस्य च ॥ १.२६० ॥

261 यद् ददाति ...{Loading}...

यद् ददाति गयास्थश् च
सर्वम् आनन्त्यम् अश्नुते।
तथा वर्षा-त्रयोदश्यां
मघासु च विशेषतः ॥ १.२६१ ॥

262 कन्याङ् कन्यावेदिनश् ...{Loading}...

कन्यां कन्या-वेदिनश् च
पशून् वै सत्-सुतान् अपि।
द्यूतं कृषिं वाणिज्यां च
द्विशफैकशफांस् तथा ॥ १.२६२ ॥

263 ब्रह्मवर्चस्विनः पुत्रान् ...{Loading}...

ब्रह्म-वर्चस्विनः पुत्रान्
स्वर्ण-रूप्ये स-कुप्यके।
ज्ञाति-श्रैष्ठ्यं सर्व-कामान्
आप्नोति श्राद्धदः सदा ॥ १.२६३ ॥

264 प्रतिपत्प्रभृतिष्व् एकां ...{Loading}...

प्रतिपत्-प्रभृतिष्व् एकां
वर्जयित्वा चतुर्दशीम्।
शस्त्रेण तु हता ये वै
तेभ्यस् तत्र प्रदीयते ॥ १.२६४ ॥

265 स्वर्गं ह्य् ...{Loading}...

स्वर्गं ह्य् अपत्यम् ओजश् च
शौर्यं क्षेत्रं बलं तथा।
पुत्रं श्रैष्ठ्यं च सौभाग्यं
समृद्धिं मुख्यतां शुभम् ॥ १.२६५ ॥

266 प्रवृत्तचक्रताञ् चैव ...{Loading}...

प्रवृत्त-चक्रतां चैव
वाणिज्य-प्रभृतीन् अपि।
अरोगित्वं यशो वीत-
शोकतां परमां गतिम् ॥ १.२६६ ॥

267 धनं वेदान् ...{Loading}...

धनं वेदान् भिषक्-सिद्धिं
कुप्यं गा अप्य् अजाविकम्।
अश्वान् आयुश् च विधिवद्
यः श्राद्धं सम्प्रयच्छति ॥ १.२६७ ॥

268 कृत्तिकादिभरण्य्अन्तं स ...{Loading}...

कृत्तिकादि-भरण्य्-अन्तं
स कामान् आप्नुयाद् इमान्।
आस्तिकः श्रद्दधानश् च
व्यपेत-मद-मत्सरः ॥ १.२६८ ॥

269 वसुरुद्रादितिसुताः पितरः ...{Loading}...

वसु-रुद्रादिति-सुताः
पितरः श्राद्ध-देवताः।
प्रीणयन्ति मनुष्याणां
पितॄन् श्राद्धेन तर्पिताः ॥ १.२६९ ॥

270 आयुः प्रजान् ...{Loading}...

आयुः प्रजां धनं विद्यां
स्वर्गं मोक्षं सुखानि च।
प्रयच्छन्ति तथा राज्यं
प्रीता नॄणां पितामहाः ॥ १.२७० ॥