०८ द्रव्य-शुद्धि-प्रकरणम्

182 सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम् ...{Loading}...

सौवर्ण-राजताब्जानाम्
ऊर्ध्वपात्र-ग्रहाश्मनाम्।
शाक-रज्जु-मूल-फल-
वासो-विदल-चर्मणाम् ॥ १.१८२ ॥

183 पात्राणाञ् चमसानाञ् ...{Loading}...

पात्राणां चमसानां च
वारिणा शुद्धिर् इष्यते।
चरु-स्रुक्-स्रुव-सस्नेह-
पात्राण्य् उष्णेन वारिणा ॥ १.१८३ ॥

184 स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ...{Loading}...

स्फ्य-शूर्पाजिन-धान्यानां
मुसलोलूखलानसाम्।
प्रोक्षणं संहतानां च
बहूनां धान्य-वाससाम् ॥ १.१८४ ॥

185 तक्षणन् दारुशृङ्गास्थ्नां ...{Loading}...

तक्षणं दारु-शृङ्गास्थ्नां
गो-वालैः फल-सम्भुवाम्।
मार्जनं यज्ञ-पात्राणां
पाणिना यज्ञ-कर्मणि ॥ १.१८५ ॥

186 सोषरोदकगोमूत्रैः शुध्यत्य् ...{Loading}...

सोषरोदक-गो-मूत्रैः
शुध्यत्य् आविक-कौशिकम्।
स-श्री-फलैर् अंशु-पट्टं
सारिष्टैः कुतपं तथा ॥ १.१८६ ॥

187 सगौरसर्षपैः क्षौमं ...{Loading}...

स-गौर-सर्षपैः क्षौमं
पुनः-पाकान् मही-मयम्।
कारु-हस्तः शुचिः पण्यं
भैक्षं योषिन्-मुखं तथा ॥ १.१८७ ॥

188 भूशुद्धिर् मार्जनाद् ...{Loading}...

भू-शुद्धिर् मार्जनाद् दाहात्
कालाद् गो-क्रमणात् तथा।
सेकाद् उल्लेखनाल् लेपाद्
गृहं मार्जन-लेपनात् ॥ १.१८८ ॥

189 गोघ्राते ऽन्ने ...{Loading}...

गो-घ्राते ऽन्ने तथा केश-
मक्षिका-कीट-दूषिते।
सलिलं भस्म मृद् वा ऽपि
प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९ ॥

190 त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ...{Loading}...

त्रपु-सीसक-ताम्राणां
क्षाराम्लोदक-वारिभिः।
भस्माद्भिः कांस्य-लोहानां
शुद्धिः प्लावो द्रवस्य च ॥ १.१९० ॥

191 अमेध्याक्तस्य मृत्तोयैः ...{Loading}...

अमेध्याक्तस्य मृत्-तोयैः
शुद्धिर् गन्धादि-कर्षणात्।
वाक्-शस्तम् अम्बु-निर्णिक्तम्
अज्ञातं च सदा शुचि ॥ १.१९१ ॥

192 शुचि गोतृप्तिकृत् ...{Loading}...

शुचि गो-तृप्ति-कृत् तोयं
प्रकृतिस्थं मही-गतम्।
तथा मांसं श्व-चण्डाल-
क्रव्यादादि-निपातितम् ॥ १.१९२ ॥

193 रश्मिर् अग्नी ...{Loading}...

रश्मिर् अग्नी रजश्-छाया
गौर् अश्वो वसुधा ऽनिलः।
विप्रुषो मक्षिकाः स्पर्शे
वत्सः प्रस्नवने शुचिः ॥ १.१९३ ॥

194 अजाश्वयोर् मुखम् ...{Loading}...

अजाश्वयोर् मुखं मेध्यं
न गोर् न नरजा मलाः।
पन्थानश् च विशुध्यन्ति
सोम-सूर्यांशु-मारुतैः ॥ १.१९४ ॥

195 मुखजा विप्रुषो ...{Loading}...

मुखजा विप्रुषो मेध्यास्
तथ +आचमन-बिन्दवः।
श्मश्रु च+आस्य-गतं दन्त-
सक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५ ॥

196 स्नात्वा पीत्वा ...{Loading}...

स्नात्वा पीत्वा क्षुते सुप्ते
भुक्त्वा रथ्योपसर्पणे।
आचान्तः पुनर् आचामेद्
वासो विपरिधाय च ॥ १.१९६ ॥

197 रथ्याकर्दमतोयानि स्पृष्टान्य् ...{Loading}...

रथ्या-कर्दम-तोयानि
स्पृष्टान्य् अन्त्य-श्व-वायसैः।
मारुतेनैव शुध्यन्ति
पक्वेष्टक-चितानि च ॥ १.१९७ ॥