०९ दान-प्रकरणम्

198 तपस् तप्त्वा ...{Loading}...

तपस् तप्त्वा ऽसृजद् ब्रह्मा
ब्राह्मणान् वेद-गुप्तये।
तृप्त्य्-अर्थं पितृ-देवानां
धर्म-संरक्षणाय च ॥ १.१९८ ॥

199 सर्वस्य प्रभवो ...{Loading}...

सर्वस्य प्रभवो विप्राः
श्रुताध्ययन-शीलिनः।
तेभ्यः क्रिया-पराः श्रेष्ठास्
तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥ १.१९९ ॥

200 न विद्यया ...{Loading}...

न विद्यया केवलया
तपसा वा ऽपि पात्रता।
यत्र वृत्तम् इमे चोभे
तद् धि पात्रं प्रकीर्तितम् ॥ १.२०० ॥

201 गोभूतिलहिरण्यादि पात्रे ...{Loading}...

गो-भू-तिल-हिरण्यादि
पात्रे दातव्यम् अर्चितम्।
नापात्रे विदुषा किञ्चिद्
आत्मनः श्रेय इच्छता ॥ १.२०१ ॥

202 विद्यातपोभ्यां हीनेन ...{Loading}...

विद्या-तपोभ्यां हीनेन
न तु ग्राह्यः प्रतिग्रहः।
गृह्णन् प्रदातारम् अधो
नयत्य् आत्मानम् एव च ॥ १.२०२ ॥

203 दातव्यम् प्रत्यहम् ...{Loading}...

दातव्यं प्रत्यहं पात्रे
निमित्तेषु विशेषतः।
याचितेनापि दातव्यं
श्रद्धा-पूतं स्व-शक्तितः ॥ १.२०३ ॥

204 हेमशृङ्गी शफै ...{Loading}...

हेम-शृङ्गी शफै रौप्यैः
सु-शीला वस्त्र-संयुता।
स-कांस्य-पात्रा दातव्या
क्षीरिणी गौः स-दक्षिणा ॥ १.२०४ ॥

205 दाता ऽस्याः ...{Loading}...

दाता ऽस्याः स्वर्गम् आप्नोति
वत्सरान् रोम-सम्मितान्।
कपिला चेत् तारयति
भूयश् च+आ-सप्तमं कुलम् ॥ १.२०५ ॥

206 सवत्सारोमतुल्यानि युगान्य् ...{Loading}...

सवत्सा-रोम-तुल्यानि
युगान्य् उभयतो-मुखीम्।
दाता ऽस्याः स्वर्गम् आप्नोति
पूर्वेण विधिना ददत् ॥ १.२०६ ॥

207 यावद् वत्सस्य ...{Loading}...

यावद् वत्सस्य पादौ द्वौ
मुखं योन्यां च दृश्यते।
तावद् गौः पृथिवी ज्ञेया
यावद् गर्भं न मुञ्चति ॥ १.२०७ ॥

208 यथाकथञ्चिद् दत्त्वा ...{Loading}...

यथा-कथञ्चिद् दत्त्वा गां
धेनुं वा ऽधेनुम् एव वा।
अरोगाम् अपरिक्लिष्टां
दाता स्वर्गे महीयते ॥ १.२०८ ॥

209 श्रान्तसंवाहनं रोगि ...{Loading}...

श्रान्त-संवाहनं रोगि-
परिचर्या सुरार्चनम्।
पाद-शौचं द्विजोच्छिष्ट-
मार्जनं गो-प्रदानवत् ॥ १.२०९ ॥

210 भूदीपांश् चान्नवस्त्राम्भस् ...{Loading}...

भू-दीपांश् चान्न-वस्त्राम्भस्-
तिल-सर्पिः-प्रतिश्रयान् (२)।
नैवेशिकं स्वर्ण-धुर्यं
दत्त्वा स्वर्गे महीयते ॥ १.२१० ॥

211 गृहधान्याभयोपानच् छत्रमाल्यानुलेपनम् ...{Loading}...

गृह-धान्याभयोपानच्-
छत्र-माल्यानुलेपनम्।
यानं वृक्षं प्रियं शय्यां
दत्त्वा ऽत्यन्तं सुखी भवेत् ॥ १.२११ ॥

212 सर्वधर्ममयम् ब्रह्म ...{Loading}...

सर्व-धर्म-मयं ब्रह्म
प्रदानेभ्यो ऽधिकं यतः।
तद् ददत् समवाप्नोति
ब्रह्म-लोकम् अविच्युतम् ॥ १.२१२ ॥

213 प्रतिग्रहसमर्थो ऽपि ...{Loading}...

प्रतिग्रह-समर्थो ऽपि
न+आदत्ते यः प्रतिग्रहम्।
ये लोका दान-शीलानां
स तान् आप्नोति पुष्कलान् ॥ १.२१३ ॥

214 कुशाः शाकम् ...{Loading}...

कुशाः शाकं पयो मत्स्या
गन्धाः पुष्पं दधि क्षितिः।
मांसं शय्य +आसनं धानाः
प्रत्याखेयं न वारि च ॥ १.२१४ ॥

215 अयाचिताहृतङ् ग्राह्यम् ...{Loading}...

अयाचिताहृतं ग्राह्यम्
अपि दुष्कृत-कर्मणः।
अन्यत्र कुलटा-षण्ढ-
पतितेभ्यस् तथा द्विषः ॥ १.२१५ ॥

216 देवातिथिअर्चनकृते गुरुभृत्यार्थम् ...{Loading}...

देवातिथि-अर्चन-कृते
गुरु-भृत्यार्थम् एव वा।
सर्वतः प्रतिगृह्णीयाद्
आत्म-वृत्त्य्-अर्थम् एव च ॥ १.२१६ ॥